________________
३४० ]
बन्धविहाणे मूलपयडिठिइबंधो [ एकजीव-नानाजीवाश्रयकलयोर्विशेष० सप्तानामुत्कुष्टस्थितेर्बन्धकानां समयमात्रो जघन्यकालस्तु प्रागुक्तैकजीवाश्रयोत्कृष्टस्थितिबन्धकालवदेवावगन्तव्यः । अयम्भावः-ओघत आदेशतो मार्गणास्थानेषु वा यत्र तत्तदुत्कृष्टादिस्थितिबन्धारे जीवा असंख्यलोकप्रदेशराश्यपेक्षया स्तोकाः सन्ति तत्र मार्गणादावुत्कृष्टाया जघन्यायाश्च स्थितेबन्धकानां जघन्यकालः क्रमेणोत्कृष्टजघन्यस्थित्योरेकजीवाश्रयवन्धकालतुल्यः प्राप्यते, न पुनरधिकः । कुतः ? एकजीवाश्रयस्य तत्तत्स्थितिबन्धजघन्यकालस्यपि तत्तदुत्कृष्टाया जघन्याया वा स्थितेबन्धकीभूतनानाजीवाश्रयजघन्यकालतया प्राप्तः सम्भवात् ।
ननु एकजीवाश्रयस्य, अर्थादेकेन जीवेन समयमा निर्वर्तितस्योत्कृष्टादितत्तत्स्थितिबन्धस्य जघन्यकालो यदि नानाजीवाश्रितोत्कृष्टादितत्तत्स्थितिबन्धजधन्यबन्धकालतया प्राप्येत, तदा को नाम विशेषो येन पूर्वोक्त एकजीवाश्रयः कालः, प्रस्तुतस्तु नानाजीवाश्रयकालः ? इति चेद्, अस्ति विशेषः, यतो नानाजीवाश्रयः काल एकजीवाश्रयकालात् स्तोको नैव भवति । न च मा भवतु स्तोकः, तुल्यप्राप्तावपि कथं नामैकजीवाश्रय-नानाजीवाश्रयवन्धकालयोः पार्थक्यमिति वाच्यम् । यतो जघन्यपदे तुल्योऽप्यसौ नानाजीवाश्रयः काल उत्कृष्टपदे एकजीवाश्रयकालापे. क्षया दीघातिदीर्घः प्राप्यते । इत्थं चोत्कृष्टपदे एकजीवमाश्रित्य प्राप्यमाणकालापेक्षया नानाजीवाश्रितकालस्याऽधिकप्रमाणप्राप्तेर्विद्यते एकजीवाश्रय-नानाजीवाश्रयकालयोर्विशेषः ।
न च नानाजीवाश्रयो जघन्यकालो युगपदनेकबन्धकसम्बन्धी गृह्यताम् , न त्वेकजीवसम्बन्धी, तेनोत्कृष्टपदवज्जघन्यपदेऽप्यसावेकजीवाश्रयकालापेक्षयाऽधिकः सम्पयेत, ततश्चोत्कृष्टपद इब जघन्यपदेऽप्यधिककालप्राप्तिरूपो विशेषोऽवाप्येतेति वाच्यम् । जघन्यपदे युगपदनेकबन्धकसम्बन्धिकालग्रहणद्वारेणाधिककालप्राप्तिरूपविशेषाधानप्रयासस्याऽज्ञानमूलकतयाऽऽयासमात्रत्वात् । कथम् ? इति चेत्, युगपद्नानावन्धकसम्बन्धिकालस्यैव नानाबन्धकाश्रयकालतया ग्रहणे प्रत्युतकजीवाश्रयकालापेक्षयाऽपि तस्य युगपद्नानावन्धकसम्बन्धिकालस्य जघन्यपदे स्तोकमात्रस्य प्राप्तेः । तथाहिनिरयगत्योघे आयुर्वन्धकाः कदाचित् प्राप्यन्ते, कदाचित्त न, प्राग भङ्गविचयेऽष्टभङ्गानां कथितत्वादुत्तरत्र नानाजीवाश्रयान्तरस्य वक्ष्यमाणत्वाच्च । अतो यदा नासन के प्यायुर्वन्धकास्तादृशकालावं केनाऽप्येकेन नारकजीवेनानुत्कृष्टस्थितिकायुर्वन्धः प्रारब्धः, न पुनरन्येन, स चानुत्कृष्टस्थितिकायुर्वन्धस्तस्यान्तमुहूर्त यान्नियमतः प्रवर्तते, नवरमसावन्तमुहूर्तकालो भवनिर्दिष्टविवक्षया नानावन्धकाश्रयकालतयाऽङ्गीकर्तुं न युज्यते, तस्य एकवन्धकसम्बन्धित्वात् । यदा चासौ नारकजीवस्तस्या आयुर्वन्धाद्धायाश्चरमे समये वर्तते तदा केनाप्यन्येन नारकजीवेनानुत्कृष्टस्थितिकायुबन्धः प्रारब्धः, अतस्तदानीमनुत्कृष्टस्थिते नावन्धकसद्भावात् स समयमात्रः कालो भवदुक्तविवक्षया नानावन्धकाश्रयकालतयाऽङ्गीकतु युज्यते, न तु तदुत्तरवर्तिसमया अपि, तदानीमुत्तरसमयेषु पूर्वप्रारब्धायुर्वन्धेन . जीवेनायुबन्धस्य निष्ठापितत्वेन, अन्येन केनाऽप्यनुत्कृष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org