________________
मार्गणास्वायुषो जघन्यस्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३३३ योगसामान्यौदारिककाययोगौ-दारिकमिश्रकाययोग-कार्मणकाययोग-स्त्रीवेद-पुवेद-नपुसकवेदक्रोधादिचतुःकषाय-मत्यज्ञानादिव्यज्ञाना-ऽसंयम-चक्षुर्दर्शना-ऽचक्षुर्दर्शन-कृष्ण-नील-कापोतलेश्या-भव्याऽभव्य-मिथ्यात्व-संज्य-ऽसंड्या-ऽऽहार्य-ऽनाहारिमार्गणास्वित्येतासु सप्ताभ्यधिकशतमार्गणासु तु सर्वलोकस्पर्शनेति । अत्र प्रत्येक मार्गणासु प्रस्तुतस्पर्शनोपपत्तिरप्यनुत्कृष्टस्थितेर्बन्धकानां स्पर्शनावत् तत्तन्निरयगत्योघादिमार्गणानां नानाजीवाश्रितायाः स्पर्शनायास्तथात्वात्तथा द्रष्टव्या, सप्तानामनुत्कृष्टस्थितिबन्धवत् सप्तानामजघन्यस्थितिबन्धस्यापि प्रायशः सर्वावस्थायां सर्वजीवानां च सम्भवादिति ।
तदेवं मार्गणास्थानेष्वपि दर्शिता सप्तकर्मणां जघन्याजघन्यस्थितिबन्धकानां स्पर्शना; केवलमायुकर्मणः साऽवशिष्टाऽतस्तामेव दिदर्शयिषुरादौ जघन्यस्थितिबन्धकविषयामाह
तिरिये एगिदिय-पणकाय-णिगोएसु सव्वसुहमेसु। कायु-रलदुग-णपुम-चउकसाय-दुअणाण-अयतेसु ॥३७४॥ अणयण-असुहतिलेसा-भवि-यियरा-ऽऽहार-मिच्छ-अमणेसु
आउस्स जहण्णाए ठिईअ छुहिअं जगं सव्वं ॥३७५॥ (प्रे०) “तिरिये एगिदिये" त्यादि, तिर्यग्गत्योपाद्यसंक्षिपर्यन्तासु सार्धगाथया सङ्ग्रहीतासु षट्चत्वारिंशन्मार्गणास्वायुषो जघन्याः स्थितेबन्धकैः सर्व जगत् स्पृष्टमिति गाथाद्वयपिण्डार्थः । अक्षरगमनिकास्तु प्राग्वत्सगमा, केवलं "दुअणाण" ति मत्यज्ञान-श्रताज्ञानमागणयोः “भवियियर" त्ति भव्यमार्गणा तथा भव्येतरा-ऽभव्यमार्गणा तयोरित्यर्थः । सर्वलोकस्पर्शनाया भावना त्वेतासु प्रत्येकं विद्यमानानां सूक्ष्मैकेन्द्रियाणामप्यायुषोः जघन्यस्थितिबन्धसम्भवात् तेषां सूक्ष्मैकेन्द्रियाणां स्वस्थानतः सर्वलोकव्यापित्वाच्चेति ॥३७४-३७५।। अन्यमार्गणासु प्रस्तुतस्पर्शनामाह
छिविआऽट देव-अट्ठमअंतसुर-विउव-तिणाण-ओहीसु।
तेउ-पउम-सम्म-खइअवेअग-सासायणेसु च ॥३७६॥ (प्रे) “छिविआह देवे” त्यादि,देवगत्योघा-ऽष्टमसहस्रारकल्पान्तकादशसुरगतिभेद-वैक्रियकाययोग-मति-श्रुता-ऽवधिज्ञाना-ऽवधिदर्शनमार्गणासु,तेजोलेश्या-पद्मलेश्या-सम्यक्त्वोध-क्षायिक-वेदकसासादनेषु चेत्येतासु द्वात्रिंशन्मार्गणासु “छिविआह" ति बसनाड्यन्तर्गता अष्टौ रज्जवः स्पृष्टा इत्यर्थः । आयुषो जघन्यस्थितेर्बन्धकैरिति प्रक्रमाद्गम्यते । मारणसमुद्घाते आयुषोऽबन्धादेषाऽष्टरज्जुस्पर्शना भवनपत्यादिदेवानां गमनागमनक्षेत्रापेक्षया यथायथं भावनीयेति ॥३७६॥
अन्यमार्गणासु प्रस्तुतस्पर्शनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org