________________
मार्गणास्वायुर्जानामुत्कृष्टस्थिति० ] द्वितीयाधिकारे स्पर्शनाद्वारम्
[३१७ समुद्घातेन पारभविकस्वोत्पत्तिस्थानसप्तमनिरयभूमिप्राप्तानां संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणां तदानीं स्वप्रायोग्यसर्व निकृष्टोत्पत्तिस्थानाभिमुखतयोत्कृष्टस्थितिबन्धस्य सम्भवात् तदपेक्षया प्रस्तुतस्पर्शनाऽपिषड रज्जवो लभ्यत इति ॥३४९।। द्वितीयपथिव्यादिषु पञ्चसु निरयगतिमार्गणास्थानेषु प्रकृतस्पर्शनामाह
एगाइणा कमूणा ते छट्ठाइपणणिरयेसु ॥३५०॥ (प्रे०) “एगाइणा कमूणा" इत्यादि, एकादिना भागेन क्रमादूनाः "ते" तिऽनन्तरोक्ताः षड् भागाः, सप्तानां प्रकृतीनामुत्कृष्टायाः स्थितेर्बन्धकैः स्पृष्टा भवन्तीत्यनुवर्तते । इत्थमेवोत्तरत्राऽप्यनुवृत्तिद्रष्टव्या । केषु मार्गणाभेदेवित्याह-"छट्ठाइपणणिरयेसु" ति आनुपूर्व्याऽसम्भवादनन्तरमेव सप्तमपथिवीनिरयभेदे प्रतुतस्पर्शनाया अभिहितत्वाच्च पश्चादानपूर्व्या षष्ठादिषु षष्ठ-पञ्चम-चतुर्थ-तृतीय-द्वितीय-पृथिवीनिरयभेदरूपेषु पञ्चसु निरयमार्गणास्थानेष्वित्यर्थः । इदमुक्तं भवति-पष्टपञ्चमादिनरकपथिवीनां यथोत्तरं तिर्यग्लोकादभ्यर्णा-ऽभ्यर्णतरा-भ्यर्णतमवर्तित्वान्मारणसमुद्धातेन तत्रत्यनारकैः कृता स्पर्शनाऽप्यल्पा-ऽल्पतराद्या प्राप्यते,किश्च तिर्यग्गतेस्तेषां स्वप्रायोग्यसर्वनिकृष्टपारभविकोत्पत्तिस्थानरूपत्वात् तदानीं मारणसमुद्घातगतानां तेषां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धोऽपि सम्भवति । इत्थं हि अतीतकालसम्बन्धिभिमारणसमुद्घातगतैः सप्तकर्मणामुत्कृष्टस्थितेर्बन्धक रकैः कृता स्पर्शनाऽपि षष्ठपथिवीनिरयभेदेऽनन्तरोक्तपडरज्जव एकया रज्ज्या न्यूनाः पञ्च रज्जवः, पञ्चमपथिवीनिरयभेदे रज्जुद्वयेन न्यूनाश्चतूरज्जवः, चतुर्थपथिवीनिरयभेदे रज्जुत्रयेण न्यूनास्त्रिस्रो रज्जवः, एवमेवोत्तरत्राऽपि, ततस्तृतीयपृथिवीनिरयभेदे रज्जुद्रयम् द्वितीयपथिवीनिरयभेदे त्वेका रज्जुः स्पर्शना भवतीति ॥३५०।। अथ मार्गणान्तरेष्वाह
होइ पण तिरिच्छीए सुर-इसाणंतदेव-तेऊसु। ___णव बारह कम्मण-थी सासण-ऽणाहारगेसु य ॥३५॥
(प्रे.) "होइ पण तिरिच्छीए” ति तिरश्चीमार्गणायां सप्तकर्मणामुत्कृष्टस्थितेर्बन्धकैः कृता स्पर्शना “होइ पण" ति त्रसनाड्याः पञ्च चतुर्दशभागा भवति, एकरज्जुवृत्तविस्तृतपञ्चरज्जुप्रमाणोच्चा भवतीति भावः । इत्थमेवोत्तरत्रापि भागपदेन सनाडीगतका रज्जुर्वेदितव्येति । कुतः पश्चरज्जुस्पर्शना ? इति चेद् , उत्कृष्टस्थितिवन्धं कुर्वतीभिस्तिरचीभिर्मारणसमुद्घातेनाधः पष्ठपृथिवीं यावत्स्पृष्टत्वात् । “सुरईसाणंतदेवतेऊसु” ति सुरगन्योधमार्गणाभेदे, भवनपतिव्यन्तर-ज्योतिष्क-सौधर्मे-शानकल्परूपेष्वीशानान्तदेवभेदेषु, तेजोलेश्यामागंणाभेदे चेत्येतेषु सप्तस प्रत्येकं "नव" ति त्रसनाड्या नव चतुर्दशभागाः, सप्तकर्मणामुत्कृष्टस्थितेवन्धकैः स्पष्टा इत्यनुवर्वते । कथम् ? इति चेत् , मारणसमुद्घातेनेपत्प्राग्भाराभूमौ स्वप्रायोग्यसर्वनिकृष्टपारभविकोत्पत्तिस्थान एकेन्द्रियत्वेनोत्पद्यमानः पूर्वोत्पन्नश्चोर्ध्व सप्तरज्जुक्षेत्रमापूरणात् , तृतीयनरकपृथिवीं यावद्गमनागमनं कुर्वद्भिरधो रज्जुद्वयस्पर्शनाच्च समस्ता नव रज्जवो भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org