________________
मार्गणास्वायुर्वर्जानां जघन्यस्थितेः ] द्वितीयाधिकारे क्षेत्रद्वारम्
[३०५ समुद्घातप्रयुक्तसर्वलोकव्याप्तिप्राधान्याद् । मारणान्तिकसमुद्घातो हि भवान्तराभिमुखानां जीवानामेव सम्भवति, तथा च सत्यसौ भवचरमान्तमुहूर्ते जायते, इत्थं हि यथा “भवचरमान्तमुहूर्ते मारणान्तिकसमुद्घातगतानामनन्तानां बादरपर्याप्तनिगोदजीवानामुत्कृष्टस्थितिबन्धसम्भवात् सम्पू
लोकप्रमाणं क्षेत्रं लभ्यते तथा जघन्यस्थितिबन्धकानां बादरपर्याप्तनिगोदानां तन्न प्राप्यते । कुतः ? भवचरमान्तमुहूर्ते भवान्तराभिमुखेषु तेषु संख्येयानामेव जघन्यस्थितिवन्धस्य सम्भवात् । कुतः ? इति चेद् , भवचरमान्तमुहूर्तवर्तिमुमृषु जीवेषु स्वप्रायोग्यसनिकृष्टस्थानाभिमुखानामेवोत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशस्येव जघन्यस्थितिबन्धप्रायोग्यविशुद्धरपि स्वप्रायोग्यसर्वोत्कृष्टपारभविकोत्पत्तिस्थानाभिमुखानां स्तोकजीवानामेव सम्भवात् ।
इदमुक्तं भवति-प्रागेकजीवाश्रये कालद्वारे-एगिदियणिगोएसुं तेसिं सुहुमेसु सिं अपज्जेसु'मित्यादि-(१४७)-गाथावृत्तौ सप्तस्वेकेन्द्रियादिमार्गणास्वनुत्कृष्टस्थितेर्जघन्यबन्धकालस्यैकसमयमात्रत्वव्युत्पादनावसरे मुमूर्षु जीवेषु स्वप्रायोग्यसर्वनिकृष्टस्थान उत्पित्सूनां जीवानामेव स्वप्रायोग्यसर्वसंक्लेशस्य सम्भवात्त एव तदानीं सप्तकर्मणामुत्कृष्टस्थितिं निर्वर्तयन्ति, नान्यः इत्येवं रूपं नियमं प्रतिपाद्य तदुपपत्तौ स्वप्रायोग्यसर्वसंक्लेशनिवतेनीयानां गति-जात्यादीनां स्वप्रायोग्यसर्वापकृष्टपारभविकोत्पत्तिस्थानत्वमभिहितम् । तेनैव न्यायेनाऽत्रापि स्वप्रायोग्यसर्वविशुद्धया निवर्तनीयानां गतिजात्यादीनां स्वप्रायोग्यसर्वोत्कृष्टपारभविकोत्पत्तिस्थानरूपता बोद्धव्या, भावनाऽपि तत्रोक्तरीत्यैव कर्तव्या; केवलं तत्रोत्कृष्ट स्थितिबन्धमपेक्ष्य व्युत्पादितम् , अत्र तु जघन्यस्थितिबन्धमपेक्ष्य वैपरित्येन स्वयं व्युत्पादनीयम् । अस्माभिस्तु प्रकृतोपयोग्येवोच्यते, तद्यथा-पर्याप्तवादरनिगोदजीवैः स्वप्रायोग्यसर्वोत्कृष्टविशुद्धौ सत्यां मनुष्यगतिपञ्चेन्द्रियजाति-पर्याप्तनामकर्मादिकं निर्वर्त्यते। वक्ष्यते चोत्तरप्रकृतिस्थितिबन्धसंनिकर्षद्वार एकेन्द्रियादिमागणासु ज्ञानावरणादीनां जघन्यस्थिति बनतो जीवस्य मनुष्यगति-पर्याप्तत्वादिकशभप्रकृतिबन्धनियमः । इत्थं हि तेषां सर्वोत्कृष्टस्थानं पर्याप्तमनुष्यरूपमिति सिद्धम् । पर्याप्तमनुष्या हि लोक उत्कृष्टतोऽपि संख्येया एव लभ्यन्ते,अतः पर्याप्तमनुप्यसत्कायुपो बन्धकानामिव पर्याप्तमनुष्यत्वाभिमुखा मुमूर्षवो जीवा अप्येकस्मिन् समये लोक उत्कृष्टतः संख्येया एव प्राप्यन्ते । तथा च सति पर्याप्तमनुष्यत्वाभिमुखा मारणान्तिकसमुद्घातं प्राप्ता जघन्यस्थितेर्बन्धकाः पर्याप्तवादरनिगोदजीवा अप्येकस्मिन् समय उत्कृष्टतः संख्येया एव लभ्येरन्; तैश्च मारणान्तिकसमुद्घातगतैर्मनुष्यलोकं यावनिक्षिप्तस्वात्मप्रदेशदण्डैरप्यत्यल्पतया समग्रो लोकोऽशितु नैव शक्यते; स्वस्थानक्षेत्रं तु तेषां बादरनिगोदादीनां लोकासंख्येयभागमात्रमुक्तम् , अतस्तदपेक्षयोत्कृष्टतः सर्वलोकक्षेत्रस्यासम्भवाज्जघन्यस्थितिबन्धकानां बादरपर्याप्तवायुकायानां स्वस्थानक्षेत्रमाश्रित्य प्रकृतैकेन्द्रियादिमार्गणासु जघन्यस्थितिवन्धकानां क्षेत्रं देशोनलोक इत्यभिहितम् ।
__ ननूक्तनियमात् पर्याप्तबादरवायुकायानां सर्वोत्कृष्टमुत्पत्तिप्रायोग्यस्थानं तिर्यग्गत्यादिरूपम् , पर्याप्तपञ्चेन्द्रियतिर्यञ्चश्वासंख्येयाः सन्ति, अतस्तत्स्थानाभिमुखाः भवचरमान्तमुहूर्ते समुद्घातं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org