________________
३४४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामुत्कृष्स्थिति वनस्पतिपृथिव्यप्तेजोवायुकायिक भेदेषु च । अत्र प्रत्येकवनस्पतिकाये वादरेति विशेषणं स्वरूपदर्शकपरमेव बोद्धव्यम्, 'पत्तेअवण' इत्यस्य पूर्वनिपातोऽपि छन्दानुलोम्यादेवेति । "तह पुहवाइचउण्हं" ति तथा पृथिव्यादीनां वायुकायान्तानां चतुर्णा"सव्वेस सहमभेएस"त्ति सूक्ष्मौघ-तत्पर्याप्ता-ऽपर्याप्तभेदनिष्पन्नेषु 'सर्वेषु'-द्वादशष्वपि भेदेष्वित्यर्थः । एतासु द्वात्रिंशत्स्वपि मार्गणासु प्रत्येकमौधिकानुत्कृष्टस्थितिबन्धकवत् सप्तकर्मसत्कोत्कृष्टस्थितेर्बन्धकानामसंख्यलोकप्रदेशराशितुल्यत्वात्तदधिकत्वाद्वा प्रकृतकालः सर्वाद्धाऽभिहित इति ।।३८१-३८२।।
अथ शेषमार्गणासु प्रकृतकालमाह
चउणाण-संयमेसु समइअ-छेअ-परिहार-देसेसु। सम्मो-हि-वेअगु-वसम-मीसेसु लहू मुहुत्तंतो ॥३८३॥
यो भिन्नमुहत्तं अहवा समयो तिमिस्सजोगेसु। सेमासु भवे समयो
(प्रे०) "चउणाणसंयमेसु"मित्यादि, मत्यादिचतुर्ज्ञानमार्गणा-संयमोघमार्गणामु सापायिक-छेदोपस्थापन-परिहारविशुद्धिक-देशसंयममार्गणास्ववधिदर्शने, सम्यक्त्वौष-वेदकसम्यक्त्वौ-- पशमिकसम्यक्त्व-सम्यग्मिथ्यात्वमार्गणास्वित्येतासु चतुर्दर्शमार्गणासु प्रत्येकं "लहू मुहुत्तंतो" त्ति आयुर्वर्जगप्तान्यतमकर्मसत्कोत्कृष्टस्थिते नावन्धकाश्रयो 'लघुः’-जघन्यः कालो ‘मुहूर्तान्तः'अन्तमु हृत ज्ञेय इत्यर्थः । कस्मादन्तमुहूर्तमेव ? चतुर्दशमार्गणासु प्रत्येकं मिथ्यात्वाद्यभिमुखानामेव प्रकृतस्थितिबन्धस्वामित्वात् तद्वन्धकानामसंख्यलोकापेक्षया स्तोकत्वान्चेति । अयं हि सप्तानामौषिकोत्कृष्टस्थितेर्बन्धककालवदेकजीवाश्रयप्रागुक्तकालानुसारी ज्ञेयः । मिश्रयोगत्रये स्वामित्वविषयकमतद्वयेन प्रस्तुतनानाजीवाश्रयकालं यथासम्भवमाह-"भिन्नमुहत्तं अहवा" इत्यादि, गतार्थम्, भावना त्वेकजीवाश्रयवन्धकालवदेव द्रष्टव्या । अथ शेषमार्गगास्वाह-सेसासु भवे समयो ति उक्तशेषा निरयगत्योघाद्यकविंशत्युत्तरशतमार्गणासु प्रत्येकं सप्तकर्मसत्कोत्कष्टस्थितेर्वन्धकानां जघन्यः काल एकसमयो भवेत् ।
शेषमार्गणा नामत इमा:-सर्वे निरयगतिभेदाः, सर्वे तिर्यग्गतिभेदाः, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, पृथिवीकाया- काय-तेजस्कायवायुकायसत्काश्चत्वार ओघमार्गणाभेदाश्चत्वारश्च बादरोधभेदास्तथा चत्वारः पर्याप्तवादरपथिव्यादिभेदाः, प्रत्येकवनस्पतिकायौघ-पर्याप्तभेदो, सर्वे त्रसकायभेदाः, सर्वे मनोवचोयोगभेदाः, काययोगसामान्यौ-दारिक-वैक्रिया-ऽऽहारक-कार्मणकाययोगाः, स्त्री-पु-नपुंसकवेदा--ऽपगतवेद-क्रोधादिचतुःकषाय-मत्यज्ञानादिव्यज्ञान-मूक्ष्मसम्परायसंयमा- संयम-चक्षुदर्शना-ऽचक्षुर्दर्शन-कृष्णादिषल्ल श्या-भव्याऽभव्य-क्षायिकसम्यक्त्व-सासादन-मिथ्यात्व-संश्य-ऽसंख्या-ऽऽहार्य-ऽनाहारिमार्गणाभेदाचति । एतासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org