________________
मार्गणास्वायुर्वजार्नामुत्कृष्स्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३१९ प्राग्वद्योगः । केषु मार्गणाभेदेष्वित्याह-"सव्वेसु एगिदिये" त्यादि, 'सर्वेषु' सप्तसंख्याकेष्वप्यकेन्द्रियजातिसत्कभेदेषु, तथैव सर्वेषु नवस्वपि विकलेन्द्रियसत्कभेदेषु, सर्वेषु पथिव्यादिपञ्चकायसत्केष्वेकोनचत्वारिंशन्मार्गणाभेदेषु । मार्गणान्तरसङ्ग्रहायाह-"असमत्ते" त्यादि, तत्राऽपर्याप्तभेदवाचकोऽसमाप्तशब्दः पञ्चेन्द्रियतिर्यगादिषु प्रत्येकं युज्यते, तथा च सत्यपर्याप्तपञ्चेन्द्रियतिर्यग-पर्याप्तमनुष्या-ऽपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायरूपेषु चतुर्यु भेदेषु चेति ।
__ इयमत्र भावना-प्रकृतकोनषष्टिमार्गणासु याः सूक्ष्मौघतत्पर्याप्ताऽपर्याप्तभेदभिन्ना अष्टादशमार्गणास्तासु सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्वामिनां स्वस्थानत एव सर्वलोके सद्भावात्प्रकृतस्पर्शना तदनुसारेण सर्वलोकः प्राप्यते, यद्वा प्रकृतसर्वमार्गणगतानां जीवानां सर्व निकृष्टं स्वप्रायोग्यं पारभषिकोत्पत्तिस्थानमपर्याप्तसूक्ष्मनिगोदात्मकम्, अपर्याप्तसूक्ष्मनिगोदजीवास्त्वन्यूने लोके व्याप्ताः, आस्तत्रोत्पित्सवः प्रकृतप्रत्येकमार्गणासम्बन्धिजीवा मारणसमुद्घातावस्थायां सप्तानामुस्कृष्टस्थितिबन्धं कुर्वन्तः सर्व लोकं स्वात्मप्रदेशैः पूरयितुं शक्नुवन्ति, ततो नानासमयसव्यपेक्षा प्रकृतस्पर्शनाऽपि सर्वलोकप्रमाणा प्राप्यत इति ॥३५२॥ इदानीं यासु प्रस्तुतस्पर्शनाऽष्टौ रज्जवस्ता मार्गणाः संगृह्याह
भागाऽट्ट होज्ज तइआइसहस्सारंतसुर-तिणाणेसु।
ओहि-पउम-सम्म-खइअ-वेअगु-वसमेसु मीसे य ॥३५३॥ (प्रे०)"भागाऽह होज्जे” त्यादि, सप्तानामुत्कृष्टस्थितेर्बन्धकैस्त्रसनाडया अष्टौ भागाः स्पृष्टा भवन्तीत्यर्थः । केष्वित्याह-"तइआइसहस्सारते" त्यादि, तृतीयसनत्कुमारकल्पमादौ कृत्वा सहस्त्रारकल्पान्तेषु षटषु सुरगतिभेदेषु, मनःपर्यवज्ञानवर्जेषु त्रिषु मतिश्रुतावधिरूपज्ञानभेदेषु, तथा “ओहिपउमे" त्यादि, अवधिदर्शन-पद्मलेश्या-सम्यक्रौघ-क्षायिकसम्यक्त्व-वेदकसम्यक्त्वौपशमिकसम्यक्त्व-मिश्रदृष्टिमार्गणाभेदेषु चेत्येषु षोडशमार्गणाभेदेषु प्रत्येकमित्यर्थः । तत्र सनकुमारादिसहस्रारान्तानां पूर्वसाङ्गतिकैरच्युतकल्पे नीतानां देवानां तत्रैव भवचरमान्तमुहूर्ते प्राप्ते मारणसमुद्घातेन तिर्यग्लोकं यावत् स्पर्शनादूर्ध्वलोके षड् रज्जवः स्पर्शना, तृतीयनरकं यावदधोरज्जुद्वयमपि तत्रगतानां समुद्घातकरणेनेति समस्ताऽष्टौ भागाः स्पर्शना । यद्वाऽष्टावपि रज्जवः स्पर्शना तेषां गमनागमनक्षेत्रापेक्षयैव बोद्धव्या । पद्मलेश्यामार्गणायामपीत्थमेव विभावनीयम् । शेषनवमार्गणास्वपि तथैव,नवरं ज्ञानत्रया-ऽवधिदर्शनौ-पशमिकसम्यक्त्व-मिश्रदृष्टिमार्गणासु गमनागमनं कुर्वतां मिथ्यात्वाभिमुखानामुत्कृष्टस्थितिबन्धं विदधतां देवानां स्पर्शनाऽपेक्षया प्रकृतस्पर्शना बोद्धव्या, न पुनः समुद्घातापेक्षयाऽपि । किं कारणम् ? अभिमुखावस्थाथां मरणस्येव मारणसमुद्घातस्याप्यसम्भवादिति ॥३५३॥ यासु मार्गणास्वायुर्वर्जसप्तानामुत्कृष्टस्थितेर्बन्धकैस्त्रसनाडयास्त्रयोदश भागाः स्पृष्टास्ताः सङ्ग्रह्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org