________________
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामुत्कृष्टस्थिति० _ (प्रे०) “आउस्स” इत्यादि, आयुष उत्कृष्टायाः स्थितेर्बन्धकैलॊकस्यासंख्यतम एको भागः स्पृष्टो भवति । तस्यैवानुत्कृष्टायाः स्थितेः सर्वं जगत् स्पृष्टं भवति, बन्धकैरिति तु प्रथमगाथातोत्राप्यनुवर्तते, यद्वा स्पृष्टमिति प्रयुक्तेऽनुक्तमपि प्रकरणाद्गम्यत इत्यक्षरार्थः । भावार्थः नरयम्-आयुर्बन्धो हि मारणसमुद्घातं गतानामन्तरालगतौ वर्तमानानां वा न भवति, तथा च सत्यायुर्बन्धकानां स्पर्शनाऽपि स्वस्थानक्षेत्रमपेक्ष्य गमनागमनक्षेत्रं वाऽपेक्ष्य प्राप्यते, स्वस्थानाद्विशिष्टं गमनागमनक्षेत्रं तु भवनपत्यादिदेवानामेव । आयुष औधिकोत्कृष्टस्थितेर्बन्धकास्तु संज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्याः। तेषां च नास्ति किञ्चित्स्वस्थानाद्विशिष्टं गमनागमनक्षेत्रमतस्तेषां स्वस्थानक्षेत्राक्षिप्ता स्पर्शना एवं प्रकृते प्राप्यते,सा तु लोकासंख्यभागमात्राऽतस्तथैवोक्ता । आयुप औधिकानुत्कृष्टस्थितेर्बन्धकास्तु सूक्ष्मैकेन्द्रियादयोऽपि, अतस्तेषां स्वस्थानापेक्षयापि सर्वलोकस्पर्शनैव भवतीत्योपत आयुषोऽनुत्कृष्ट स्थितेर्बन्धकस्पर्शना सर्वलोक उक्ता इति । ॥३४८॥
तदेवमभिहितौघतोऽष्टानामपि प्रकृतीनामुत्कृष्टानुत्कृष्टस्थित्योन्धकस्पर्शना । साम्प्रतं तामेवादेशतो व्याजिहीर्षुरादौ तावदायुर्वर्जसप्तानामुत्कृष्टस्थितेराह
णिरये सत्तमणिरये तिरयम्मि तहा पणिदितिरियदुगे। चउआणताइगेसु ओराल-णपुस-सुकासु॥३४९॥
सत्तण्हुक्कोसाए ठिईअ भागा छ फोसिआ होज्जा। (प्रे०) "णिरये सत्तमणिरये” इत्यादि, निरयगत्योघे, सप्तमपथिवीनिरयभेदे, तिर्यकसामान्ये तथा पञ्चेन्द्रियतिर्यकपर्याप्तपञ्चेन्द्रियतिर्यगात्मके पञ्चेन्द्रियतिर्यग्द्विके, आनत-प्राणताऽऽरणा-ऽच्युतकल्पभेदभिन्नेषु चतुर्यु देवगतिमार्गणाभेदेषु । तथा औदारिककाययोग-नपुसकवेदशुक्ललेश्यासु, इत्येवं द्वादशमार्गणासु “सत्तण्हुक्कोसाए" इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनामुत्कृष्टायाः स्थितेः 'षड्भागाः'-सनाड्याश्चतुदर्शभागरूपाः षडजवः स्पृष्टा भवन्ति, बन्धकैरित्यनुवर्तते । कथं पड़ज्जवः ? इति चेद् ,उच्यते,नरकगत्योधमार्गणायां सप्तमनरकमार्गणायां च मारणान्तिकसमुद्घातेन तिर्यग्लोकं स्पष्टैः स्वस्थानगतै रकैरपि तदानीमुत्कृष्टस्थितिबन्धो निर्वतयितुं शक्यते, ततश्च सप्तमनिरयनैरयिकाणामुत्कृष्टस्पर्शनायाः . प्रकृतमार्गणाद्वय उत्कृष्टस्थितिबन्धस्वामिस्पर्शनातया युज्यमानत्वात् पडज्जुस्पर्शनोत्ता । एतेषां सप्तमपथिवीनारकाणामुत्कटस्पर्शनापेक्षयैव, यद्वा पञ्चेन्द्रियतिरश्चां वक्ष्यमाणोत्कृष्टस्पर्शनापेक्षया नपुसकवेदमार्गणायां प्रस्तुतस्पर्शना विज्ञेया । आनतादिदेवानां त्वधस्तिर्यग्लोकं यावदूर्ध्व चाच्युतकल्पं यावद्गमनागमनस्याऽप्यभिमतत्वाद्गमनागमनकृतस्पर्शनापेक्षयापि पडरज्जुस्पर्शना प्राप्यत इति तदनुसारेण सा भावनीया । शुक्ललेश्यामार्गणायामपि तथैवानतादिदेवानां स्पर्शनाप्राधान्यात्सा बोद्धव्या । तिर्यग्गत्योध-पञ्चेन्द्रियतिर्यग्-पर्याप्तपञ्चेन्द्रियतिर्यगौ-दारिककाययोगमार्गणासु पुनरिणान्तिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org