________________
तत्तन्मार्गणासु स्पर्शनोपपत्तिमार्गः ] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ३११
पारभविकोत्पत्तिक्षेत्र-तदन्तरालवर्तिक्षेत्र - गमनागमनादिक्षेत्राणि समुदितानि यावन्ति जायन्ते तात्रप्रमाणा तस्य जीवराशेः स्पर्शना भवति ।
ननु स्वस्थानक्षेत्र - पारभविकोत्पत्तिक्षेत्रयोरन्तरालवर्तिक्षेत्रमपि कथं गृह्यते ? इति चेत्, कालस्यानन्त्येन भिन्नभिन्नकालेषु मारणान्तिकसमुद्घातादिगतैर्नानाजीचैस्तस्य सर्वस्याप्यन्तरालस्य स्पृष्टत्वात् । किमुक्तं भवति - स्वस्थानादितः स्वप्राग्योच्यत्तिस्थानेषु गच्छतां जीवानामृजुत्रक्रगतिभ्यां यावद्विकल्पैर्गन्तु ं शक्यते, तत्सर्वविकल्पगतं क्षेत्रं कालस्यानन्त्यात् मारणसमुद्घातगतैर्नानाजीवैर्नियमतः स्पृष्टमस्ति । कुतः ? मारणान्तिकसमुद्घातेऽप्युत्पत्तिस्थानं स्पृशद्भिजवैः स्वस्थानादुत्पत्तिस्थानं यावत् स्वशरीरप्रमाणविष्कम्भवाहल्यस्य स्वात्मप्रदेशदण्डस्य प्रसारणात् । यदुक्तं लोकप्रकाशतृतीयसर्गे
अन्तर्मुहूर्तशेषायुर्मरणान्तकरालितः । मुखादिरन्त्राण्यापूर्य शरीरी स्वप्रदेशकैः ||२४|| स्वाङ्गविष्कम्मबाहुल्यं, स्त्रशरीरातिरेकतः । जघन्यतोऽङ गुलासंख्येयांशमुत्कर्षतः पुनः ||२५|| असंख्येययोजनान्येकदिर पुत्पत्तिस्थलावधि । आयमतोऽभिव्याप्यान्तमुहूर्तान्प्रियते ततः ||२६|| इत्यादि । इत्थं हि स्तोकजीवराशिसत्काऽपि सा क्षेत्रापेक्षयाऽधिका लभ्यते । तथाहि सप्तमपृथिव्याः प्रारम्योपर्युपरि यथोत्तरं षष्ठादिपृथिवीषु नारकाः क्रमेणाधिकाऽधिकतराअधिकतमाः सन्ति । उक्तं च महादण्डके - 'आणतकप्पे देवा संखेज्जगुणा, अहे सत्तमाए पुढबीए नेरइया असंखेज्जगुणा, छट्टाए तमाए पुढबीए नेरइया असंखेज्जगुणा' इत्यादि । स्पर्शना पुनस्तेषां विपरिता प्राप्यते । कुतः ? उच्यते, नारकाणां पर्याप्तपञ्चेन्द्रियतिर्यक्तया पर्याप्तमनुष्यतया वा उत्पादात् पारभविकोत्पत्तिस्थानानि निर्यग्लोक एव विद्यन्ते । तिर्यग् लोकच सप्तमपृथिवीनारकागां दुरतरोऽतस्तयोरन्तरालसहितं स्वस्थानपारभविकोत्पत्तिस्थानक्षेत्रमप्यधिकम् तथा च स्पर्शनाऽपि शेषपटादिनरकमार्गणास्थानापेक्षया सप्तमनरकमार्गणास्थानेऽधिका भवति । पष्टादिपृथिवीनां तु क्रमेण तिर्यग्लोकस्यान्तिकान्तिकतरत्वादन्तिकतमत्वादितोस्तत्र पुनः स्पर्शनाऽल्पल्पतराद्या भवति ।
तथाहि - 'सर्वास्त लोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एकारज्जुरियं भवेत् ||१९|| प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु तलेषु रज्जुरेकैका, स्युरेवं सप्तरज्जवः ॥१०॥' इत्यादिवचनाल्लोकसर्वाधस्तनभागादारभ्योर्ध्वं यत्र प्रथमा रज्जुः समाप्यते, तत्र सप्तमपृथिवीनारकाणां स्वस्थानानि सन्ति, तिर्यग्लोकस्तु लोकाधस्तनभागादारभ्य यत्राष्टमी रज्जुः प्रारभ्यतेतत्र विद्यते । तथाच सति तयोरन्तराले पड्रज्जवः क्षेत्रम्, तच्चैकरज्जुप्रमाणतिर्यग्वृत्तविस्तृतं षड्ज्जुप्रमाणोच्चं सर्वक्षेत्रं सप्तमनरकतस्तिर्यग्लोके दिशायां विदिशायां वा चक्रगत्यादिनोत्पद्यमानैः पूर्वोत्पन्नैश्च जीर्वैर्नैरन्तर्येण स्पृष्टमस्ति, तथैव मारणसमुद्घातगतैस्तत्र त्यैर्नारिकैरपि स्पृष्टमस्ति । इत्थं हि सप्तमनरकमार्गणायां स्पर्शना षड्ज्जुप्रमाणा । तथैवोपरितनैः पष्ठादिपृथिवीसत्कवर्तमानातीतनैरयिकैरपि मारणान्तिकसमुद्घातादितः स्वस्थानतिर्यग्लोकयोरन्तरालस्य नैरन्तर्येण
स्पष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org