________________
मार्गणासु स्पर्शनोपपत्तिमार्गः ]
द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३१३
'इसाणम्मि दिवड्ढा अड्ढाइजा य रज्जु माहिंदे | पंचेव सहस्सारे छ अच्चुए सत्त लोगंते ॥१९१॥' इत्यनेनाऽन्यथाऽपि रज्जुव्यवस्थादर्शनात् । न च तत्र पाठभ्रमः, तद्वृत्तौ तथैवाभिहितत्वात् । बृहत्संग्रहणीवृत्तौ मलयगिरिरिपादैरपि—
'सोहन्मि दिवड्ढा अड्ढाइज्जा य रज्जु माहिदे | पंचेव सहस्सारे छ अच्युए सत्त लोगंते ॥' इत्यनेन तिर्यग्लोकाद् यावत् सोधर्मेशान देवलोक तावत्सार्धरज्जुप्रमाणम्, यावत्सनत्कुमारमाहेन्द्रकल्पौ तावत् सार्धरज्जुद्वयम् यावच्च सहस्रारकल्पस्तावत्पञ्च रज्जवः, यावच्चाच्युतकल्पस्तावत् षड्रज्जवो लोकान्तं यावत्सप्त रज्जवश्व क्षेत्रमभिहितम् । एतदनुसारेण तु सुसङ्गतमेवेदम् । लोकनालिकास्तवाभिप्रायेण त्वन्यथा स्वयमेवोह्यमिति ।
9
आनतादीनां चतुर्णां कल्पानां देवास्त्ववस्तिर्यग्लोकं यावद्गच्छन्ति, न पुनर्नरकपृथिवीष्वपि । तथा च सति तेषां प्रत्येकं पड़ज्जव एव स्पर्शना भवति । 'गमणागमणं णत्थि अच्युअपरओ सुराणं पि' इत्यादिवचनेनोपरितनानां ग्रैवेयकादिदेवानां तु गमनागमनाभावात् लोकासंख्येयभागमात्रै स्पर्शना लभ्यते । ननु ग्रैवेयकादिदेवानां गमनागमनाभावेऽपि नारकाणामिव मारणसमुद्घातेन स्वोत्पत्तिस्थानं तिर्यग्लोकं यावत्स्पर्शना युज्यते, तत्कथं लोकासंख्येयभागमात्रा स्पर्शना कथ्यते ? इति चेद्, उच्यते, ग्रैवेकदेवानामूर्ध्वलोके तिर्यगेकरज्जुवृत्तविस्तृतप्रतराणामसंख्येयभागमात्रे देशे स्वस्थानानि सन्ति । न केवलं स्वस्थानानि, किं तर्हि ? गमनागमनविरहितानां तेषामवस्थानमपि तत्र त्रसनाडीगतवृत्तविस्तृततिर्यक्प्रतरासंख्येयतमे भाग एव । अन्यच्च तेषां पारभविकोत्पत्तिस्थानान्यपि मनुष्यलोके एव, स च मनुष्यलोकोऽपि तिर्यग्लोकवर्तितिर्यक्प्रतराऽसंख्येयभागमात्रावगाढः । तथा च सति ग्रैवेयकविमानेभ्यो मनुष्यलोकपर्यन्तानां समुद्घातगत देवात्मप्रदेशदण्डानामूर्ध्वाधः सप्तरज्जुप्रमाणदीर्घत्वेऽपि तिर्यक्क्षेत्रस्य स्वल्पतयैते आत्मप्रदेशदण्डाः समस्ता अपि सन्तस्तिर्यगेकरज्जुवृत्त विस्तृतप्रतरासंख्येयभागमात्रमवगाहन्ते । इत्थं चोर्ध्वाधः सप्तरज्जूच्चाऽपि ग्रैवेयकदेवानां स्पर्शना तिर्यगेकरज्जोरसंख्येयभागमात्रेति कृत्वा लोकस्यासंख्येयभागमात्रैव भवति ।
इदमत्र हृदयम् - येषां स्वस्थान- गमनागमनस्थान- पारभविकोत्पत्तिस्थानरूपाणि त्रिवि - धान्यपि स्थानानि प्रत्येकं त्रसनाडीगत तिर्यग्वृत्तविस्तृतप्रतराऽसंख्येय भाग मात्र मवगाहन्ते तेषामूर्ध्वाधःक्षेत्र योरन्तरालस्य बाहुल्येऽपि तिर्यक्क्षेत्रस्य स्वल्पतया मारणान्तिकसमुद्घातमपेक्ष्यापि लोकासङ्घयभागमात्रस्पर्शना सम्पद्यते । येषां पुनस्तेभ्यस्त्रिविधस्थानेभ्य एकविधान्यपि स्थानानि तिर्यक्प्रतराऽसंख्येयभागमात्रावगाढानि न सन्ति, किन्तु ततोऽधिकाधिकतरादिभागगतानि सन्ति, तेषां तूर्ध्वाध:क्षेत्रान्तरस्य बाहुल्ये स्पर्शनाऽपि तदनुसारेणा धिकाधिकतराद्या लभ्यते । अत एव द्वितीयादिनरकभेदेषु स्पर्शना न लोकासंख्येयभागमात्रा, एवमानता दिदेवानामपि । तथाहि1 है - स्वस्थान- गमनाssगमनस्थानान्यपेक्ष्य तिर्यक्प्रतरासंख्येय भागमात्रावस्थायिनामपि द्वितीयादि पृथिवीनैरयिकाणां ततश्च्युत्वा तिर्यग्लोके स्वयम्भूरमणसमुद्रजगत्यादिदेशान् विहाय तिर्यक्प्रतरस्य बहुभागेषूत्पादे -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org