________________
३२२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वीनामनुत्कृष्टस्थिति० 'णिरयगतिणिरयाणुपुव्वीणं तिरियो वा मणुयो वा उक्कोसं ठितिं बंधित्ता हेट्ठिल्लाणं तिण्डं पुढवीणं अण्णयराए उवत्रपणो तस्स पढमसमयाउ आढत्तं जाव आवलिया ताव उकोसा ठितीउदीरणा णिरयगतीए भवति । एवं णिरयाणुपुवीए वि । णवरि तिण्णि समया उक्कोसा ठितीउदीरणा होति ।' इत्यादि।
औदारिकमिश्रकाययोगमार्गणायां तु स्वस्थानगतानां करणापर्याप्तसंज्ञिपञ्चेन्द्रियाणामेवोस्कृष्टस्थिति रन्धो जायते, न पुनर्लब्ध्यपर्याप्तानामपीतिकृत्वा लोकाऽसंख्येयभागमात्रा स्पर्शना प्राप्यते, न पुनरधिका । कुतः ? करणापर्याप्तानां स्वप्रायोग्यपर्याप्तीनां समाप्तेरर्वागायुर्वन्धस्याऽसम्भवेन मारणसमुद्घातादेरप्यसम्भवादिति । असंज्ञिमार्गणायां तु प्रथमनरकभेददिभावनीयम् , केवलं स्वस्थानोत्पत्तिस्थानानां वैपरीत्येनेति । वैक्रियमिश्रकाययोगमार्गणायां हि देवानां वर्तमानभवसत्कोत्पत्तिस्थानप्रमाणैव स्पर्शना प्राप्यते । कुतः ? तदानीमपर्याप्तावस्थायां गमनागमनस्याऽभावात् , उत्पत्तिस्थानानि तु तेषां व्यन्तरदेवज्योतिष्कदेवानधिकृत्यापि प्रतरसंख्येयभागमात्रगतानि, शेषाणां तु ततः स्वल्पस्वल्पतराण्येव, अतः स्पर्शनाऽपि तेषां लोकासंख्यभागमात्रोक्ता । देशसंयममार्गणायामपि मिथ्यात्वाभिमुखानां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धकानां देशविरतानां तदानीं मिथ्यात्वाभिमुखावस्थायां मरणस्येव मारणसमुद्घातस्याप्यसम्भवात् प्रकृतस्पर्शना स्वस्थानक्षेत्रमपेक्ष्य लोकस्याऽसंख्येयभागप्रमाणैव दर्शितेति ।।३५६।।
___ तदेवयुक्ताऽऽयुर्वर्जससकर्मणामुत्कृष्टस्थितेबन्धकानां स्पर्शना विभागतोऽपि । इदानीं तेषामेव सप्तानामनुत्कृष्टरिथतेर्बन्धकानां स्पर्शनौघतः प्रागुक्तेतिकृत्वाऽऽदेशतो व्याचिकीपुलाघवार्थ कतिपयमार्गणास्वतिदेशद्वारेणैवाह
सव्वणिरय-सुर-विउवा-ऽहारदुग-अवेअ-णाणचउगेसु। जइ-समइअ-छेएसुपरिहारम्मि सुहुमोहीसु॥३५७॥ सुहलेस-सम्म-वेअग-खइ-उवसम-मीस-सासणेसु य ।
सत्तण्ह होज फुसणा अगुरुठिईए गुरुठिइब्व ॥३५८॥ (प्रे०) “सव्वणिरयसुरे"त्यादि, नरकगत्योध-प्रथमनरकादिषु सासादनान्तासु साधंगाथया सङ्ग्रहीतासु द्विपष्ठिमार्गणासु प्रत्येकमायुर्वर्जानां सप्तप्रकृतीनामनुत्कृष्टस्थितेर्बन्धकानां स्पर्शना तत्तन्मार्गणासु प्राग्दर्शितसप्तप्रकृतिसत्कोत्कृष्टस्थितेर्बन्धकनां स्पर्शनावदेव भवतीति संक्षेपार्थः । विस्तरार्थस्त्वेवम्-नरकगत्योधभेदे, सप्तमनरकभेदे,आनत-प्राणता-ऽऽरणा-ऽच्युतकल्परूपेषु चतुर्यु देवगतिभेदेषु, शुक्ललेश्यामार्गणाभेदे च प्रत्येकमुत्कृष्टस्थितिबन्धकादिजीवविशेषाननपेक्ष्य सामान्यतः सर्वनारकादिजीवैः कृता स्पर्शनाऽप्युत्कृष्टतस्त्रतनाडीसत्काः षट् चतुर्दशभागा एव भवति । प्रथमनरकभेदे,नवसु | वेयकविमानभेदेषु, पञ्चष्वनुत्तरविमानभेदेपु, वैक्रियमिश्रकाययोगा-ऽऽहारककाययोगा-ऽऽहारकमिश्रकाययोगेषु, तथाऽपगतवेद-मनःपर्यवज्ञान-संयमोघ-सामायिकसंयम-छेदोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org