________________
३२८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽनुःकृष्टस्थिति चाभाणि कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिङ्गवैयेंगशास्त्रस्वोपज्ञवृत्तौ
'उत्पत्तिर्देवीनामा ईशानात्, गमनं च आ अच्चुतात् ।" __एवं त्रिषष्टिशलाकापुरुषचरित्रेऽपि कथितम् , यत्
"भा ऐशानात् समुत्पत्तिर्देवीनां गतिराच्युतात्” इति । इत्थं स्त्रीवेदमार्गणायामुक्ताष्टरज्जुस्पर्शना ना सङ्गतेति ॥३६५॥ अथान्यत्र प्रस्तुतस्पर्शनामाह
परिफोसिआ छ भागा चउआणतआइसुइलासु॥३६६।। (प्रे०) “परिफ सिया" इत्यादि, परिस्पृष्टाः पड भागाः'-रज्जवः । केषु मार्गणाभेदेष्वित्याह-“वउआण." त्यादि, चतुर्बानतकल्पादिदेवगतिभेदेषु शुक्कलेश्यामार्गणायां चेत्यर्थः । सुगमं चैतत् , आनतादिदेवानां तिर्यग्लोकादधो नारकनिवासेष्वगमनात् , शुक्कलेश्यायामप्यानतादिदेवापेक्षयवोत्कृष्टस्पर्शनाया लाभाच्चेति ॥ शेषमार्गणास्वेकयाऽऽर्ययाऽऽयुषोऽनुत्कृष्टस्थितेबन्धकस्पर्शनामाह
देसूणजगं वायरएगिदियवाउसव्वभेएस्।
सेसासु असंखयमो भागो लोगस्स छुहिओऽथि ॥३६७॥ (प्रे०) “देसूणजगं" इत्यादि, ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु सर्वेषु बादरैकेन्द्रियभेदेषु, सर्वेषु बादरवायुकायभेदेषु च प्रत्येकं बादरपर्याप्त-वादरापर्याप्तान्यतरवायुकायजीवानां समावेशात् तेषां स्वस्थानतोऽपि देशोनलोकव्यापित्वाच्च प्रस्तुतस्पर्शनाऽपि "देसूणजगं" ति देशोनं जगल्लभ्यत इति । “सेसासु" त्ति तिर्यग्गत्योघाद्या अनन्तरोक्ता नवनवतिमार्गणा विहाय शेषासु चतुःषष्टिमार्गणासु प्रत्येकम् "असंखयमो” त्ति लोकस्याऽसंख्यतमो भागः स्पृष्टोऽस्ति, आयुषोऽनुत्कृष्टस्थितेवन्धकैरिति गम्यते । चतुःषष्टिशेषमार्गणास्तु नामत इमाः-नरकौघ-सप्तनरकपृथिवीभेदाः, चत्वारस्तिर्यक्पञ्चेन्द्रियभेदाः, चत्वारो मनुष्यगतिभेदाः, नव ग्रेवयकभेदाः, पञ्चानुत्तरभेदाः, नव विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियमार्गणाभेदः, ओघपर्याप्ता-ऽपर्याप्तभेदभिन्नास्त्रयो बादरपथिवीकायभेदास्तथैव त्रयो बादराप्कायभेदास्त्रयो बादरतेजस्कायभेदास्त्रयः प्रत्येकवनस्पतिकायभेदास्त्रयो बादरसाधारणवनस्पतिकायभेदास्तथाऽपर्याप्तत्रसकायमार्गणाभेदः, आहारककाययोगा-ऽऽहारकमिश्रकाययोग--मनःपर्यवज्ञान-संयमौघ-सामायिकछेदोपस्थापन-परिहारविशुद्धिक-देशसंयममार्गणाभेदा श्चेति । एतेषु चतुःषष्टिमार्गणाभेदेष्वन्यतममार्गणाभेदेऽपि स्वस्थानक्षेत्रापेक्षया गमनागमनक्षेत्रापेक्षया वा लोकासंख्येयभागादधिकस्पर्शनाऽऽक्षेपकानां सूक्ष्मैकेन्द्रियाणां पर्याप्तापर्याप्तवादरवायुकायिकानामच्युतकल्पान्तानां देवानां वा प्रवेशाभावात् स्पर्शनाऽपि लोकासंख्येयाभागादधिका नैव सम्पद्यते, अतोऽन्यविकल्पानुपेक्ष्य मार्गणाप्रविष्टजीवानां स्वस्थानक्षेत्रापेक्षया लोकासंख्येयभागमात्रा स्पर्शना दर्शितेति ।।३६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org