________________
३३० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां जघन्यस्थिति० पञ्चेन्द्रियतयोपित्सूनां मारणान्तिकसमुद्घातेन तिर्यग्लोकं यावन्निक्षिप्तस्वात्मप्रदेशदण्डानां स्वस्थानस्थितानां वा पर्याप्तवादरवायुकायानामु-कृष्टस्पर्शनापेक्षया भावनीया । अपर्याप्तबादरैकेन्द्रियाऽपर्याप्तबादरवायुकायमार्गणाद्वयेऽपि तथैव, नवरं तथाविधानामेवापर्याप्तवादरवायुकायिकानामुत्कृष्टस्पर्शनापेक्षयेति विशेष इति ॥३६९-३७०॥ यत्र प्रस्तुतस्पर्शनाऽटौ रज्जवस्तत्र तथैवाह
अट्ट परिसिआ भागा जोइसपहुडीसु अट्ठमंतेसु।
देवेसु विउव-सासण-मीसेसु हुन्ति णायव्वं ॥३७१॥ (प्रे०) “अट्ठ परिसिआ” इत्यादि, ज्योतिष्कप्रभृतिष्वष्टमसहस्रारकल्पान्तेषु "देवेसु" देवगतिमार्गणाभेदेषु, वैक्रियकाययोग-सासाइन-मिश्रदृष्टिमार्गणाभेदेषु चाप्टौ भागाः स्पृष्टा भवन्तीति ज्ञातव्यम् । सप्तकर्मणां जघन्यस्थिनेन्धकैरिति त्वनुवृत्या द्रष्टव्यम् । भावना तु प्राग्वत् सहस्रारकल्पान्तानां देवानां गमनागमनप्राप्त पर्शनापेक्षयैव कर्तव्या, न त्वीपत्प्राग्भारापृथिव्यामेकेन्द्रियतयोपित्मनां समुद्घातकृतस्पर्शनापेक्षया, तदानीं स्वप्रायोग्यसर्वनिकृष्ट स्थानाभिमुखतया तेपामीशानान्तदेवानां जघन्यस्थितिबन्धाभावादिति ।।३७१॥ अन्यत्राधिकृतस्पर्शनामाह
छ फरिसिआ खलु भागा चउसु देवेसु आणताई।
सब्बेसुसुहमेमु सव्वो होज्ज फुसिओ लोगो ॥३७२॥ (प्रे०) "छफरिसिआ” इत्यादि, “सव्वेसु सुहमेसु” इत्यादि, च सुगमम् । केवलं षडभागास्तिर्यग्लोकादारभ्याच्युतकल्पपर्यन्ता ऊलोकसम्बन्धिन इति ॥३७२॥ उक्तशेपमार्गणास्वार्याधैनाह
सेसासु जहण्णाए असंखभागो जगस्स उ फरिसिओ। (प्रे०) “सेसासु जहण्णाए” इत्यादि, अनन्तरमेव “एगिदियवाउसु" मित्यादिगाथाचतुष्कोक्तग्रस्तुतस्पर्शनाः पञ्चपञ्चाशन्मार्गणा विवर्य शेषासु नरकगत्योघादिषु पञ्चदशोत्तरशतमार्गणासु "जहण्णाए" ति सप्तप्रकृतीनांजघन्याः स्थितेः, बन्धकैरिति गम्यते। तैः किमित्याह-"असंखभागो” इत्यादि, सुगमम् । नामतस्तु शेषमार्गणा अमू:--अष्टौ नरकगतिभेदाः, चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, चत्वारोपि मनुष्यगतिभेदाः, देवगत्योघ-भवनपति-व्यन्तर-नवग्र वेयक-पश्चाऽनुत्तररूपाः सप्तदश देवगतिमार्गणाभेदाः, विकलेन्द्रियसत्का नव भेदाः, पञ्चेन्द्रियसत्कास्त्रयः, पृथिवीकाया-ऽकाय-तेजस्काय-वनस्पतिकायरूपाचत्वार औघमार्गणाभेदाः, तथा बादरपृथिव्यप्तेजःप्रत्येकवनस्पति-बादरसाधारणवनस्पतिसत्का ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नाः प्रत्येकं त्रयस्त्रयो भेदाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org