________________
३३४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽजघन्यस्थिति० होज्ज छिविआ छ भागा आणतपहुडिचउदेव-सुइलासु।
देसूणजगं सब्वेसु बायरेगिंदिवाऊसु॥३७७॥ ... (प्रे०) “होज्ज छिविआ” इत्यादि, आनतकल्पप्रभृतिष्वच्युतकल्पान्तेषु चतुर्यु देवगतिमार्गणाभेदेषु शुक्ललेश्यामार्गणाभेदे चाऽऽयुषो जघन्यस्थितेर्बन्धकैस्त्रसनाडीसत्काः ‘षड् भागाः'षड़ रज्जवः स्पृष्टा भवन्तीत्यर्थः । इयं हि स्पर्शना तेषां देवानां गमनागमनक्षेत्रप्राधान्याद्विज्ञेयेति। "देसूणजगमि' ति तत्र “सव्वेसु” त्ति ओघ-पर्याप्ता-ऽपर्याप्तभेदेभिन्नेषु सर्वेषु बादरैकेन्द्रियभेदेषु सर्वेषु बादरवायुकायभेदेषु चेत्येतेषु पषु माणिाभेदेषु प्रस्तुतबन्धकैर्देशोनं जगत् स्पृष्टमित्यर्थः । असावपि स्पर्शना तत्तन्मार्गणागतानां पर्याप्तवादरवायुकायानामपर्याप्तवादरवायुकायानां वा स्वस्थानक्षेत्रप्राधान्यादवसातव्या । इति ॥३७७॥ शेष मार्गणासु प्रस्तुतस्पर्शनामाह
सेसासु जहण्णाए जगस्स होज्ज छिहिओ असंखंसो। (प्रे०) “सेसासु"त्ति अनन्तरमेव गाथाचतुष्के "तिरिये एगिदिये पणकार्य"त्यादिनाभिहिता अशीतिमार्गणाः संत्यज्य शेषास नरकगत्योधादिव्यशीतिमार्गणास प्रत्येकं "जहण्णाए" त्ति आयुषो जघन्यायाः स्थितेः, बन्धकैरितिशेषः । तैः किमित्याह-"जगस्स" इत्यादि, 'जगतः'लोकस्याऽसंख्यांशः'-असंख्याततमैकभागः स्पष्टो भवति । ताश्च शेषमार्गणा इमा:-अष्टौ नरकभेदाः, चत्वारस्तिर्यक्पञ्चेन्द्रियभेदाः, चत्वारो मनुष्यगतिमार्गणाभेदा, नव वेयकदेवभेदाः, पञ्चानुत्तरविमानभेदाः, नव विकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः, ओघ-पर्याप्ताऽपयाप्तभेदभिन्नास्त्रयो बादरपथिवीकायमेदास्तथैव त्रयो बादराप्कायभेदास्त्रयस्तेजस्कायभेदास्त्रयः प्रत्येकवनस्पतिकायभेदास्त्रयो बादरसाधारणवनस्पतिकायभेदास्त्रयस्त्रसकायभेदास्तथा पञ्च मनोयोगभेदाः पञ्च वचोयोगभेदाः, आहारका-ऽऽहारकमिश्रकाययोगभेदौ, स्त्रीवेद-पुवेद-मनःपर्यवज्ञान-विभङ्गज्ञान-संयमोघसामायिक-छेदोपस्थापन-परिहारविशुद्धिक-देशसंयम-चक्षुदर्शन-संज्ञिमार्गणाश्चेति ।
उपपत्तिस्त्वेवम्-आयुर्वन्धस्य मरणसमुद्घातात्प्रागेव भावादायुर्वन्धकानां स्पर्शना स्वस्थानक्षेत्रापेक्षया गमनागमनकृतस्पर्शनापेक्षया वा प्राप्यते, न तु मारणसमुद्घातापेक्षयेति प्राग्दर्शितमेव । अत्र शेषमार्गणास्वन्यतमस्यामपि मार्गणायां स्वस्थानक्षेत्रादधिका नास्ति काचिद् गमनागमनकृता विशिष्टस्पर्शना, अच्युतान्तानां देवानामेव गमनागमनकृतविशिष्टस्पर्शनाया अभिहितत्वात् । ते च प्रकृतशेषनिरयगत्योघाद्यन्यतमस्यामपि मार्गणायां बन्धप्रायोग्यजघन्यस्थितिकायुषः स्वामिनो न सन्ति । तदभावे त्ववशिष्टा स्वस्थानक्षेत्राक्षिप्ला स्पर्शना, सा त्वेतासु प्रत्येक लोकासंख्येयभागमात्रा, अत आयुषो जघन्यस्थितिबन्धकानां स्पर्शनाऽपि तथैवोक्तति ।।
तदेवमायुषो जघन्यस्थितिबन्धविषयाऽपि स्पर्शना सर्वासु मार्गणास्वभिहिता । साम्प्रतमत्रशिष्टामायुषोऽजघन्यस्थितिबन्धविषयां तां व्याजिहीर्षुर्गाथार्थेनातिदिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org