________________
मार्गणास्वायुर्जानां जघन्यस्थिति० ] द्वितीयाधिकारे स्पर्शनाद्वारम्
साधारणवनस्पतिकायौघमार्गणाभेदस्तथा त्रयस्त्रसकायभेदाः, पञ्चमनोयोग-पञ्चवचनयोग-काययोगसामान्यौ-दारिक- वैक्रियमिश्रा ऽऽहारका ऽऽहारकमिश्रकाययोगाः, त्रयो वेदाः, अपगतवेदः, क्रोधादिचतुः कषायाः, मति श्रुताऽवधिज्ञानानि विभङ्गज्ञानम्, संयमौघ- सामायिक च्छेदोपस्थापन- परिहारविशुद्धिक-सूक्ष्मसम्पराय देशसंयमरूपाः षट् संयममार्गणभेदाः, चक्षु-रचक्षु-रवधिदर्शनानि, शुभलेश्यात्रयम्, भव्य-सम्यक्त्वौघ-क्षायिक क्षायोपशमिकौ पशमिकसम्यक्त्व-संज्ञयाऽऽहारिमार्गणाभेदाश्चेति ।
तत्र प्रथमभूमि नरकभेदे सप्तानां जघन्यस्थितिबन्धस्वामिनोऽसंज्ञिपञ्चेन्द्रियेभ्यश्च्युत्वा नारकतयोत्पद्यमाना अन्तरालगतिस्थाः भवप्रथमद्वितीयसमये वर्तमाना जीवा एव, तैश्व तिर्यग्लोकादष्ट मरज्जुप्रारम्भभागात् सप्तमरज्जुप्रान्तभागेऽऽगच्छद्भिर्लोकासं ख्यभाग एव स्पृश्यते । एवमेव नरकौघमार्गणाभेदेऽपि द्रष्टव्यम्, देवौघ- भवनपति - व्यन्तरदेवभेदेष्वपर्याप्तमनुष्यभेदे चैवमेव, नवरं तत्तन्मार्गणाग तदेवादि - जीवापेक्षया । शेषद्वितीय पृथिव्यादिनरकभेदेषु तु मरणसमुद्घातकाले सप्तानां जघन्यस्थितिबन्धस्य सम्भवेऽपि लोकासंख्येयभागमात्रैव स्पर्शना लभ्यते । कुतः ? मनुष्यतयोत्पित्सूनामेव जघन्यस्थितिबन्धसम्भवात् । कस्मादेवम् ? उच्यते, यथा मुमूषु जीवेषु स्वप्रायोग्य सर्वनिकृष्ट पारभविकोत्पत्तिस्थानांभिमुखानामेवोत्कृष्ट स्थितिबन्धः सम्भवति, तथा जघन्यस्थितिबन्धोऽपि स्वप्रायोग्य सर्वोत्कृष्टपार भविकोत्पत्तिस्थानाभिमुखानामेव भवति । नारकाणां तु स्वप्रायोग्य सर्वोत्कृष्टं पारभविकमुत्पत्तिस्थानं मनुष्यगतिरेव, अतो मारणसमुद्घातेऽपि तदभिमुखानामेव जघन्यस्थितिबन्धसम्भव इति ।
[ ३३१
न च सप्तमभूमिनारकाणां स्वप्रायोग्यं सर्वोत्कृष्टमपि पारभविकोत्पत्तिस्थानं पञ्चेन्द्रियतिर्यक्त्वम्, पञ्चेन्द्रिय तिर्यक्तया तु स्वयम्भूरमणसमुद्रं यावदुत्पत्तिः सम्भवति, तथा च तदभिमुखानां जघन्यस्थितिबन्धसम्भवात्तेषां प्रकृतस्पर्शना षड्ज्जवोऽवाप्येतेति वाच्यम् । यतस्तदानीं तिर्यक्त्वाभिमुखानां तेषां सम्यक्त्वाभावात् न जघन्यस्थितिबन्धः किन्तु स्वस्थानगतानां सम्यग्दृष्टिनैरयिकाणामेव, अतः स्पर्शनाऽपि स्वस्थानक्षेत्रापेक्षया लोकसंख्येयभागमात्राऽवाप्यत इति । अपर्याप्तभेदवर्जेषु पञ्चेन्द्रियतिर्यक्सत्केषु त्रिषु भेदेषु स्वस्थानस्थितानां भवनपतितया व्यन्तरतया वोत्पित्सुना मारणसमुद्घात गतानामसंज्ञिपञ्चेन्द्रियाणामेव जघन्यस्थितिबन्धभावाल्लोकासंख्यभागमात्रोक्तैति ।
/
शेषमार्गणाभेदेषु कासुचित्पर्याप्तमनुष्यादि मार्गणासु स्वस्थानस्थितानामेव कासुचित्पुनरपर्याप्ततिर्यक्पञ्चेन्द्रियादिषु लोकासंख्येयभागमात्रे स्वस्थानक्षेत्रे स्थितानां मारणसमुद्घाते मनुष्यगत्यभिमुखानामेव वा सप्तकर्मसत्कजघन्यस्थितिबन्धस्य सम्भवात् स्पर्शनापि तदनुसारेण लोकाऽसंख्येयभागमात्रोक्ता ।
ननु 'सत्तमिमहिनेरइए तेऊ बाऊ असंखनरतिरिए । मुत्तूण सेसजीवा उष्पज्जेति नरभवम्मि ।' इत्यादिवचनात् तेजस्कायिकानां मनुष्यतयोत्पादाभावेन् मनुष्यत्वाभिमुखताऽपि न सम्भवति, न च तावन्मात्रम्, किन्तु तथा सति तेषां स्वप्रायोग्यसर्वोत्कृष्ट मुत्पत्तिस्थानं पञ्चेन्द्रिय तिर्यक्त्वम्, अतस्तदभिमुखानां मारणसमुद्घातकाले जघन्यस्थितिबन्धसम्भवे तेजस्कायौघमार्गणादावधिकाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org