________________
मार्गणास्वायुष उत्कृष्टस्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३२५ बादरवायुकायमार्गणायामित्यर्थः । कुतः ? स्वस्थानमपेक्ष्योत्कृष्टस्पर्शनायास्तावन्मात्रत्वादिति ॥३६१॥ शेपमार्गणास्वेकया गाथयाऽधिकृतस्पर्शनामाह
सब्वेसु सुहुमेसु लोगो सब्बो वि फासिओ होज्जा।
सेसास होइ छिविओ असंखभागो उ लोगस्स ॥३६२॥ (प्रे०) “सव्वेसु” इत्यादि, औध-पर्याप्ता-ऽपर्याप्तभेदभिन्नेष्वेकेन्द्रियपृथिव्यादिसम्बन्धिघष्टादशसंख्याकेषु सर्वेष्वपि सूक्ष्मजीवभेदेषु, प्रकृतत्वादायुष उत्कृष्टस्थितेर्वन्धकैलोकः सर्वोऽपि स्पष्टः, न पुनरपर्याप्तबादरवायुकायवदेकदेशेनोन इत्यपिशब्दार्थः । कुतः ? सूक्ष्मजीव दानां प्रत्येकं स्वस्थानापेक्षयाऽपि सर्वलोकव्यापित्वादिति । ___ "सेसासु" ति अनन्तरोक्तदेवगत्योधमार्गणाया आरभ्य सर्वसूक्ष्मपर्यन्ताः षट्त्रिंशन्मार्गणास्त्यक्त्वा शेषासु यास्वायुर्वन्धो भवति तासु सप्तविंशत्यभ्यधिकशतमार्गणासु प्रत्येकमित्यर्थः । शेषमार्गणा नामत इमाः-अष्टावपि नरकगतिभेदाः, पश्चापि तिर्यग्गतिभेदाः, चत्वारोऽपि मनुष्यगतिभेदाः, नव ग्रैवयकविमानभेदाः, पञ्चानुत्तरविमानभेदाः, इत्येवमेकत्रिंशद्गतिमार्गणासत्कभेदाः। एकेन्द्रियोघ-बादरैकेन्द्रियोघ-तत्पर्याप्ता-ऽपर्याप्तभेदाः, विकलेन्द्रियसत्का नव भेदाः, पञ्चेन्द्रियसत्कास्त्रयो भेदाः, इत्येवमिन्द्रियमार्गणासत्काः षोडश भेदाः । पृथिवीकायसत्का ओघ-बादरौघ-तत्पर्याप्ताऽपर्याप्ता इत्येवं चत्वारोभेदाः, एवमेवाप्कायसत्कचतुर्भेदाः, तेजस्कायसत्कचतुर्भेदाः, वायुकायसत्कास्तु बादरापर्याप्तवर्जास्त्रयो भेदाः,साधारणवनस्पतिकायसत्कास्तु चत्वारोऽपि,वनस्पतिकायौघमागंणाभेदः, प्रत्येकवनस्पतिकायसत्कास्त्वोव-पर्याप्ता-ऽपर्याप्तभेदभिन्नास्त्रयः, एवं त्रसकायसत्का अपि त्रयो भेदा इत्येवं षडविंशतिः कायमार्गणासत्कभेदाः । पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काययोगसामान्यो-दारिकौ-दारिकमिश्रा-ऽऽहारका-ऽऽहारकमिश्रकाययोगा इत्येवं पञ्चदशयोगमार्गणासत्कभेदाः, तथा त्रिवेद-चतुःकषाय--चतुज्ञान-व्यज्ञान--सूक्ष्मसम्परायवर्जपटसंयमभेद-त्रिदर्शन--पल्लेश्या-भव्याऽभव्य-सम्यक्त्वोध-क्षायिक-क्षायोपशमिक-सासादन-मिथ्यात्व-संध्य-ऽसंड्या-ऽऽहारिमार्गणाश्चेति ।
एतासु सप्तविंशत्युत्तरशतशेषमार्गणासु किमित्याह-"होइ छिविओ" इत्यादि, एतासु प्रत्येकमायुष उत्कृष्टस्थितेर्बन्धकानां तत्प्रायोग्योत्कृष्टसंक्लिष्टानां जीवानां स्वस्थानक्षेत्र लोकाऽसंख्येयभागमात्रमत उक्तनीत्या स्पर्शनापि तावन्मात्रा लोकासंख्येयभागमानवेत्यर्थः । न चैकेन्द्रियादिकतिपयमार्गणासु आयुष उत्कृष्ट स्थितिवन्धः पूर्वकोटिवर्षप्रमाणः, स च तत्तन्मार्गणागतैः सूक्ष्मैकेन्द्रियैरपि निर्वतयितुं शक्यते, ते च सूक्ष्मैकेन्द्रियाः स्वस्थानक्षेत्रमपेक्ष्यापि सर्वलोकव्यापिनस्तत्कथं तास्वेकेन्द्रियादिमार्गणास्वपि प्रकृतस्पर्शना लोकासंख्येयभागमात्रोच्यत इत्याशङ्कयम् । यतोत्र कर्मरूपतावस्थानलक्षणः स्थितिवन्धोऽधिकृतः, स चोत्कृष्टाऽवाधासमेतोत्कृष्टनिषेककालप्रमाणः सन्नुस्कृष्टस्थितिकैरेकेन्द्रियादिजीवैरेव निवर्तयितुं शक्यते, देव-निरयभेदवर्जासु मार्गणामत्कृष्टाबाधाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org