________________
ओघत आयुर्वर्जानामुत्कृष्टेतरस्थिति०] द्वितीयाधिकारे कालद्वारम्
[ ३४१ स्थितिकायुर्वन्धस्यानारब्धत्वेन चैकायुर्वन्धकसम्बन्धित्वात् , तस्य चैकबन्धकसम्बन्धिकालस्य तु . भवदुक्तविवक्षया नानाजीवाश्रयकालतयाऽयुज्यमानत्वात् । इत्थं हि नानावन्धककाल इत्यत्र नानापदवाच्य तया युगपत्स्थितिवन्धनिर्वतकानामनेकानामेव ग्रहणविवक्षया निरयगत्योधादिमार्गमासु पूर्वोतरसमये एकैकस्य,मध्ये एकस्मिन् समये तु निष्ठापक-प्रारम्भकयोयुगपत्प्राप्तः सम्भवाद् व्यत्यासेनकजीवाश्रितकालापेक्षया स्तोकः समयमात्रोऽपि नानाजीवाश्रयकालः प्राप्यते । अत्र स्थापना
| एकजीवाश्रयकालस्य जघन्यनोऽन्तमुहूर्तत्वेऽपि नानाजीवाश्रयस्य समयमात्रसम्भव इयं स्थापना ।
(१) आयुर्बन्धकानां सर्वथाऽभावकालः, (२) अत्रैकेन जीवेनाऽनुत्कृष्टस्थितिकायुबन्धः प्रारब्धः, (३) तस्याऽऽयुर्वन्धस्य निष्ठासमयः, (५) तस्य निष्ठासमयं
एवाऽन्येनाऽनुत्कृष्टस्थितिकायुर्वन्धः प्रारब्धः, (५) तस्याऽऽयुर्बन्धनिष्टासमयः,(६) -(३) (४) अत्र बन्धकद्वयसद्भावादयमेकः समयो नानावन्धकसम्बन्ध्यायुरनुत्कृष्टस्थितिबन्धकाल
तया प्राप्तः, तस्मात्पूर्वोत्तराः (७-८) सभया एकैकबन्धकसम्बन्धिन एव इति । इत्थमेव मार्गणान्तरेस्वपि ज्ञेयम् । न च युगपद्नानाजीवसम्बन्धिकालविवक्षया मा भवतु जघन्यपदे एकजीवाश्रयजघन्यकालान्नानाजीवाश्रयकालोऽधिकः, स्तोकप्राप्तावपि उत्कुष्टपद इव जवन्यपदेऽप्येकजीवाश्रयकालापेक्षया नानाजीवाश्रयकाले विशेषस्तुलभ्यतेति वाच्यम् । निरयगत्योघादिमार्गणासु 'अगुरूअ मुहुत्तंतो आउस्सेमेव सव्वासु' (गाथा-१४२) इत्यनेन प्रागुक्तैकजीवाश्रयस्याऽऽयुष्काऽनुत्कृष्टस्थितिबन्धस्य जघन्यकालवन्नानाजीवाश्रयस्याऽपि तस्याऽऽयुषोऽनुत्कृष्टस्थितेर्जघन्यकालस्य ‘सेसासु भिन्नमुहुत्तं मुणेयव्यो' (गाथा-३९८) इत्यनेनाऽन्तर्मुहूर्तमात्रस्यैव वक्ष्यमाणतया तादृशविवक्षायाऽनधिकृतत्वात् ।
इत्थश्च नानाजीवाश्रयकालोऽत्र न युगपल्लभ्यमाननानाजीवसम्बन्ध्येव, किन्तु मार्गणागतविवक्षितस्थितिबन्धकसर्वजीवराशिमपेक्ष्य नैरन्तर्येण विवक्षितस्थितिबन्धं कुर्वन्तो जीवा यावन्तो लभ्यन्ते, विवक्षितस्थितिबन्धकतावत्सर्वजीवसम्बन्ध्येव, स्याद्यदि विवक्षितस्थितेः निरन्तरसर्वबन्धकतया एको जीवः, अनेके वा । तत्र विवक्षितस्थितिबन्धस्तु कुत्रचिदेकजीवस्योत्कृष्टतोऽन्तमुहूर्तं यावद्वन्धप्रायोग्योऽप्यसंख्येयलोकाकाशप्रदेशप्रमितजीवानां बन्धप्रायोग्यतयाऽन्यान्यजीवैनैरन्तर्येण प्रवर्तमानः सन्नाकालमवाप्यते । कुत्रचिन्मार्गणादौ पुनरुत्कृष्टतोऽन्तमुहूत यावद्धन्धप्रायोग्योऽप्यसंख्येयलोकाकाशप्रदेशराश्यपेक्षया स्तोकानामसंख्येयानां संख्येयानां वा जीवानां बन्धप्रायोग्यतया नैरन्तर्येण पल्योपमाऽसंख्येयभागादिप्रमाणकालं यावदुत्कृष्टतः प्रवर्तमानो लभ्यते, न तु सर्वदा, अतस्तत्र मार्गणादौ तावानेव कालस्तस्य विवक्षित स्थितिबन्धस्य नानाजीवाश्रयोत्कृष्टकालः । जघन्यतोऽप्योघतो मार्गणास्थानेषु वा तत्र तत्र प्रविष्टसर्वजीवराशी एकादिना जीवेन तस्य विवक्षितस्थिति
Jalg Education International
For Private & Personal Use Only
www.jainelibrary.org