________________
मार्गणास्वायुर्वर्जानां जघन्यस्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[३२९ तदेवमुक्ताऽष्टानामपि मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्थित्योर्बन्धकानां स्पर्शनौधत आदेशतश्च । साम्प्रतं जघन्याजघन्यस्थित्योर्वन्धकस्पर्शनाप्रदर्शनावसरः, तत्रादौ तावदोघतो व्याजिहीर्ष राह
सत्तण्ह असंखंसो जगस्स हस्साअ फोसिओ सम्बो।
लोगो अजहण्णाए आउस्स ठिईण दोण्हमवि ॥३६८॥ (प्रे०) “सत्तण्हे" त्यादि, पदानां यथायथं योजनात् सप्तानामायुर्वानां ज्ञानावरणादिप्रकृतीनां ‘ह्रस्वायाः' -जघन्यायाः स्थितेर्बन्धकै जगतः' - लोकस्य 'असंख्याशः'-असंख्यतमैकभागः स्पष्ट इत्यर्थः । कथम् ? क्षपकश्रेणिगतैर्महर्षिभिरेव ज्ञानावरणादिसत्कौधिकजघन्यस्थिकिवन्धस्य निर्वर्तनात् तेषां मारणसमुद्घातादेरसम्भवाच्चेति । “सव्वो लोगो” इत्यादि, सप्तप्रकृतीनामजघन्यायाः स्थितेरायुषो “दोण्हमवि" ति जघन्याऽजघन्यो योरपि स्थित्योर्बन्धकैः प्रत्येक सर्वो लोकः स्पष्ट इत्यर्थः । तत्र सप्तकर्मणामजघन्यस्थितेर्बन्धकानां सर्वलोकस्पर्शना सुगमा । आयुषो जघन्याजघन्यन्यस्थित्योर्वन्धकाः सूक्ष्मैकेन्द्रिया अपि भवन्तीति तत्रापि सर्वलोकस्पर्शनैव लभ्यते, सूक्ष्मैकेन्द्रियाणां स्वस्थानक्षेत्रतोऽपि सर्वलोकव्यापित्वादिति ॥३६८॥ अथादेशतो विभणिपुरादावायुर्वर्जसप्तकर्मणां जघन्यस्थितेर्बन्धकानां स्पर्शनामाह
एगिदिय-वाऊसुतेसिं सव्वेसु बायरेसु च । तिरि-युरलमीस-कम्मण-दुअणाण-ऽयत-कुलेसासु॥३६९॥ अभविय-अमणेसुतहा मिच्छा-ऽणाहारगेसुदेसूणो।
लोगो जहण्णगाए ठिईअ सत्तण्ह छिप्पीअ ॥३७०॥ (प्रे०) “एगिदिये"त्यादि, एकेन्द्रियौघ-वायुकायौघभेदो तयोस्तथा "तेसिं सव्वेसु बायरेसु” ति तयोरेकेन्द्रियवायुकाययोर्ये बादरौघ-तत्पर्याप्ताऽपर्याप्तभेदभिन्नाः सर्वे बादरभेदास्तेषु, बादरैकेन्द्रियौघ-तत्पर्याप्ता-ऽपर्याप्तभेदेषु बादरवायुकायौघ-तत्पर्याप्ताऽपर्याप्तभेदेषु चेत्यर्थः । चकार उक्तानुक्तमार्गणाभेदानां समुच्चये । तत्रानुक्तमार्गणाभेदानाह-"तिरियुरले 'त्यादिना, तिर्यग्गत्योघौ-दारिकमिश्रकाययोग-कार्मणकाययोग-मत्यज्ञान-श्रुताज्ञाना-ऽसंयममार्गणाभेदेषु "कुलेसासु" ति दुर्गतिनिवन्धनत्वात् कुत्सितासु-अप्रशस्तासु कृष्ण-नील-कापोताख्यासु तिसृषु कुलेश्यामागंणास तथा "अभविये" त्यादि, अभव्यमार्गणायामसंज्ञिमागेणायां मिथ्यात्वमार्गणायामनाहारिमार्गणायां चेत्यर्थः । एतेष्वेकविंशतिमार्गणाभेदेषु किमित्याह-"देसूणो लोगो" इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां जघन्यायाः स्थितेर्देशोनो लोकोऽस्पृश्यत, बन्धकै- . रिति शेषः । एषा हि देशोनलोकस्पर्शना येषु मार्गणास्थानेषु पर्याप्तवादरवायुकायजीवाः प्रविष्टास्तेष्वपर्यातबादरैकेन्द्रियाऽपर्याप्तवादरवायुकायमार्गणाभेदवर्जेष्वेकानविंशतिमार्गणास्थानेषु पर्याप्तसंज्ञि
Jaire Education International
For Private & Personal Use Only
www.jainelibrary.org