________________
द्वितीयाधिकारे स्पर्शनाद्वारम्
साम्प्रतं यासु मार्गणास्वायुषोऽनुत्कृष्टस्थितेर्यन्धकैरष्टौ रज्जवः स्पृष्टास्ताः सङ्गृह्याहदेव-मंतर दुपणिंदितस-पणमणवयण- विउवेसु ं । थीम - तिणाण विभंगो-हि- यण- तेउ-पम्हासु ॥ ३६५॥ सम्मत्त-खइअ-वेअग-सासण-सणीसु अट्ट हिप्पीअ ।
मार्गणास्वायुषो ऽनुत्कृष्ट स्थिति० ]
(प्रे०) "देवट्टमंते" त्यादि, देवगत्योघः, सहस्रारकल्पान्ता अन्ये एकादश सुरगतिभेदाः, ओघ-पर्याप्तनेदभिन्नौ द्वौ पञ्चेन्द्रियमार्गणाभेदौ द्वौ सकायमार्गणाभेदौ च पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, वैक्रियकाययोग भेदश्चेत्येतेषु तथा “थोपुमे "त्यादि, स्त्रीवेदपुरुषवेद- मतिज्ञान - श्रुतज्ञाना ऽवधिज्ञान- विभङ्गज्ञानाऽवधिदर्शन--चक्षुर्दर्शन- तेजोलेश्या-पद्मलेश्यामार्गणासु, तथा“सम्मत्ते”त्यादि, सम्यक्त्वौघ - क्षायिक- क्षायोपशमिक-सासादन-संज्ञिमार्गणासु चेत्येतासु द्विचत्वारिंशन्मार्गणासु प्रत्येकम्, “अड छिप्पीअ" त्ति अष्टौ रजवोऽस्पृश्यन्त, आयुषो - ऽनुत्कृष्टस्थितेर्यन्धकैरिति प्रकरणागम्यते । अत्र हि भवनपत्यादिदेवानामच्युतकल्पादारभ्याधस्तुतीयभूमिं यावद् यद् गमनागमनक्षेत्रं तदपेक्षयाऽष्टौ रज्जव: स्पर्शना प्राग्वदवसातव्या ।
[ ३२७
न च पञ्चेन्द्रियत्वादिभावानां तृतीयभूमेः परतोऽधस्तननारकेष्वपि सत्त्वादधिकस्पर्शनाऽपि लभ्येतेति वाच्यम् । आयुर्वन्धकानां स्पर्शनायाः स्वस्थानक्षेत्रापेक्षया गमनागमनक्षेत्रापेक्षया वा लाभात् नारकाणां स्वस्थानक्षेत्र गमनागमन क्षेत्रयोर्लोकासंख्येयभागमात्रत्वाच्च साऽष्टौ रज्जयः स्पर्शना न कयाचिदेकादिरज्ज्वाऽधिका लभ्यते, लोकासंख्येयभागस्पर्शना तु यत्र केवलं तावन्मात्रा तत्र प्रदश्यते, नान्यत्र, अन्यथा एषा देवानामष्टरज्जुस्पर्शनाऽपि देशेनोनैव वक्तव्या भवेत् । कुतः ? तिर्यक् स्वयम्भूरमणसमुद्रवेदिकायाः परभागेषु भवनपत्यादिदेवानामनुत्पादात् । उक्तं च लोकप्रकाशतृतोयसर्गे भवनपत्यादीनां तैजस शरीरस्योत्कृष्टावगाहनां भावयद्भिः श्रीमद्विनयविजयविवुधवरैः
I
'तिर्यक् स्वयम्भूरमणापरान्तवेदिकावधि । ऊर्ध्वं तथेषत्प्राग्भारापृथिव्यूर्ध्वतलावधि ||५८|| एतावदन्तं पृथिवीकायत्वेन समुद्भवात् । ततः परं च पृथिवीकायादीनामसम्भवात् ||५९||' इति । इत्थं हि लोकासंख्येयभागरूपेणैकदेशेन न्यूनताऽधिकता वाsत्र ग्रन्थे विस्तरभयात्स्फुटं नोक्ता, सा स्तननरकाद्यपेक्षया लभ्यमानाऽलभ्यमाना वा यथासम्भवं स्वयमेव योज्या ।
भवतु स्त्रीवेदवर्जा देवगत्योघाद्येकचत्वारिंशन्मार्गणासु प्रस्तुतस्पर्शनाऽष्टौ रज्जवः, न पुनः स्त्रीवेदमार्गणायां सा सङ्गतिमङ्गति, 'उबवाओ देवीणं कप्पदुगं जा परओ सहस्सारा । गमणागमणं नत्थी अच्चुअपरओ सुराणं पि' इति वचनेन भवनपत्यादिदेवानामूर्ध्वमच्युतकल्पं यावद् गमना - ssगमनस्य विहितत्वेऽपि देवीनां तस्य सहस्रारकल्पात् परतः प्रतिषिद्धत्वाद् ? इति चेत्, सत्यम्, किन्तु न एवमेव, यतोऽन्यत्र देवीनां गमनमूर्ध्वमच्युतकल्पं यावदभिमतम्, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org