________________
ओघत आयुष उत्कृष्टेतरस्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३४३ न पुनस्तदधिक इति तथैवोक्तः । इत्थमेव मागणास्थानेष्वपि वक्ष्यमाणपल्योपमासंख्यभागादिकाल उत्कृष्टपदगतबन्धकपरिमाणै-कजीवाश्रयोत्कृष्टस्थितिबन्धाकालानुसारेणाभ्युह्य इति ।
__अथ यस्यास्तूत्कृष्टादिस्थितेर्बन्धका असंख्यलोकाकाशप्रदेशराशितुल्यास्तदधिका वा तस्या स्थितेरेकजीवाश्रयकालोऽन्तमुहर्तमात्रो भवतु, समयो वा भवतु, तथाऽपि तद्वन्धकाः सर्वदेव लभ्यन्ते, न पुनस्तद्वन्धकानां कदाप्यन्तरं भवति । तथा च सप्तानामौधिकानुत्कृष्टस्थितेर्वन्धकानामनन्तत्वात् तदीयैकजीवाश्रयबन्धकालस्य च दीर्घत्वात् तद्वन्धकास्तु सर्वदैव प्राप्यन्त इत्येतद् दर्शयन्नाह-"अगुरूअ सव्वद्वा"त्ति सप्तानामगुरोः-अनुत्कृष्टाया स्थितेर्बन्धकानां 'सर्वाद्धा', सर्वकाल इत्यर्थः । गतार्थमिति ॥३७९।। अथोक्तशेपस्यायुप उत्कृष्टानुत्कृष्टस्थित्योर्वन्धकानां कालमोघतो दर्शयन्नाह
आउस्स लहू समयो उकोसाए ठिईअ उक्कोसो।
आवलिआऽसंखंसोऽणुकोसाए उ सव्वद्धा ॥३८०॥ (प्रे०) "आउस्स लहू समयो" इत्यादि, आयुष उत्कृष्टायाः स्थितेर्बन्धकानां 'लघुः'जघन्यकाल: समयः, भवतीति शेषः । “उकोसो” त्ति तेषामेवायुष उत्कृष्टायाः स्थितेर्बन्धकानामुत्कृष्टः कालः "आवलिआऽसंखंसो” ति आवलिकाऽसंख्यभागः, आवलिकाया असंख्येयभागगतसमपप्रमाण इत्यर्थः । “णुकोसाए उ सव्वहा” त्ति प्राग्वत्, नवरमायुषः प्रकृतत्वात्तस्यानुत्कृष्टस्थितेबन्धकानां कालः सर्वाद्धति बोद्धव्यम् । अत्रैकसमयः सर्वाद्धा च सप्तकर्मणामुत्कृष्टानुत्कृष्टस्थित्योर्वन्धकानामनन्तरदर्शितैकसमयसर्वाद्धावद्भावनीयः। आवलिकाया असंख्येयभागप्रमाणकालस्त्वायुष औधिकोत्कृष्टस्थितेरेकजीवाश्रयस्योत्कृष्टबन्धकालस्य समयमात्रत्वात् , तादृशबन्धकाना. मुत्कृष्टपरिमाणस्यासंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वेऽप्यसंख्येयत्वाच्चोक्तव्याप्त्योह्यः ॥३८०॥
तदेवमभिहितोऽयानामपि मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्थितिबन्धकानां काल ओघतः । अथ तमेवादेशतो व्याजिहीपुरादौ तावदायुर्वर्जानां सप्तानां प्रकृतीनामाह
सत्तण्ह बंधगाणं उक्कोसाए ठिईअ सव्वद्धा। सव्वेसुएगिदियणिगोअभेएसु वणकाये ॥३८१॥ असमत्तबायरेसु पत्तेअवण-पुहवाइचउसु च ।
तह पुहवाइचउण्हं सव्वेसुसुहुमभेएसु॥३८२॥ (प्रे०) “सत्तण्हे" त्यादि, आयुर्वर्जानां सप्तान्यतमानां मूलप्रकृतीनामुत्कृष्टायाः स्थितेः "सव्वद्धा" ति नानाजीवाश्रयः कालः सर्वाद्धा भवति । कासु मार्गणास्त्रित्याह-"सव्वेसु" मित्यादि, सर्वेष्वेकेन्द्रियभेदेषु, सर्वेषु निगोदभेदेषु, वनस्पतिकायोघे, तथाऽपर्याप्तवादरेषु प्रत्येक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org