________________
३१२ ]
विहाणो मूलपडिटिबंधो [ तत्तन्मार्गणासु स्पर्शनोपपत्तिमार्गः त्वात् षष्ठादिपञ्चनरकमार्गणाभेदेषु जीवानां यथोत्तरमेकरज्जुवृत्तविस्तृता पञ्च चतुस्त्रि-द्वये करज्जुप्रमाणा स्पर्शना प्राप्यते । प्रथमनरकस्य सप्तमरज्ज्वोरुपरितनभागवर्तित्वात् तिर्यग्लोकस्याष्टमरज्ज्वोः प्रारम्भभागवर्तित्वाच्च तयोरन्तरं नैकरज्जुप्रमाणमपि, किन्त्वेकस्या रज्ज्योरसंख्येयतम भागमात्रम् ।
मनुष्याणां पञ्चेन्द्रियतिरश्चां च स्वस्थानक्षेत्रं यद्यपि लोकासंख्येयभागमात्रं तथापि तेषां सूक्ष्मैकेन्द्रियतयाऽप्युत्पत्तेः स्वस्थानक्षेत्रं पारभविकोत्पत्तिक्षेत्रं च समुदितं सत् सर्वलोकस्पर्शना भवति, अतीतकाले मारणसमुद्घातादिना पारभविकोत्पत्तिस्थानानि प्राप्तैर्मनुष्यैः पञ्चेन्द्रियतिर्यग्मिश्च प्रत्येकं समग्रलोकस्य स्पृष्टत्वात् । तिर्यक्सामान्यैस्तु स्वस्थानतोऽपि सर्वलोकः स्पृष्टोऽस्तीति सुप्रतीतमेव ।
देवानां स्पर्शनाविषये तु बहवो विकल्पाः सन्ति । तद्यथा - ईशानान्तदेवभेदेषु नव रज्जव: स्पर्शना । कुतः ? उच्यते, भवनपत्यादिसहस्रारकल्पान्तानां देवानां तथास्वभावतोऽधोलोके पृथिवीकायादितयोत्पादाभावेऽपि नरकगतानां पूर्वभवस्वजनानां स्नेहवशात्तृतीयां पथिवीं यावद् गमनागमने स्तः । उक्तञ्च पञ्चसंग्रहे
'सहसारंतियदेवा नारयनेहेण जंति तइयभुवं' इति ।
तथा च सति तेषां तिर्यग्लोकादधो रज्जुद्वयं स्पर्शना भवति, ऊर्ध्वं त्वपत्प्राग्भारापृथिव्यां पृथिवीकायतयोत्पद्यमानान् पूर्वोत्पन्नांश्चेशानकल्पान्तदेवान् समाश्रित्य पूर्ववत् सप्तरञ्जयः स्पर्शना सम्पद्यते । 'तत्थ वि सणकुमारं पभिइ एगिंदियेसु नो जंति' इत्यादिवचनेन सनत्कुमारादिसहस्रार - कल्पान्तानां देवानां त्वेकेन्द्रियतयोत्पत्तिरेव प्रतिषिद्धा, अतस्तेषामूर्ध्वमीपत्प्राग्भारापृथिव्यामुत्पादाभावेन तिर्यग्लोकादूर्ध्वं सप्तरज्जुस्पर्शना न लभ्यते, किन्तु स्वशक्त्या गन्तुमसमर्था अप्यधस्तनदेवा अच्युतकल्पसुरैः स्नेहादिनोर्ध्वं स्वस्थानेषु नीयन्ते । उक्तं च पञ्चसङ्गहे - “निज्जंति अच्चुयं जा अच्चुयदेवेण इयरसुरा ||३१||" इति । तथा च नीयमानैः पूर्वनीतैश्च सनत्कुमारादिकल्पानां प्रत्येकमनन्तैः सुरैरच्युतकल्पान्तं तिर्यगेकरज्जुवृत्तविस्तृतं सर्वं क्षेत्रं स्पृष्टं भवति, अतस्तेषां प्रत्येकं तिर्यग्लोकादूर्ध्वं षड्ज्जुस्पर्शनालाभात् समस्ता स्पर्शनाऽष्टरज्जुप्रमाणा जायते ।
ननु सनत्कुमारादिदेवा अपि प्रत्येकमसंख्येया एव श्रूयन्ते तत्कथं प्रत्येकमनन्तैर्देवैरच्युतकल्पान्तमेकरज्जुवृत्तविस्तृतं सर्वक्षेत्रं स्पृष्टं भवतीति कथ्यते ? भण्यतेऽत्रोत्तरम् - न केवलं वर्तमानाकालापेक्षयैतत्कथनम्, कित्वनन्तमतीतकालमपेक्ष्याऽपि, स्पर्शनाया नानासमयविषयत्वेनाdinate विनष्टानामपि देवानां तदन्तर्गतत्वादित्यादिप्रागभिहितमेव । अनयाऽपेक्षया यदि सूक्ष्मसम्परायादि मार्गणाविशेषेषु गतकालमधिकृत्यानन्तानां जीवानां समावेशो भवति, तदा सनत्कुमारादिमार्गणा तु का वार्ता । तदेवं नानासमयानाश्रित्य नास्ति कश्विदोषः ।
न च "पणऽच्युए” इति लोकनालिस्तववचनात् तिर्यग्लोकादूर्ध्वमच्युतकल्पं यावत् पञ्च रज्जव एव क्षेत्रं भवति, तथा च सति सनत्कुमारादिकल्पवासिनां समस्ताऽपि सप्त रज्जव एव स्पर्शना भवेदतोऽसङ्गतमेतदिति वाच्यम् । जीवसमासे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org