________________
॥ अथैकादशं स्पर्शनाद्वारम् ॥ अथाऽऽयातं क्रमप्राप्तं "फोसणा" इत्यनेनोद्दिष्टमेकादशं स्पर्शनाद्वारम् । तत्र प्रागुक्तस्वरूपां क्षेत्रद्वारोक्तक्षेत्रापेक्षया विलक्षणां स्पर्शनां व्याचिकीर्षुरादौ तावदुत्कृष्टानुत्कृष्टस्थितिबन्धविषयां तामोघत आह
फुसिआ तेरह भागा सत्तण्हं बंधगेहि जेट्टाए। परिफासिअं ठिईए ऽणुकोसाए जगं सव्वं ॥३४६॥ फुसणाअ वुच्चिरे इह जे भागा भाजिआअ चउदसहिं ।
तसनाडीअ लहिजउ जं तावइअप्पमाणा ते ॥३४७॥ (प्रे०) "फुसिआ तेरहभागा" इत्यादि, आयुर्वर्जानां सप्तानां प्रकृतीनां 'ज्येष्ठायाः'उत्कृष्टायाः स्थितेर्बन्धकैस्त्रयोदशभागाः स्पृष्टाः । तासामेव सप्तप्रकृतीनामनुत्कृष्टायाः स्थितेः सर्वजगत् परिस्पृष्टम् , बन्धकैरित्यनुवर्तते । एवमुत्तरत्रापि बन्धकैरित्यस्यानुवृत्तिद्रष्टव्या । नन्वेते त्रयोदश भागाः प्रत्येकं कियन्माना इत्याशङ्कायां भणित-वक्ष्यमाणभागानां परिमाणं व्यवस्थापयन्नाह"फुसणाअ बुच्चिरे” इत्यादि, 'इह'-प्रकृतग्रन्थे "फुसणाअ" त्ति 'स्पर्शनायां'--स्पर्शनाद्वारे ये भागाः “वुचिरे" त्ति 'वर्तमानसामीप्ये वर्तमानवद्वा' ( पा० ३-३-१३१ ) इत्यनेन वर्तमानम्य समीपे भृते भविष्यति च वर्तमानप्रत्ययः । ततोऽनन्तरोतास्त्रयोदशभागावक्ष्यमाणाः षडादिभागाश्चेत्येवं समस्तस्पर्शनाद्वारे ये भागा उच्यन्ते ते सर्वेऽपीत्यर्थः । ते च प्रत्येकं “भाजिआअ चउदसहिं तसनाडोअ" ति चतुर्दशरज्जूच्चैकरज्जुवृत्तविस्तृतायां वसनाडयां चतुर्दशसंख्याभिर्भाजितायां सत्यां “लहिजउ जं" ति 'यद्'-यावद् भागफलं लभ्येत, “तावइअप्पमाणा" त्ति तावत्प्रमाणास्ते त्रयोदशादिभागा ज्ञया इति गाथाद्वयसंक्षेपार्थः ।
विस्तरार्थस्त्वयम्-भङ्गविचयादीनि नानाजीवान् समाश्रित्योच्यन्ते, तत्र क्षेत्रमेकसमयमाश्रित्य स्पर्शना तु नानासमयानाश्रित प्ररूप्यन्त इत्येतत् प्राक क्षेत्रद्वारप्रारम्भ एवाभिहितम् । तथा च सति नानाजीनानासमयानाश्रित्य यावत् क्षेत्रं स्पृश्यते तावत्क्षेत्रं प्रस्तुतस्पशेनाद्वारप्ररूपणाविषयं भवतीति संस्थितम् । इत्थं हि प्रकृत ओघचिन्तायामादेशचिन्तायां च स्पर्शना क्षेत्रप्ररूपणावत् न जीवपरिमाण सव्यपेक्षा । कुतः ? स्पर्शनाया नानासमयसापेक्षतया पर्याप्तमनुष्यगत्यादिसंख्येयजीवराशिकादिमार्गणास्थानेषु वर्तमानसंख्येयादिजीवैरिव भूतकालेऽतिगतैरनन्तैः पर्याप्तमनुष्यादिभिरवगाढक्षेत्रस्याऽपि स्पर्शनाप्रकपणाविषयत्वात् । इत्थं हि स्पर्शनानानात्वं न परिमाणाधीनम् । कस्यावीनं तर्हि ? इति चेद् , उच्यते, तत्तजीवराशीनां पारभविकोत्पत्तिस्थान-स्वस्थानक्षेत्रयोस्तयोरन्तरालक्षेत्रस्य गमनागमनक्षेत्रस्य चाधीनम् , यतो यस्य हि जीवराशेः स्वस्थान
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org