________________
३०६ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुर्वर्जानां जघन्यस्थितेः गता जपन्यस्थितेर्बन्धकाः पर्याप्तवादरवायुकायिका असंख्येया लभ्येरन् , तैश्च समुद्घातगतैरितस्ततो निक्षिप्तस्वात्मप्रदेशदण्डैः समग्रोऽपि लोकः पूर्येत ? इति चेद, न, यतः स्थितिबन्धस्य निर्वतकैर्जघन्यतोऽप्यसंख्यलोकाकाशप्रदेशप्रमितैरेव जीवैः समग्रो लोक एकस्मिन् समये पूरयितु पार्यते, न पुनस्तदूनः. एतच्च प्रागेवोक्तं कथं विस्मार्यते । पर्याप्तवादरवायुकायिकास्तु समुद्घातं प्राप्ता अप्राप्ताश्च समुदिता अपि लोकसंख्येयभागगतनभःप्रदेशराशितुल्याः सन्तः समस्तं लोकं नैव व्याव्नुवन्ति, किं पुनः समुद्घातगतास्तदसंख्येयभागमात्रा जघन्यस्थितेर्वन्धकाः, अतः स्वस्थानगतानां जघन्यस्थितिबन्धकानां पर्याप्तवादरवायुकायानां क्षेत्रमपेक्ष्यैकविंशतिमार्गणास्वपि देशोनलोकक्षेत्रं मन्तव्यमित्यलं प्रसङ्गेन ।
अथ प्रकृतं प्रस्तुमः "होअन्ति सव्वलोगे" त्ति प्रकृतायाः सप्तकर्मणां जघन्यस्थितेबन्धकाः सर्वलोके भवन्ति, सर्वलोकन्तेषां क्षेत्रमित्यर्थः । कासु मार्गणास्वित्याह-"अट्ठारहसध्वसुहुमभेएसु” ति ओघ-पर्याशा-ऽपर्याप्तभेदादष्टादशधा भिन्नेष्वेकेन्द्रियपृथिव्यप्तेजोवायुसाधारणवनस्पतिकायसत्केषु सर्वेषु सूक्ष्ममार्गणाभेदेष्वित्यर्थः । कुतः ? स्वस्थानतोऽप्येकेन्द्रियपृथिव्यादि-सर्वसूक्ष्मजीवौधानां सर्वलोकव्यापित्वात् । उक्तश्च पञ्चसंग्रहमलयगिरियवृत्तौ
'सूक्ष्मा एकेन्द्रियाः पथिव्यम्बुतेजोवायुवनस्पतयः प्रत्येकं सर्वेऽपि सर्वस्मिन्नपि जगति भवन्ति' इति ।
अथ शेषमार्गणासु प्रकृतक्षेत्रमाह-"सेसासु" इत्यादिना, उक्तशेपास्वेकत्रिंशदभ्यधिकशतमार्गणासु प्रत्येकम् “असंखयमे भागे लोगस्स णायव्व” त्ति सप्तकर्मणां जघन्यस्थितेर्बन्धका लोकस्यासंख्येयतमैकमागे ज्ञातव्या इत्यर्थः । तत्र शेषमार्गणा नामत इमाः-सवें निरयगतिभेदाः, सर्वे तिर्यक्पञ्चेन्द्रियभेदाः, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रिगमेदाः, पथिव्यप्तेजोवनस्पत्योपभेदास्तथोव-पर्याप्ता-ऽपर्याप्तभेदाभिन्ना बादरपथिव्यप्तेजःप्रत्येकवनस्पतिकाय-वादरसाधारणवनस्पतिकाय-वसकायानां प्रत्येकं त्रयस्त्रयो भेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, काययोगसामान्यौ-दारिककाययोग-बैक्रियकाययोग-क्रियमिश्रकाययोगाऽऽहारसकाययोगा--ऽऽहारकमिश्रकाययोग--स्त्री-पुरुष--नपुंसकवेदा-ऽपगतवेद --क्रोधादिचतुःकषायमत्यादिचतुर्ज्ञान--विभङ्गज्ञान-संयमोघ-सानायिक--छेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसम्पराय-देशसंयम--चक्षरादित्रिदर्शन-तेजः--पम-शक्ल लेश्या-भव्य-सम्यक्त्वाघ-क्षायिक-क्षायोपशमिकी--पशमिकसासादन-मिश्र-संख्या-ऽऽहारिमार्गणाभेदाश्चेति । कुत एतासु सर्वासु प्रकृतवन्धकानां क्षेत्रं लोकासंख्यभागमात्रम् ? उच्यते, निरयगत्यादिषु कासुचिन्मार्गणासु स्वस्थानतः सर्वलोकव्यापिनां सूक्ष्मजीवनिचधानां देशोनलोकव्यापिनां वायुकायजीवानां च प्रवेशाभावेन, शेषप्रविष्टजीवनिचयानां स्वस्थानतः लोकासंख्येयभागमात्रव्यापि चात् सप्तकर्मणां जघन्यस्थितेर्बन्धकानां क्षेत्रमपि लोकासंख्येयभागप्रमाणमेव प्राप्यते, पृथिव्याद्योधमार्गणासु काययोगादिमार्गणासु च सूक्ष्मजीवनिचयानां वायुकायिकजीवानां वा प्रवेशेऽपि तेषां जघन्यस्थितिवन्धस्वामित्वाभावादेव सप्तकर्मसत्कजघन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org