________________
मार्गणास्वायुर्वर्जानामुत्कृषस्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३२१ भावाच्च । एवं सति महावन्धकारमते देवकृता ऊलोकसत्का सप्तरज्जुस्पर्शना प्रस्तुतमार्गणारये न प्राप्यते, किन्तु केवला नैरयिककृता षडादिरज्जव एव प्राप्यत इत्यतस्तन्मते प्रस्तुतस्पर्शनां तथैव दर्शयन्नाह-"बिंति छ चउरो” इत्यादि, गतार्थम् । ___अथोक्तशेषमार्गणास्वाह-“सेसासुजगअसंखंसो" त्ति अनन्तरोक्तनिरयगत्योपाद्यकोनचत्वारिंशदधिकशतमार्गणा विहाय शेषास्वेकत्रिंशन्मार्गणासु 'जगतः'-लोकस्यैकोऽसंख्येयतमोशः प्रस्तुतबन्धकः स्पष्टो भवतीत्यर्थः । तत्र शेषमार्गणानामानि त्वेवम्-प्रथमपथिवीनरकभेदः, नव
वेयकदेवभेदास्तथैव पश्चानुत्तरदेवभेदाः, अपर्याप्तभेदवर्जास्त्रयो मनुष्यगतिभेदाः, औदारिकमिश्रवैक्रियमिश्रा-ऽऽहारक-ऽऽहारकमिश्रकाययोगरूपाश्चत्वारो योगमार्गणाभेदाः, अपगतवेद-मनःपर्यवज्ञानभेदौ, असंयमवर्जाः पट संयममार्गणाभेदा असंज्ञिमार्गणाभेदश्चेति ।
___ तत्र मनुष्यत्रिकौ-दारिकमिश्रकाययोग-वैक्रियमिश्रकाययोग-देशसंयम-ऽसंज्ञिमार्गणावजेशेषचतुर्विंशतिमार्गणासु प्रत्येकं जीवानां स्वस्थान-गमनागमनस्थानानि तथा पारभविकोत्पत्तिस्थानानि च प्रत्येकं तियप्रतरस्यासंख्येयभागमात्रवर्तीनि सन्ति, तथा सति मूलतोऽपि तेषामुत्कृष्टस्पर्शना लोकासंख्येयभागमात्रा प्राप्यते, तत्पुनरुत्कृष्टस्थितिबन्धकानां स्पर्शनायास्तु का वार्ता, अर्थाल्लोकाऽसंख्येयभागादधिकस्पर्शनाया असम्भव एव । न च संयमसामान्यमार्गणागतानां केवलिभगवतां केवलिसमुद्घातमपेक्ष्य सर्वलोकस्पर्शना लभ्यतेति वक्त युज्यते, स्थितिबन्धस्य प्रकृतत्वेन स्थितिबन्धस्वामिनां सम्भवन्मारणसमुद्घाताद्यपेक्षया लभ्यमानायाः स्पर्शनाया एवात्रोपयोगित्वात्, तस्यास्तु यथोक्तप्रमाणत्वाच्चेति । एवं प्रथमनरकभेदेऽप्युक्ताधिकस्पर्शना नाशङ्कया, तस्या अपि प्राङ् निराकृतत्वादिति । मनुष्यौघमार्गणायां तु मारणसमुद्घातकाले नारकतयोपित्सुनामेव मार्गणायां बन्धप्रायोग्योत्कृष्टस्थितिबन्धस्य सम्भवाल्लोकासंख्येयभागस्पर्शनोक्ता । एवं पर्याप्तमनुष्य-मानुपीमार्गणयोर्योज्यम्, नवरं मानुषीमार्गणायां षष्टनरकाभिमुखीनां मारणसमुद्घातमपेक्ष्य ज्ञेयम् ।
ननु पर्याप्तमनुष्याणां सप्तमनरकमेव स्वप्रायोग्यं सर्वनिकृष्टं पारभविकमुत्पत्तिस्थानम् , तथा च सति भवचरमान्तमुहर्ते तदभिमुखानामेवोत्कृष्टस्थितिबन्धसम्भवः, नान्येषाम् । इत्थं हि षष्ठपृथिव्यभिमुखीनां स्त्रीणां पर्याप्तमनुष्यत्वेनोत्कृष्टस्थितिबन्धः कथं भवेद् ? इति चेद् , उच्यते, षष्ठनरकेऽपि सप्तमनरकवत् कृष्णलेश्याया एव सद्भावात् पष्ठसप्तमपृथिव्यभिमुखजीवानां स्थितिबन्धस्वामित्वविषये न कश्चिद्विशेषः, षष्ठपथिव्यभिमुखानां नरकप्रायोग्यं बध्नतामपि कृष्णलेश्यत्वेनोत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशस्य सम्भवादिति भावः । एवं पञ्चमपथिव्यभिमुखानां स्थितिबन्धस्वामित्वविषयेऽपि विज्ञेयम् , न पुनरन्येषु नरकभेदष्वेवं सम्भवति, तदभिमुखानां कृष्णेतरलेश्यत्वात्। अत एव नरकगति-नरकानुपूर्वीप्रकृतिद्वयस्योत्कृष्टा स्थित्युदीरणाऽधस्तनपथिवीत्रय एव प्रत्यग्रोत्पन्नानां नारकाणां दर्शिता, न त्वन्यपृथिवीगतानां नारकाणाम् । उक्तश्च कर्मप्रकृतिचूर्णी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org