________________
३३२ ]
बन्धविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामजघन्यस्थिति० स्पर्शना स्याद् ? इति चेद्, न, तेजस्कायौघादिषु चतुर्मार्गणासु सप्तकर्मणां जघन्यस्थितेर्बन्धका बादरतेजस्कायिका एव, ते च स्वस्थानक्षेत्रमपेक्ष्य मनुष्यलोके एव वर्तन्ते, ततश्च मनष्यलोकात्तिर्यग्लोक एव पञ्चेन्द्रियतिर्यक्तयोपित्सनां तेषां मारणसमुद्घातापेक्षयाऽपि लोकासंख्येयभागमात्रस्पर्शनैव लभ्यत इति ॥
तदेवमोघतः सप्तकर्मणां जघन्यस्थितिबन्धकविषया स्पर्शनोक्ता । तेषामेवाऽजघन्यस्थितिबन्धस्तु सामान्यतः सर्वेषां जीवानां सर्वावस्थाभावीतिकृत्वा तद्वन्धकानां स्पर्शनाऽपि तत्तन्मार्गणानामुत्कृष्टस्थितिबन्धकस्पर्शनावल्लभ्यते, अतो तथैवानिधित्सुरतिदेशेनैवाह
सव्वासु अहस्साएऽणुकोसठिईव्व णायव्वा ॥३७३॥ (प्रे०) “सव्वासु" इत्यादि, निरगत्योघाद्यनाहारिपर्यन्तासु सोत्तरभेदासु प्रस्तुतग्रन्थेऽधिकृतासु सप्तत्यभ्यधिकशतमार्गणासु प्रत्येकं सप्तानामजवन्यायाः स्थितेर्वन्धकानां स्पर्शना'णुक्कोसठिइव्व णायव्व" ति तासामेव सप्तानां प्राक'सव्वणिरयसुर-विउवा-ऽऽहारदुग-अवेअ-णाणच उगेसुं । जइ-समइअ-छेएसुं परिहारम्मि सुहुमो-हिसु ॥३५७।। सुहलेस-सम्म-वेअग-खइ-उवसम-मीस-सासणेसुं य । सत्तण्ह होज्ज अगुरुठिईए गुरुठिइव्य ॥३५८॥ देसम्मि पंचभागाऽणुककोसाए ठिईअ सत्तण्हं । छिहिओ हवेज्ज सव्वो सेसासु फासिओ लोगो ॥३५९।।' इतिगाथात्रयेणाभिहिताऽनुत्कृष्टस्थितेर्बन्धकानां स्पर्शनावज्ज्ञातव्या ।
तद्यथा-निरयगत्योघे, सप्तमभूमिनिरयभेदे, आनत-प्राणता-ऽऽरणा-ऽच्युतकल्पेषु शुक्ल लेश्यायामित्येतासु सप्तमार्गणासु त्रसनाडिसत्काः षट् चतुर्दशभागाः । प्रथमपृथिवीनिरयभेदे, नवसु
वेयकभेदेषु, पञ्चस्वनुत्तरविमानभेदेषु, वैक्रियमिश्रकाययोगा-ऽऽहारका-ऽऽहारकमिश्रकाययोगेषु .. तथाऽपगतवेद-मनःपर्यवज्ञान-संयमौघ-सामायिक-छेदोपस्थापन-परिहारविशुद्धिक-पूक्ष्मसम्परायसंयममार्गणास चेत्येतास पञ्चविंशतिमार्गणास प्रत्येकं लोकाऽसंख्येयभागमात्रा स्पर्शना । द्वितीयपृथिवीनिरयभेदे तु बसनाड्या एकश्चतुर्दशभागः, तृतीयपृथिवीनिरयभेदे द्वौ चतुर्दशभागौ, चतुर्थपृथिवीनिरयभेदे त्रयश्चतुर्दशभागाः, पञ्चमपृथिवीनिरयभेदे तु श्चत्वारश्चतुर्दशभागाः, षष्ठपृथिवीनरकभेदे पुनः पञ्च चतुदर्शभागा उत्कृष्टा स्पर्शना प्राप्यते । देवगत्योधभेदे,ईशानान्तेषु भवनपत्यादिषु पञ्चभेदेषु, तेजोलेश्यायां च प्रत्येकं तादृशा नव भागाः । सनत्कुमारादिसहस्रारान्तेषु षट्षु देवगतिभेदेषु तथा मति-श्रता-ऽवधिज्ञानाऽवधिदर्शन-पालेश्या-सम्यक्त्वोध-क्षायिक-क्षायोपशमिकसम्यक्त्व-मिश्रदृष्टिरूपेषु दशमार्गणाभेदेषु प्रत्येकं त्रसनाडीसत्का अष्टौ चतुर्दशभागाः स्पर्शना भवति । वैक्रियकाययोगे तु तादृशास्त्रयोदशभागाः स्पर्शना, देशसंयममार्गणायां पञ्च भागाः, सासादनमार्गणायां पुनस्तादृशा द्वादश भागाः । सर्वेषु तिर्यग्गतिभेदेषु, सर्वषु मनुष्यगतिभेदेषु, सर्वष्वेकेन्द्रियभेदेषु, तथैव सर्वेषु विकलेन्द्रियभेदेषु, सर्वषु पञ्चेन्द्रियभेदेषु, तथैव सर्वेषु पृथिव्यप्तेजोवायुवनस्पतिकायसत्केषु भेदेषु, त्रसकायसत्केषु सर्वभेदेषु , एवमेव पञ्चमनोयोग-पञ्चवचोयोग-काय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org