________________
३४२ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुषोऽनुत्कृष्स्थिति० बन्धस्यैकजीवाश्रयं समया-ऽन्तमुहूर्तादिजघन्यबन्धकालं यावत् तस्मिन् विवक्षितस्थितिबन्धे कृते तदनु निरन्तरं तत्र प्रविष्टसर्वजीवेभ्यस्तदन्येन जीवेन तदन्यैर्वा जीवैस्तादृशः स्थितिबन्धो न क्रियते तदा तत्र मार्गणादौ स विवक्षितस्थितिबन्धो तत्रस्थसर्वजीवापेक्षया चिन्त्यमानोऽपि जघन्यत एकजीवाश्रयतदीयजवन्यबन्धकालं यावदेव प्रवर्तमानो लभ्यते, अतस्तावानेकजीवाश्रयजघन्यबन्धकालेन तुल्य एकजीवकृतस्थितिबन्धसम्बध्यपि समयादिकाल एव विवक्षाभेदान्नानाजीवाश्रयो जघन्यकालो बोद्धव्यः। अत एवात्र द्वारे नानाजीवाश्रयस्थितिबन्धकालमनुक्त्वा तत्तद्विवक्षितस्थितेर्बन्धककालप्ररूपणे.. ऽपि न कश्चिद्दोषः,अधिकृतविवक्षया विवक्षितस्थिते नाजीवाश्रयबन्धकालस्य तदीयनानावन्धककालस्य च सर्वथैव तुल्यत्वात् । इत्येवमेकजीवाश्रयकालप्ररूपणायामन्यान्यजीवान् विहाय विवक्षितैकजीवनिचर्तितविवक्षितस्थितिबन्धस्य निरन्तरकालस्याधिकृतत्वात् , नानाजीवाश्रयकालप्ररूपणायां तत्तन्मार्गणादौ वर्तमानकादिसर्वबन्धकैनैरन्तर्येण निर्वर्तितस्य तस्य विवक्षितस्थितिबन्धस्य निरन्तरबन्धकालस्य विवक्षितत्वात् कुत्रचिज्जघन्यपदे विवक्षितस्थितिवन्धस्यैकजीवकृतत्वेऽपि तदानीं तत्र मार्गणादौ तदन्यस्य तादृशबन्धकतयाऽविद्यमानत्वेन तस्यैवैकजीवस्य सर्वबन्धकतया लाभात् तस्य नानाजीवाश्रयजवन्यादिकालरूपो विवक्षाकृत एकजीवाश्रयकालापेक्षया भेद एवेत्यलं पल्लवितेनेति ।
__ अथ प्रस्तुतम्-तत्र सप्तानामुत्कृष्टस्थितेः समयमात्रो जघन्यवन्धककालो यथोक्तनीत्या एकजीवाश्रयजघन्यवन्धकालवद्विभावनीयः । ननु सप्तानामुत्कृष्टस्थितेर्बन्धकानामुत्कृष्ट कालस्तर्हि कुतः पल्योपमासंख्येयभागमात्र उच्यते,न पुनः सर्वाद्धा ? इति चेद् ,भण्यते-असावुत्कृष्ट स्थितिबन्धः केनाप्येकजीवेन निरन्तरमुत्कृष्टतोऽन्तमुहूर्तकालादधिककालं न निर्वयते,अन्यच्च तद्वन्धारे जीवा असंख्येयाः सन्तोऽपि नाऽसंख्येयलोकाकाशप्रदेशराशितुल्याः, किन्तु ततो हीनाः स्वल्पतरा एव । पर्याप्तसंज्ञिपञ्चेन्द्रियाणामेव सप्तकर्मसत्कौधिकोत्कृष्टस्थितिबन्धस्वामित्वात् । तथा च सति तस्याः सप्तानामुत्कृष्टायाः स्थितेर्बन्धकानामुत्कृष्टकालः पल्योपमासंख्येयभागमात्रः प्राप्यते । इदमुक्तं भवति-यस्या एकस्थितिबन्धस्थानरूपाया उत्कृष्टाया जघन्याया वा स्थितेरेकजीवाश्रयो बन्धकाल उत्कृष्टतोऽप्यन्तमुहूर्त बन्धकपरिमाणं चासंख्येयं सदप्यसंख्यलोकाकाशप्रदेशराश्यपेक्षया स्तोकं भवति, तस्या उत्कृष्टादिस्थितेर्बन्धका नैरन्तर्येणोत्कृष्टतः पल्योपमासंख्येयभागप्रमाणकालं यावल्लभ्यन्ते, तवं तु नियमतस्तद्वन्धकानां सर्वथाऽभावलक्षणमन्तरं भवति । यस्याः स्थितेर्बन्धकाः पुनरसंख्येयाः सन्तोऽप्यसंख्यलोकाकाशप्रदेशराश्यपेक्षया स्तोकाः सन्ति तस्याः स्थितेरकजीवाश्रयबन्धकालो यद्युत्कृष्टतः संख्येयसमयमात्रस्तदा तद्वन्धका नैरन्तर्येणोत्कृष्टत आवलिकाया असंख्यभागमात्रकालं यावत्प्राप्यन्ते,न पुनः परतः,परतस्तु नियमेन तेषामन्तरस्य प्रवर्तनात् । मूलसप्तकर्मणामुत्कृष्टस्थितिबन्धस्यैकजीवाश्रयोत्कृष्टकालस्यान्तमुहूर्तत्वात्तद्वन्धकपरिमाणस्योत्कृष्टतोऽसंख्येयत्वेप्यसंख्यलोकापेक्षया स्तोकत्वाच्च तद्वन्धकानामुत्कृष्टः कालः पल्योपमासंख्येयभागमात्रः प्राप्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org