SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ जघन्येतस्थित्योः ] द्वितीयाधिकारे क्षेत्रद्वारम् [ ३०७ स्थितेर्वन्धकक्षेत्रं सर्वलोक लोकसंख्य भागमात्रं वा नैव प्राप्यते, किन्तु सप्तकर्मसत्कजघन्यस्थितिबन्धस्वामिनां पर्याप्तबादरपृथिवीकायिकादीनां मनुष्याणां वा क्षेत्र प्राधान्याल्लोकासंख्येयभागवत इति ।। ३४२-३४३-३४४|| तदेवमभिहितमायुर्वर्जानां सप्तानां मूलप्रकृतीनां जघन्यस्थितेर्बन्धकक्षेत्रमादेशतो मार्गणास्थानेषु । अथैकयार्ययाऽवशिष्टं तासामेवाऽजघन्यस्थितेर्वन्धकक्षेत्रमायुषो जघन्याजघन्य स्थित्योर्वन्धकक्षेत्रं चातिदेशद्वारेणाह - अजहण्णाअ ठिईए सत्तण्ड अगुरुठिइव्व सव्वासु । हस्सियराण ठिईणं आउस्स अगुरुठिइव्व सव्वासुं ॥ ३४५॥ (प्रे० ) " अजहण्णाअ ठिईए" इत्यादि, आयुर्वर्जानां सप्तानामजघन्यायाः स्थितेः प्रकृतत्वात् बन्धकक्षेत्रम् "अगुरुठिइव्व" त्ति 'सत्ता' इति देहलीदीपकन्यायेनापि युज्यते, ततः प्राक् — ‘तिरिये सव्वेगिंदिय- णिगोअ-वण- सेस सुहुमभेएसुं । पुवा इचउसु तेसिं बायर - बायरअपज्जेसुं ॥ पत्तेअत्रणम्मि तहा तदपज्जत्तम्मि कायजोगे य । उरलदुग-कम्मणेसं णपुंसगे चउकसायेसुं । अणाणदुगे अयते अचक्खु - अपसत्थलेस भवियेसं । अभविय मिच्छत्तेसुं असण्णि आहारगियरेसुं ॥ बंधा खलु ठिअ अगुरूअ सव्वलोमि । देसेणूणे लोगे बायरपज्जत्तवामि ॥ लोगासंखियभागे से सासुं बंबगाइत्थि । ||' (गाथा-३३३-३३४-३३५-३३६-३३८) इत्यनेनाभिहितस्य सप्तानामगुरुस्थितिवत्, अनुत्कृष्टायाः स्थितेर्बन्धकक्षेत्रवदित्यर्थः । कासु मार्गणास्त्रित्याह- "सव्वासु" ति निरयगत्योघाद्यनाहारक मार्गणापर्यन्तासु सप्तत्युत्तरशतसंख्याकासु सर्वास्वपि मार्गणास्वित्यर्थः । “हस्सियराण टिई आउस्स" ति आयुपो 'हस्वेतरयोः’-जघन्याऽजघन्यस्थित्योः प्रत्येकम् “अगुरुठिइव्व" त्ति 'आउस्स' इत्यस्यानन्तरोक्तन्यायेनाऽत्रापि योजनादायुषो ऽनुत्कृष्टस्थितिवत् 'एनिंदिय-पुहवाइगचउग-णिगोपसु सव्वमुहुमेसुं । वण- तिरिय-फायुरलदुगणपुमेसुं चउकसायेसुं ॥३३८॥ दुअणाणा-यत-अणयण असुतिलेस भवि - यियर-मिच्छेसुं । अमणाऽणाहारेसु य टिईअ अगुरूअ सव्वजगे ॥ देसूण जगे बायर एनिंदिया सभेस | लोगस्स असंखयमे भागे सेसासु णायव्त्रा ।। ३४०।।' 1 इतिगाथात्रयेण प्रागुक्तानुत्कृष्टस्थितिसत्कवन्धकक्षेत्रवदित्यर्थः । किमिति चेत् ? प्रक्रमाद्बन्धक - क्षेत्रम् | कासु मार्गणास्त्रित्याह - " सव्वासु" ति गतार्थम्, केवलमायुषः प्रकृतत्वादायुर्वन्धप्रायोग्यासु वैक्रियमिश्र - कार्मणकाययोगाऽयगतवेद-सूक्ष्मसम्परायसंयमौ --पशमिकसम्यक्त्व-सम्यग्मिथ्यात्वा-नाहारक मार्गणावर्जासु निरयगत्योघाग्राहारिपर्यन्तासु त्रिषष्टयु तरशतमार्गगास्त्रि- त्यर्थः ॥ ३४५॥ तदेवं दर्शितं शेषं सप्तानामजघन्यस्थितेर्वन्धकक्षेत्रम्, आयुषो जघन्याऽजघन्यस्थित्योर्बन्धकक्षेत्रं च मार्गणास्थानेष्वतिदेशद्वारेण, तस्मिँश्च दर्शिते गतं दशमं क्षेत्रद्वारम् । ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे दशमं क्षेत्रद्वारं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy