________________
३२६ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुषोऽनुत्कृष्टस्थिति० उत्कृष्टभवस्थितिसव्यपेक्षत्वात् । एकेन्द्रियादिमार्गणासूत्कृष्टायुष्कजीवा न सूक्ष्मा अपर्याप्ता वा, किन्तु खरवादरपृथिवीकायादिरूपाः; तेषां चोत्कृष्टमपि स्वस्थानक्षेत्रं लोकासंख्येयभागमात्रमतः स्पर्शनाऽपि तावन्मात्रेतिकृत्वा तथैवोच्यते ।
अत्र हि वादरापर्याप्तैकेन्द्रियमार्गणायामौदारिकमिश्रकाययोगमार्गणायां च प्रत्येकमायुष उत्कृष्टस्थितिबन्धकानां देशोनलोकव्यापिनामपर्याप्तवादरवायुकायजीवानां समावेशादुत्कृष्टस्पर्शना स्वस्थानक्षेत्रापेक्षयाऽपि देशोनलोकप्रमाणा सम्भवति । अन्यच्च पर्याप्तवादरवायुकायमार्गणायामप्यनया युक्त्या देशोनलोकमिता स्पर्शना वक्तव्या भवति । यद्यप्येवं तथापि उक्ता तु लोकाऽसंख्यभागमात्रा, सा तु पर्याप्तबादरपथिवीकायमार्गणायां यथोत्कृष्टायुष्कजीवाः खरबादरपृथिवीकायिका एव सन्ति, नान्ये, तथैव पर्याप्तवादरवायुकायमार्गणायामप्युत्कृष्टायुष्कजीवाः केचन् धनवातवलयादिगता एव स्युरिति सम्भावनया बोद्धव्या; अन्यथा सर्वत्रगतानां तेषां पर्याप्तबादरवायुकायिकजीवानामप्युत्कृष्टायुष्मत्त्वे तेवामप्युत्कृष्टायाधया लाभाद् उत्कृष्टस्थितिकायुर्वन्धस्य विहितत्वाच्च बादरवायुकायानामुत्कृष्टस्वस्थानप्रमाणोत्कृष्टस्पर्शनाऽपि देशोनलोकः सम्पयेत । तदत्र तन्त्रज्ञैरागमेक्षिकयाऽवलोक्याऽवधारणीयेयमिति ॥३६२।। ___अथाऽऽयुपोऽनुत्कृष्टस्थितेवन्धकानां स्पर्शनां मार्गणास्थानेषु दिदर्शयिपुरादौ तावद्यासु मार्गणासु सा स्पर्शना सर्वलोकप्रमाणा ता मार्गणाः सङ्ग्रह्याह
तिरिये एगिदिय-पणकाय-णिगोएसु सव्वसुहुमेसु। कायु-रलदुग-णपुम-चउकसाय-दुअण्णाण-अयतेसु॥३६३॥ अणयण-असुहतिलेसा-भवि-यियर-ऽऽहार-मिच्छ-अमणेसु ।
सब्बो लोगो छुविओ आउस्स ठिईअ अगुरूए ॥३६४॥ (प्रे०) “तिरिये एगिदिये"त्यादि,तिर्यग्गत्योघभेदे, पृथिवीकायादिवनस्पतिकायान्तेषु पञ्चकायसत्केष्वोषभेदेषु, “निगोएसु” त्ति साधारणवनस्पतिकायोधभेदे, सर्वेष्वष्टादशस्वपि सूक्ष्मैकेन्द्रियादिषु सूक्ष्मभेदेपु तथा "काये” त्यादि, काययोगसामान्यो-दारिको-दारिकमिश्रकाययोगनपुंसकवेद-चतुःकषाय--मत्यज्ञान--श्रुताज्ञाना-ऽसंयममार्गणाभेदेषु, तथा "अणयणे” त्यादि, अचक्षुदर्शना--ऽशुभकृष्णादिलेश्यात्रय--भव्य-तदितराभव्या-ऽऽहारि--मिथ्यात्वा-ऽसंज्ञिमार्गणाभेदेषु चेत्येतेषु पटचत्वारिंशन्मार्गणाभेदेष्वित्यर्थः । एतेषु किमित्याह-"सव्वो"इत्यादि, एतेषु प्रत्येकमायुषोऽनुत्कृष्टस्थितिबन्धकानां सूक्ष्मपथिवीकायायन्यतमानां सूक्ष्मजीवानां समावेशात् तेषां स्वस्थानक्षेत्रापेक्षयाऽपि सर्वलोकव्यापित्वाच्चाऽऽयुषोऽनुत्कृष्टायाः स्थितेन्धकैः सर्वो लोकः "छुप्त"स्पृष्ट इत्युक्तमिति गाथाद्वयार्थः ।।३६३--३६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org