________________
मार्गणास्वायुर्वर्जानामनुत्कृष्टस्थिति० ] द्वितीयाधिकारे स्पर्शनाद्वारम्
[३२३ स्थापनसंयम--परिहारविशुद्धिकसंयम-सूक्ष्मसम्परायसंयममार्गणासु च प्रत्येकं सा उत्कृष्टस्पर्शना लोकासंख्येयभागमात्रा सम्पद्यते । द्वितीयनरकभेदे तु सा उत्कृष्टतोऽपि सनाडीसत्क एकश्चतुदेशभागः, तृतीयपथिवीभेदे द्वौ चतुर्दशभागौ, चतुर्थपृथिवीभेदे त्रयश्चतुर्दशभागाः, पञ्चमपथिवीभेदे चत्वारश्चतुर्दशभागाः, षष्ठपृथिवीभेदे पश्च चतुर्दशभागा उत्कृष्टा स्पर्शना प्राप्यते । देवगत्योधमार्गणायामीशानान्तेषु पञ्चसु देवगत्युत्तरभेदेषु तेजोलेश्यामार्गणायां च प्रत्येकमुत्कृष्टा स्पर्शना त्रसनाडया नव चतुर्दशभागा अवाप्यते । सनत्कुमारादिसहस्रारान्तेषु षट्षु देवगतिभेदेषु मति-श्रुताऽवधिज्ञाना-ऽवधिदर्शन-पनलेश्या-सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकौ-पशमिक-मिश्रदृष्टि रूपेषु दशमार्गणाभेदेषु च प्रत्येकं सा उत्कृष्टतोऽपि सनाडीसत्का अष्ट चतुर्दशभागाः प्राप्यते । वैक्रियकाययोगमार्गणायां त्रयोदश चतुर्दशभागाः, एकरज्जुवृत्तविस्तृतत्रयोदशरज्जूचक्षेत्रसम्बन्धिनी स्प शनेत्यर्थः । सासादनमार्गणायां तु तादृश्यो द्वादश रज्जवः स्पर्शनोत्कृष्टतोऽपि लभ्यते । एषा तत्तन्मार्गणासु सामान्यतो लभ्यमानोत्कृष्टस्पर्शनेव द्विषष्टिमार्गणाभेदेष्वपि प्रत्येकं सप्तकर्मणामनुत्कृष्टस्थितेवन्धकानामप्युत्कृष्टतः प्राप्यते । कुतः ? सप्तकर्मणामनुत्कृष्टस्थितिबन्धस्य तत्तन्मार्गणागतैः सवजीवनिवर्तनात् , प्रायशः सर्वावस्थायां भावाच्चेति ।
ननु न केवलमेतेपु मार्गणामेदेष्वेष प्रकारः, किन्तु सर्वेषु मार्गणाभेदेषु मार्गणागतजीवैाहुल्येन सर्वावस्थायां सप्तानामनुत्कृष्ट स्थितिबन्ध एव निर्वय॑ते, अतः सर्वमार्गणाभेदेषु यावत्युत्कृष्टस्पर्शना लभ्यते तावती सप्तकर्मणामनुत्कृष्टस्थितेर्बन्धकानां द्रष्टव्या भवति, तत्कथमेतावत्सु मार्गणाभेदेष्वेव तथोच्यते ? इति चेत् , सत्यम् , यतोऽन्यमार्गणाभेदेष्वपि तथैव दर्शयिष्यते; नवरं लाघवार्थमेतेषूत्कृष्टस्थितेर्बन्धकानां स्पर्शनायास्तुल्यवक्तव्यत्वात् तथैवातिदिष्टेति ॥३५७-३५८।। उक्तशेपमार्गणाभेदप्वेकगाथया प्रकृतस्पशेनामाह
देसम्मि पंच भागाऽणुक्कोसाए ठिईअ सत्तण्हं ।
छिहिओ हवेज्ज सव्वो सेसासुफोसिओ लोगो ॥३५९॥ (प्रे०) "देसम्मि” इत्यादि, देशसंयममार्गणायां सप्तकर्मणामनुत्कृष्टायाः स्थितेर्बन्धकैस्वसनाडीसत्का पञ्च चतुर्दशभागाः स्पृष्टा भवन्ति । उक्तशेषासु तु सप्तोत्तरशतमार्गणासु सर्वो लोकः स्पष्टः, सप्तकर्मणामनुत्कृष्टस्थितेर्वन्धकैरित्यनुवर्तते । इत्यक्षरार्थः। भावार्थस्त्वयम्-देशसंयममार्गणायांमा रणसमुद्घातेन तिर्यग्भिः सहस्रारकल्पं यावत् स्पर्शनात् तिर्यग्लोकादारभ्य सहस्रारकल्पपर्यन्ता या सनाडथन्तर्वर्तिपञ्चरज्जुक्षेत्रप्रमाणा स्पर्शना सैवदेशविरतिमार्गणायामुत्कृष्टस्पर्शना, सैव प्राग्वदनुत्कृष्टस्थितिबन्धकानामपीति पञ्च भागा उक्ताः । उक्तशेषमार्गणासु पुनः प्रत्येकं सूक्ष्मसाधारणवनस्पतिकायतयोत्पित्सुभिजीवैारणसमुद्घातेन सर्वो लोकः स्पश्यते, तथा च सति तासु प्रत्येकमुत्कृष्टस्पर्शनाऽपि सम्पूर्णलोकोऽवाप्यते, सैव पूर्ववदनुत्कृष्टस्थितिबन्धकानामपीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org