________________
३१८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वीनामुत्कृष्टस्थिति० "बारह कम्मणथी” त्यादि, कार्मणकाययोग-स्त्रीवेद-सासादना--ऽनाहारकमार्गणासु प्रत्येकं सप्तकर्मणामुत्कृष्टस्थितेर्बन्धकैस्त्रसनाडया द्वादश चतुर्दशभागाः स्पृष्टा भवन्तीत्यर्थः । तत्र कार्मणकाययोगमार्गणायां मूलसप्तकर्मणामुत्कृष्टस्थितेर्बन्धकाः पर्याप्तसंक्षिपञ्चेन्द्रियतश्च्युत्वा पर्याप्तसंज्ञिपञ्चेन्द्रियतयोत्पद्यमाना विग्रहगतिवर्तिनो जीवा इति प्रागभिहितमेव, तेऽप्यष्टमकल्पान्ता देवाः, अन्ये वा गतित्रयसम्बन्धिन एव भवन्ति, न त्वानतादिकल्पवासिनः, शुक्ललेश्याकैरतैः कार्मणकाययोगमार्गणाबन्धप्रायोग्यत्कृष्टस्थितिबन्धस्याकरणात् । इत्थं च यदाऽच्युतकल्पसुरैः स्वस्थानं नीता सहस्रारकल्पान्ता देवास्तवस्था एवायुःक्षयात् कालं कृत्वा विग्रहगत्या तिर्यग्लोके तिर्यक्त्वेनोत्पद्यन्ते तदोव॑लोकसत्काः षड़ रज्जवः स्पर्शना लभ्यते, अधोलोकसत्काः पड़ रज्जवस्तु सप्तमभूमौ नैरयिकतयोत्पद्यमानैर्विग्रहगतिस्थैस्तिर्यग्भिर्मनुष्यैर्वा स्पृष्टाः सन्ति, एताः समस्ताः सत्यो द्वादश रज्जवो भवन्ति । ता एव द्वादश रज्जवः प्रकृते सप्तानां प्रकृतीनामुत्कृष्टस्थितिबन्धकानामुत्कृष्टस्पर्शना दर्शितेति । अनाहारकमार्गणायामप्ययमेव प्रकारो द्रष्टव्यः । स्त्रीवेदमार्गणायां त्वी. पत्याग्भारापथिवीं प्राप्तानां मारणान्तिकसमुद्घातगतानां भवनपत्यादिदेवीनामवलोकसत्का सप्तरज्जुस्पर्शना, तथा तिरश्चीनां षष्ठपृथिवीं यावदुत्पादादधोलोकसत्का पञ्चरज्जुस्पर्शना च समुदिता सती द्वादशरज्जुस्पर्शना भवतीति तथैव दर्शिता । उत्कृष्टस्थितिबन्धस्तु तदानीं तासां देवीनां मानुषीणां च स्वप्रायोग्यसर्वनिकृष्टपारभविकोत्पत्तिस्थानाभिमुखतया सम्भवतीति प्राग्वद् बोद्धव्यम् । सासादनमार्गणायां पुनस्तिर्यक्पञ्चेन्द्रियतयोपिसूनां पष्ठपृथिवीनरयिकाणां मारणसमुद्घातेन प्राप्ताऽधोलोकसत्का पञ्चरज्जुस्पर्शना, शेषसप्तरज्जुस्पर्शना तूर्वलोके लोकान्तं यावदुत्सित्सूनां पञ्चेन्द्रियतिरश्वां मनुष्याणां वा मारणान्तिकसमुद्घातनिष्पन्ना, एवं नानाजीव-नानासमयसमाश्रयणादेकरज्जुतिर्यग्वत्तविस्तृतद्वादशरज्जूच्चा स्पर्शनोक्तेति ।
ननु तिर्यग्लोक उत्पित्सूनां सप्तमपृथिवीनरयिकाणां पज्जुस्पर्शनां विहाय कथमत्राधोलोकसत्का पञ्चरज्जुस्पर्शनैव गृहीता ? इति चेद् , उच्यते,भवचरमान्तमुहूर्तवर्तिनां मुमूर्तृणां सप्तपृथिवीनैरयिकाणां नियमतो मिथ्यादृष्टित्वेन प्रकृतमार्गणावहिस्त्वात् तत्संबन्धिषडज्जुस्पर्शनां विहाय षष्ठपथिवीनैरयिकसम्बन्धिनी सा पञ्चरज्जुमानैव गृहीता, षष्ठपथिवीनरयिकाणां सासादनगुणयुतानामपि तिर्यग्मनुष्यतयोत्पत्तः । उक्तं च पञ्चसङ्ग्रहे-“छट्ठाए नेरइओ सासणभावेण एइ तिरिमणुए" इति ॥३५१॥ सम्प्रति यासु मार्गणासु प्रकृतस्पर्शना समग्रलोकप्रमाणा ता मार्गणाः सङ्ग्रह्याह
सव्वजगं सव्वेस एगिदिय-विगल-पंचकायेस।
असमत्तपणिदितिरिय-मणुस-पणिंदिय-तसेसुय ॥३५२॥ (प्रे०) “सव्वजग" मित्यादि, सर्वं जगत् , सप्तकर्मणामुत्कृष्टस्थितेर्बन्धकैः स्पृष्टं भवतीति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org