________________
[ ३३९
ओघत आयुर्वर्जानामुत्कृष्टेतरस्थिति०] द्वितीयाधिकारे कालद्वारम्
सव्वासु अहस्साए फुसणा होज्ज अगुरुठिइव्व ॥३७८॥ (प्रे०) “सव्वासु"त्ति त्रिषष्टयधिकशतसंख्याकासु सर्वास्वपि मार्गणासु प्रकृतस्याऽऽयुषो "अहस्साए"त्ति अह्रस्वायाः'-अजघन्यायाः स्थितेर्वन्धकस्पर्शना अगुरुठिइव्व"ति तत्तन्मार्गणायामायुषोऽनुत्कृष्टस्थितेर्बन्धकानां तिरिये एगगिदिय-पणकाय-णिगोभेसु सव्वसुहुमेसु। कायु-रलदुग-णपुमचउकसाय-दुअण्णाण-अय तेसु ॥३६३।।'इत्यादिना प्रागभिहिता या स्पर्शना तद्वद् भवेदिति । एषा हि समुद्घातमनपेक्ष्य स्वस्थानक्षेत्र-गमनागमनक्षेत्रमात्रापेक्षया लभ्यमानया तत्तन्मार्गणासत्कोत्कृष्टस्पर्शनया तुल्या भवति,आयुषोऽजघन्यस्थितेर्बन्धस्याप्यनत्कृष्टस्थितिबन्धवत्सर्वजीवानां भावादिति ।३७८।
तदेवं प्ररूपिताऽऽयुषोऽजघन्यस्थितेर्बन्धकानामपि स्पर्शना । तस्यां च प्ररूपितायां गतमेकादशं स्पर्शनाद्वारम् ।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे एकादशं नानाजीवा
ऽऽश्रयस्पर्शनाद्वारं समाप्तम् ।।
॥ अथ द्वादशं कालद्वारम् ॥ साम्प्रतं क्रमप्राप्ते नानाजीवाश्रये कालद्वारे मूलकर्मणामुत्कृष्टादिस्थितेर्बन्धकानां जघन्योकृष्टभेदभिन्न कालं प्रतिपिपादयिषुरादौ तावदष्टानां मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्त्यिोन्धकानां तमोघतः प्रतिपादयति
सत्तण्ह बंधगाणं समयो हस्सो ठिईअ जेट्टाए ।
पल्लाऽसंखियभागो परमो अगुरूअ सव्वद्धा ॥३७९॥ (प्रे०) “सत्तण्ह बंधगाण" मित्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकं बन्धकानां समयो ‘ह्रस्वः'-जघन्यः, काल इति गम्यते । सप्तानां कस्याः स्थितेर्बन्धकानामित्याह-"ठिईअ जेहाए" ति सप्तानां 'ज्येष्ठायाः'-उत्कृष्टायाः स्थितेरित्यर्थः । “पल्लाऽसंखियभागो परमो" ति तस्या एवानन्तरोक्तायाः सप्तानां ज्येष्ठस्थितेर्बन्धकानां 'परमः'-उत्कृष्टः कालः “पल्लाऽसंखिय. भागो" ति पदैकदेशेनापि पदसमुदायस्य गम्यमानत्वात् पल्योपमासंख्येयभाग इत्यर्थः । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org