SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३२० ] बंधाणे मूलपडिटिबंधो [मार्गणास्वायुर्वजनामुत्कृष्ट स्थिति० पंचिंदियदुग-तसदुग-पणमणवय काय - विउवेसु ं । पुरिस - चउकसायेसु तिअणाणा - संयमेसु च ॥३५४॥ यणा - Sणयणेस तहा भविये यर - मिच्छ-सण्णि आहारे । तेरभागा छिहि उकोसाएऽत्थि सत्ताहं ॥ ३५५॥ (प्रे०) "पंचिंदियदुगतसदुग" इत्यादि, अक्षरार्थस्तु सुगमः, नवरमपर्याप्तपञ्चेन्द्रियाऽपर्याप्तत्र सकायभेदयोः प्राग् गृहीतत्वात् “पंचिंदियदुग" इत्यनेन शेषौ पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रियमार्गणाभेदौ तथा "तसदुग" इत्यनेन त्रसकायौध- पर्याप्तत्रसकायभेदौ समुच्चितौ । तथा च सति पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रियाद्याहारिपर्यन्तेषु द्वात्रिंशन्मार्गणास्थानेषु सप्तकर्मणामुत्कृष्टस्थितेर्बन्धकैस्त्रयोदश भागाः स्पृष्टा भवन्तीत्यर्थः । एतेषु द्वात्रिंशन्मार्गणाभेदेषु प्रत्येकमोघवदूर्ध्वलोके सप्तरज्जुस्पर्शना ईशानान्तदेवकृता, अधोलोके षड्ज्जुस्पर्शना तु सप्तमनरकनैर विककृता, सप्तमपृथिव्यां नैरयिकतयोत्पित्सुभिः पर्याप्तपञ्चेन्द्रियतिर्यग्भिः कृता वा बोद्धव्या, केवलं नैरयेिकाणां नियमतो नपुंसकवेदितया पुवेदमार्गणायां तिर्यक्कृतैवाथः षड्ज्जुस्पर्शना लभ्यते, तथा वैक्रियकाययोगमार्गणायां वैपरित्येन सप्तमपृथिवीनैरयिककृतैव सा षड्ज्जुस्पर्शना लभ्यते, न पुनस्तिर्यक्कृताऽपीति तत्र मार्गणाद्वये तथा द्रष्टव्येति ।। ३५४-३५५।। शेषमार्गणासु प्रस्तुतस्पर्शनामेकगाथयाऽऽह Jain Education International किण्हाईसु कमसो तेरेगार णव फोसिया भागा। विंति छ चउरो दो ऽण्णे सेसासु जगअसंखंसो ||३५६ ॥ (प्रे०) “किण्हाईसु” मित्यादि, कृष्णादिषु कृष्ण-नील-कापोतलक्षणासु तिसृषु लेश्यामार्गणासु 'क्रमशः ' - यथाक्रमं त्रयोदश, एकादश, नव "फोसिया भागा "त्ति आयुर्वर्जानां सप्तानामुत्क्रुष्टस्थितेर्बन्धकैर्यथोक्तलक्षणास्त्रसनाडीसत्का भागाः स्पृष्टाः । तत्र कृष्णादिषु क्रमेण पड्, चत्वारो द्वौ च तिर्यक्तयोत्पित्सुभिः समुद्घातगतैस्तत्तल्लेश्या कनैरयिकजीवैः कृताऽधोलोकस्पर्शनापेक्षयाऽवसातव्याः, तत्तल्लेश्याकनैरयिकाणामुत्कृष्टतस्तिर्यग् लोकात्पड्रज्ज्याद्यन्तरे सप्तमादिपृथिवीषु वर्तमानत्वात् । यत उक्तम्- 'दुसु काऊ, तइआए काऊनीला य, नील पंकाअ । धूमाअ नीलकिण्हा, दुसु किन्हा हुन्ति लेसाओ' इति । शेषसप्तभागास्तूर्ध्वमीषत्प्राग्भाराभूमौ मारणसमुद्घातेन निक्षिप्तात्मप्रदेशैः स्वस्थानगतैभवनपत्यादिभिर्निर्वर्तितोर्ध्वलोकस्पर्शनापेक्षयाऽवसातव्याः, तदानीं स्वप्रायोग्य सर्वनिकृष्टपारभविकोत्पत्तिस्थानाभिमुखानां तेषां नैरधिकदेवानां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्य सम्भवात् । अथ प्रस्तुतमार्गणात्रये महाबन्धकारमते देवा उत्कृष्टस्थितिबन्धस्वामिनो न भवन्ति । कथम् ? तैरपर्याप्तावस्थाया अन्यत्र देवानामशुभलेश्याया अनङ्गीकारात्, अपर्याप्तावस्थायां सप्तानामुत्कृष्टस्थितिबन्धस्या For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy