________________
३१४ ]
बंधविहाणे मूलपयडिठिइबंधो | ओघत आयुर्जानामुत्कृष्टेतरस्थिति० नोत्पत्तिस्थानानां किञ्चिदून तिर्यक्प्रतरव्यापित्वात् मारणसमुद्घातप्राप्ता स्पर्शना न लोकासंख्येयभागमात्रा । एवमानतादिदेवानां स्वस्थानोत्पत्तिस्थानयोः प्रत्येकं तिर्यक्प्रतराऽसंख्येय भागमात्रगतत्वेऽपि गमनागमनक्षेत्रस्य तिर्यग्वृत्तविस्तृतरज्जुप्रमाणत्वात् स्पर्शना न लोकसंख्येय भागमात्रा, किन्तु षड् रज्जनः प्राप्यते ।
न च प्रथमपृथिवीनैरयिकाणां पारभविकोत्पत्तिस्थानानि तिर्यक्प्रतरस्यासंख्येपबहु भागेषु वर्तन्ते, तत्कथमेतेषां मारणसमुद्घातेनापि लोकासंख्येयभागमात्रा स्पर्शनोच्यत इत्याऽऽशक्यम् । यतो यथा तिर्यक्प्रतरासंख्येयभागादौ स्वस्थानादीनामवगाढतया तदनुसारेण स्पर्शनालाभस्तथैवोर्ध्वाधोवर्तिनां तेषां स्वस्थानपारभविकोत्पत्तिस्थानानां यद् रज्ज्वसंख्येयभागादिप्रमाणमन्तरं तदप्यूर्ध्वाधः स्पर्शनायामपेक्ष्यत एव; अतो यत्रोर्ध्वाधः प्रतरवर्तिनां स्वस्थान - पारभविकोत्पत्तिस्थानानामन्तरं रज्ज्वसंख्येयभागमात्रं तत्र तेषां स्थानानां तिर्यक्प्रतरबहुभागव्यापित्वेऽपि स्पर्शना लोकाऽसंख्येयभागमात्रै लभ्यते । यत्र तु तदूर्ध्वाधः प्रतरगत स्वस्थानादीनामन्तरं रज्जुद्विरज्ज्यादिप्रमाणं तत्र तु तेषां स्थानानां तिर्यक्प्रतरबहुभागगतत्वे साऽप्येकद्वयादिरज्जुप्रमाणा प्राप्यते । तथा च सति प्रथमपृथिवीनारकाणां पारभविकोत्पत्तिस्थानानां तिर्यग्लोकगत तिर्यक्प्रतरबहु भागव्यापित्वेऽप्यूर्ध्वाधोवर्तिनां तेषां स्वस्थान -पारभविकोत्पत्तिस्थानानामन्तरालस्य रज्ज्वसंख्येयभागमात्रतया स्पर्शनाऽपि लोकासंख्येयभागमात्रोच्यत इत्यलं विस्तरेण । इदं हि तत्तन्मार्गणानामुत्कृष्टस्पर्शनोपपत्ती दिङ्मात्रम् अनया दिशा शेषमार्गणास्थानेषु तु स्पर्शना स्वयमेवोद्या ।
1
अथ प्रस्तुतेऽस्याऽनन्तरोक्तस्य घटना प्रदर्श्यते - आयुर्वर्जानां सप्तप्रकृतीनामुत्कृष्टस्थितिबन्धस्वामिनः संशिपञ्चेन्द्रियपर्याप्तजीवा यद्यपि लोकस्यासंख्येयभाग एव वर्तन्ते, तथापि तेषु ये भवनपत्यादीशानान्ता देवास्तैर्मारणसमुद्घातेनेवत्प्राग्भारापृथिवीं प्राप्तैरूर्ध्वलोकसत्काः सप्त रज्जयः स्पृश्यन्ते । न च तदानीं मारणसमुद्घातगतानां तेषामुत्कृष्टस्थितिबन्धस्यासम्भवः । यत ते मारणसमुद्घातगता देवास्तदानीमेकेन्द्रियत्वाभिमुखाः सन्ति, एकेन्द्रियत्वं च तेषां पारभविकं सर्वनिकृष्टमुत्पत्तिप्रायोग्यं स्थानम्, तथा च सति तदानीं तेषां स्वप्रायोग्यसर्वनिकृष्टोत्पत्तिस्थानाभिमुखतयोत्कृष्टस्थितिबन्धोऽविरुद्धः । कुतः ? उच्यते, ये हि स्वप्रायोग्य सर्वनिकृष्टोत्पत्तिस्थानाभिमुखा न सन्ति तेषां मारणसमुद्घातादिगतानामुत्कृष्ट स्थितिबन्धप्रायोग्यसंक्लेशस्यानुत्पत्तेः सप्तानामुत्कृष्टस्थितिबन्धो न भवति, स्वप्रायोग्य सर्वापकृष्टोत्पत्तिस्थानाभिखानां तु तदानीमुत्कृष्टस्थितिबन्धप्रायोग्य संक्लेशस्य सम्भवादुत्कृष्टस्थितिबन्धस्यापि सम्भव एव । इत्थं हि भवनपत्यादि - देवापेक्षयोर्ध्वलोकसम्बन्धिनी सप्तरज्जुस्पर्शनोपपन्ना । शेषा तिर्यग्लोकादारभ्याधोलोकसत्का षडज्जुस्पर्शना त्वनया नीत्यैव मारणान्तिकसमुद्घातेन सप्तमपृथिवीं यावनिक्षिप्तात्मप्रदेशदण्डैस्तिकृता दृष्टव्या । एताथ रज्जवः समस्ताः सत्यस्त्रयोदश भवन्ति, ता एवाधिकृत्य प्रकृत ओघत उत्कृष्टस्थितिबन्धकैस्त्रयोदश भागाः स्पृष्टा इत्युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org