SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३०४ ] बंध विहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां जघन्यस्थिते: लाला न्यायेना' त्रापि सम्बध्यते, ततः शेषस्याऽऽयुःकर्मणो जघन्याऽजघन्यात्मिकयोर्द्विविधस्थित्योः प्रत्येकं सर्वलोके, बन्धका इति गम्यते । स्वस्थानत एव सर्वलोकव्यापिनां सूक्ष्म निगोदपर्यन्तानां जीवराशीनां सप्तकर्मणामजघन्यस्थितिबन्धवदायुषो जघन्याऽजघन्यस्थितिबन्धाऽर्हत्वादिति ||३४१॥ अथाऽऽदेशतोऽभिधित्सरादौ तावदायुर्वर्जानां सप्तानां जघन्यस्थितेर्वन्धकक्षेत्रमाहदेसूणे लोगे लहुठिईअ सत्तण्ह बंधगा तिरिये । एगिंदिय-वाऊसु सिं वायरसव्वभेसु ॥ ३४२ ॥ ओरालमीस-कम्मण-दुअणाणा-यत-तिअमुहलेसासु । अभविय-मिच्छत्तेसु अमणा-माहागेसु च ॥ ३४२ ॥ होअन्ति सव्वलोगे अट्ठारह सव्वसुहुम भए । सेसासु असंखयमे भागे लोगस्स णायव्वा ॥ ३४४॥ (प्रे०) देणे लोगे" इत्यादि, आयुर्वेर्जानां सप्तानां 'लघुस्थिते:' जघन्याः स्थितेर्बन्धका देशोने लोके, भवन्तीति शेषः । कासु मार्गणास्त्रित्याह - " तिरिये " इत्यादि, तिर्यग्गत्योघे, एकेन्द्रियवायुकायौ भेदयोस्तथा “सिं" त्ति तयोरेकेन्द्रियवायुकाययोः "बायरसव्वभेएसु” ति ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु बादरेषु सर्वभेदेषु । बादर केन्द्रियौध-पर्याप्तवाद र केन्द्रिया-पर्यासादर केन्द्रियभेदेषु वादरवायुकायौध-पर्याप्तवादरवायुकाया पर्याप्तवादरवायुकायभेदेषु चेत्यर्थः । अन्यमार्गणाः संगृह्णन्नाह-" ओरालमोसे" त्यादि, औदारिकमिश्र काययोग - कार्मण काययोग-मत्यज्ञान- श्रुताज्ञाना- संयम-कृष्णादिपशुभलेश्यास्वभव्य - मिथ्यात्वयोरसंज्ञय - ऽनाहारिमार्गण पोर वेत्येतास्वेकविंशतिमार्गणासु । एतच्च प्रत्येकं प्रविष्टस्य बादरपर्याप्तत्रायुकाय बादरापर्याप्तत्रायुकायान्यतरजीवनिचयस्प स्वस्थानक्षेत्र प्राधान्याज्ज्ञेयम् । नन्वेकेन्द्रियौघ चादरपर्याप्ताऽपर्या मै केन्द्रियादिमागंणासु संक्लेशविशुद्धिरूपं विशेषं विहाय सूक्ष्मवादरपर्याप्तत्वादिकमपेक्ष्योत्कृष्टस्थितेर्बन्धका जघन्यस्थितेबन्धकाचाविशिष्टा एवाभिहिताः, यदि चैत्रं तथापि सप्तानामुत्कृष्टस्थितेर्वन्धकक्षेत्रवत् सप्तानां जघन्यस्थितेर्बन्धकक्षेत्रं कथं सर्वलोको नाभिधीयते ? इति चेद्, उच्यते, सत्यमेतत्, यदेकेन्द्रियादिकतिपय मार्गणासु संक्लेशविशुद्धिरूपं विशेषमपहाय पर्याप्तत्वादिकमपेक्ष्य जघन्योत्कृष्टस्थितिबन्धस्वामिनामनन्यत्वम्, ततश्चैकेन्द्रियादिमार्गणासु यथा पर्याप्तवादसाधारण वनस्पतिकायिकाः सप्तानामुत्कृष्टस्थितेर्वन्धकाः सन्ति, तथा ते जघन्यस्थितिबन्धस्वामिनोऽपि भवन्ति, तथैव यथा पर्याप्तवादवायुकायिकाः सप्तानामुत्कृष्टस्थितियन्वस्वामिनः सन्ति तथा ते सप्तानां जघन्यस्थितिबन्धस्वामिनोऽपि भवितुमर्हन्ति, यद्यप्येवं तथाऽपि प्राप्तकर्मसत्कोत्कृष्ट स्थितिबन्धकानां क्षेत्रं यत्सर्वलोकमभिहितं तत् पर्याप्तवादरसाधारणवनस्पतिकायिकजीवानां मारण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy