________________
ओघत आयुष उत्कृष्टेतरस्थिति०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३१५ ननु तिर्यग्मनुष्याणामनन्तरभवे सूक्ष्मैकेन्द्रियतयाप्युत्पत्तेः सम्भवेन तेषां पारभविकोत्पत्तिस्थानानि लोकसर्वाधस्तनप्रतरं यावद्विद्यन्ते, ततश्चोक्तनीत्याऽधोलोकसम्बन्धिनी सप्तरज्जुस्पर्शनाऽपि प्राप्यते, तत्कथं षडज्जव एव गृहीता ? इति चेद , उच्यते, सत्यमेतत् , तथाऽपि साम्प्रतमुत्कृष्टस्थितिबन्धस्वामिस्पर्शना प्रस्तूयते, औधिकोत्कृष्टस्थितिबन्धस्वामिनस्तु संज्ञिपञ्चेन्द्रियतियंगमनुष्याः, न पुनः सूक्ष्मैकेन्द्रियादयः । संज्ञिपञ्चेन्द्रितिर्यग्मनुष्याणां तु सा सप्तरज्जुस्पर्शना मारणान्तिकसमुद्धातादिना प्राप्येत, न तु स्वस्थानतो गमनागमनतो वा । सूक्ष्मैकेन्द्रियादितयोत्सिवो मारणान्तिकसमुद्घातं प्राप्ताश्चैत उत्कृष्टस्थितिबन्धमेव न कुर्वन्ति, भवान्तराभिमुखेषु जीवेषु स्वप्रायोग्यसनिकृष्टपारभविकोत्पत्तिस्थानाभिमुखानां पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामेव तस्य सम्भवात् । पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणां स्वप्रायोग्यसर्वनिकृष्टं पारभविकोत्पत्तिस्थानं तु निरयगतिः, उत्कृष्टसंक्लेशोपेतैस्तैस्तस्या एव निवर्तनात् , इत्येवं सर्व एकजीवाश्रयकालद्वारे 'एनिदियणिगोएसुं तेसिं सुहुमेसु' इत्यादिगाथा(१४७)वृत्तौ दर्शितनीत्या विभावनीयम् । इत्थञ्चैकेन्द्रियत्वाभिमुखमुमूर्ष जीवानां तदानीं सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्यैवाऽसम्भवाद्यथोक्तसप्तरज्जुस्पर्शनां विहाय सप्तमनरकाभिमुखजीवानपेक्ष्य षड़ज्जवः स्पर्शनैव गृहीता ।
अमुमेव पदार्थ प्रतिपादयितु प्राक-'फुसणाअ बुफिचरे इह जे भागा भाजिआअ च उदसहिं । तसनाडी लहिज्जउ जं तावइअप्पमाणा ते ॥३४७॥' इत्यत्र चतुर्दशभिस्त्रसनाड्य व विभक्तुमभिहिता, न तु लोकनाडी; यतस्त्रसनाडी चतुर्दशरज्जुप्रमाणोच्चा, एकरज्जुप्रमाणा तु वृत्तविस्तृता, तस्यां चतुर्दशभिर्भाजितायां सत्यामेकरज्जुप्रमाणोच्चमेकरज्जुप्रमाणं वृत्तविस्तृतमित्येतावत्क्षेत्रं भागफलतया लभ्यते, तावत्प्रमाणास्त्रयोदशभागाः प्रकृतेऽपि सङ्गच्छन्ते । तथाहि-मारणान्तिकसमुद्घातकाल ईषत्प्राग्भारापथिव्यां निक्षिप्तात्मप्रदेशदण्डैरीशानान्तदेवैर्ये ऊर्चलोकसत्काः सप्त रज्जवः स्पश्यन्ते, तास्त्रसनाड्यन्तर्गता एव सन्ति; सनाड्या एकरज्जुवृत्तविस्तृतत्वात् ताः सप्तरज्जवोऽप्येकरज्जुवृत्तविस्तृता एव प्राप्यन्ते । इत्थमेव मारणान्तिकसमुद्घातेन सप्तमपृथिवीं प्राप्तानां तिर्यग्मनुष्याणामपि षड़ज्जवः स्पर्श करज्जुप्रमाणवृत्तविस्तृतक्षेत्रसम्बन्धिन्यवगन्तव्या ।
अत्रेदमवधेयम्-स्वयम्भूरमणसमुद्रस्य जगत्याः परभागवर्तिषु स्तोकमात्रदेशेषु पञ्चेन्द्रियतिरश्चामभावादुक्तषडज्जुस्पर्शना यद्यप्येकदेशेनोना भति, तथापि तस्यैकदेशस्य स्वल्पत्वादविवक्षया सामान्यत एकरज्जुवृत्तविस्तृताः षडज्जवोऽभिहिताः । एवमन्यत्रापि यथासम्भवं द्रष्टव्यमिति । सप्तकर्मणामनुत्कृष्टस्थितेर्बन्धकानां सर्वलोकस्पर्शना तु सुगमेति ॥३४६-३४७॥
तदेवमोघतः सप्तकर्मणामुत्कृष्टानुत्कृष्टद्विविधाया अपि स्थितेर्बन्धकानां स्पर्शनाऽभिहिता । साम्प्रतमुक्तशेरस्यायुषस्तामोघतः प्राह
आउस्स असंखयमो भागो लोगस्स फोसिओ होज्जा। उक्कोसाअ ठिईएऽणुकोसाए जगं सव्वं ॥३८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org