________________
बंधविहाणे मूलप डिठिइबंधो [ मार्गणास्वायुष उत्कृष्टस्थिति०
शेषमार्गणास्त्विमाः– पञ्चापि तिर्यग्गतिभेदाः, तथैव चत्वारोऽपि मनुष्यगतिमार्गेणाभेदाः, एकोनविंशतिरपीन्द्रियमार्गणाभेदाः, द्विचत्वारिंशदपि कायमार्गणासत्कभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काययोग सामान्यौ-दारिककाययोगौ-दारिकमिश्रकाययोग-कार्मणकाययोग - स्त्रीवेद-वेद-नपुंसकवेद-क्रोधादिचतुः कषाय--मत्यज्ञानादित्र्यज्ञाना-- ऽसंयम-चक्षु-रचक्षुर्दर्शनकृष्ण-नील- कापोतलेश्या-भव्याऽभव्य मिध्यात्व-संज्ञेय - ऽसंज्ञयाऽऽहार्य ऽनाहारिमार्गणाश्चेति । ३५९ | तदेवमुक्ता सप्तकर्मणामनुत्कृष्टस्थितेर्बन्धकस्पर्शनाऽप्यादेशतो मार्गणास्थानेषु । साम्प्रतं प्रागोघत उक्तेतिकृत्वाऽऽयुर्विषयामपि तामादेशतो चिकथयिपुरादावुत्कृष्ट स्थितेर्बन्धकानामाहआस्स बंगेहिं देव सहस्सारअंत-विवेसु । उक्कोसाअ टिईए भागा आलु खिआ अड्ड || ३६०॥
३२४ ]
(प्रे० ) " आउस बंधगेहिं" इत्यादि, देवगत्योघ - भवनपत्यादिषु सहस्रारकल्पान्तेषु द्वादशदेवगतिभेदेषु वैक्रियकाययोगे च प्रत्येकमायुष उत्कृष्टायाः स्थितेर्यन्धकैरष्टौ चतुर्दशभागाः "आलु खिआ" ति 'स्पृशः फास- फंव-फरिस - छिव- छिहा- ऽऽलुङ्खाऽऽलिहाः' ( सिद्धम० ८ | ४ | १८२ ) इत्यनेन सूत्रेण स्पृशः 'आउङ्ख' इत्यादेशः, ततः स्पृष्टा इत्यर्थः । इयमत्रोपपत्तिःक्षेत्रप्ररूपणावत् स्पर्शनाप्ररूपणायामध्यायुषः स्थितिबन्धकानां मारणसमुद्घातप्राप्ता स्पर्शना नैव युज्यत इति प्रागेवभिहितम्, तथा सति मारणसमुद्घातप्राप्यस्पर्शनां विहाय या स्वस्थानगमनागमनक्षेत्रापेक्षया स्पर्शना प्राप्यते, तदपेक्षया चिन्त्यमाना प्रकृतत्रयोदशमार्गेणासु प्रत्येकमष्टौ रज्जव उत्कृष्टस्पर्शना प्राप्यते । कथम् ? भवनपत्यादिदेवानामधस्तृतीयां पृथिवीं यावदुपरि चाच्युतकल्पं यावद्गमनागमनयोरभिमतत्वात् तदानीमुत्कृष्टस्थितिकायुर्वन्धस्यापि सम्भवाच्चेति || ३६० || प्रकृतस्पर्शनामेवान्यत्राह -
छिविआ होज्ज छ भागा चउसु देवेसु आणताईसु । देसूणजगं पुटुं बायरअसमत्तवाउम्मि || ३६१ ||
(१०) "छिविआ होज्ज” इत्यादि, प्रकृतैरायुप उत्कृष्टस्थितेर्वन्कैस्त्रसनाड्या पट् चतुदर्शभागाः स्पृष्टा भवन्ति । कियन्मार्गणाभेदष्वित्याह - "चउसु" इत्यादि, आनत - प्राणता-ऽऽरणाऽच्युतकल्परूपेषु चतुर्ष्यानतादिषु देवगतिसत्कमार्गणाभेदेष्वित्यर्थः । सुगमं चैतद्, यत आनतकल्पादिसुराणामूर्ध्वमच्युतकल्पं यावद्गमनेऽप्यवस्तिर्यग्लोकात् परतोऽगमनात् सहस्त्रारान्तदेवचन्नाष्ट रज्जुस्पर्शना, किन्तु षड्ज्जव एव । शेषं त्वनन्तरोक्त सहस्त्रारान्तदेवमार्गणास्थानवदेव भावनीयमिति । "देसूणजगं पु" मिति, प्राग्वदायुष उत्कृष्ट स्थितेर्बन्धकै ' दे' शोनम्' - असंख्येयतमेनैकभागेनोनं जगत् स्पृष्टं भवतीत्यर्थः, । कस्यां मार्गणायामित्याह - "बायर असमत्तवाउम्मि" त्ति अपर्याप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org