________________
ओघतोऽधानां जघन्येतरस्थित्योः ] द्वितीयाधिकारे क्षेत्रद्वारम्
[ ३०३ (प्रे०) "देसूणजगे” ति असंख्येयतमैकभागलक्षणेन देशेनोने 'जगति'-लोके, आयुषोऽनुत्कृष्टस्थितेर्बन्धका भवन्तीति प्रक्रमाद्गम्यते । कासुमार्गणास्वित्याह-"बायरे"त्यादि, तत्र बादरशब्दस्यकेन्द्रिय-वायोः प्रत्येकं योजनाद् बादरैकेन्द्रिय-बादरवायुकायसत्केष्वोध-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु सर्वभेदेष्वित्यर्थः । कुतः ? एतासु षण्मार्गणासु प्रत्येकं सर्वलोकव्यापिनां सूक्ष्मजीवानामप्रवेशेऽपि स्वस्थानतो देशोनलोकव्यापिनां पर्याप्ताऽपर्याप्तान्यतरबादरवायुकायजीवानां प्रवेशात् . स्वस्थानगतानामायुर्वन्धस्याऽविरुद्धत्वाचेति । “लोगस्स असंखयमे भागे" त्ति आयुषोऽनुत्कृष्टस्थितेर्बन्धका लोकस्याऽसंख्येयतम एकभागे ज्ञातव्या इति परेणान्वयः । कासु मार्गणास्त्रित्याह-"सेसासु" ति 'एगिदियपुहवाइगे'त्यादिनाऽनन्तरमभिहिताः षट्चत्वारिंशन्मागेणास्तथा 'बायरएगिदियवाउसब्बभेएसुमित्यनेनानुपदमेवाभिहिताः पण्मार्गणाश्च संत्यज्य शेपासु निरयगत्योधादिष्वेकादशाभ्यधिकशतमार्गणास्वित्यर्थः । ताश्च शेषमार्गणा नामत इमा:-अष्टौ निरयगतिभेदाः, चत्वारस्तिर्यपञ्चेन्द्रियभेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशद् देवगतिभेदाः, ओघपयोप्ता-ऽपर्याप्तभेदभिन्नास्त्रयो द्वीन्द्रियभेदास्तथैव त्रयस्त्रीन्द्रियभेदास्त्रयश्चतुरिन्द्रियभेदास्त्रयः पञ्चेन्द्रियभेदास्त्रयो बादरपथिवीकायभेदास्त्रयो बादराकायभेदास्त्रयो बादरतेजस्कायभेदास्त्रयः प्रत्येकवनस्पतिकायभेदास्त्रयो बादरसाधारणवनस्पतिकायभेदास्त्रयस्त्रसकायभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, वैक्रियकाययोगा-ऽऽहारका-ऽऽहारकमिश्रकाययोग-स्त्रीवेद-पुरुषवेद-मत्यादिचतुर्ज्ञान--विभङ्गज्ञान-संयमाघ--सामायिक-छेदोपस्थापन--परिहारविशुद्धिक-देशसंयम-चक्षुर्दर्शना-ऽवविदर्शन-तेजः-पद्म-शुक्ललेश्या-सम्यक्त्वौघ-क्षायिक-क्षायोपशमिक-सास्वादन-संज्ञिमार्गणा मेदाश्वेति । कुतो लोकाऽसंख्येयभागमात्रमेव ? इति चेद् , प्रत्येकं स्वस्थानतो लोकासंख्येयभागमात्रव्यापिनां जीवराशीनामेव प्रवेशादिति ॥३४०॥ .
तदेवमभिहितमादेशतोऽपि भूलाष्टकर्मणामुत्कृष्टानुत्कृष्टस्थित्योर्वन्धकक्षेत्रम् । साम्प्रतं तेषांमेवाष्टानां जघन्याजघन्यस्थित्योर्वन्धकक्षेत्रमभिधित्सुरादौ तावदौघत आह
लोगासंखियभागे सत्तण्ह बंधगा लहठिईए। अलहूअ सव्वलोगे आउस्स ठिईण दोण्हं वि ॥३४१॥
(प्रे०) "लोगासंखियभागे" इत्यादि, आयुर्वर्जानां सप्तानां ज्ञानावरणादीनां 'लघुस्थितेः' - जघन्याः स्थितेर्बन्धकाः-स्वामिनः “लोगासंखियभागे" ति लोकस्यासंख्येयतम एकस्मिन् भागे सन्ति, लोकासंख्येयभागमानं तेषां क्षेत्रमिति भावः । कुतः ? अनिवृत्तिबादरक्षपकाणां सूक्ष्मसम्परायक्षपकाणां च तिर्यग्लोकासंख्यभागमात्रव्यापित्वादिति । "अलहूअ" त्ति प्रकृतत्वात्सप्तानामलघोः-पद्म-अजघन्याः स्थितेर्बन्धकाः “सव्वलोगे"त्ति अनूने लोके, सर्वलोकस्तेषां क्षेत्रमित्यर्थः । सुगमं चैतदपि, सूक्ष्मनिगोदपर्यन्तानां जीवानामजघन्यस्थितेनिवर्तकत्वात् , तेषां च सर्वलोकव्यापित्वादिति । “आउस्स ठिईण दोण्हं वि" ति अनन्तरोक्त 'सव्वलोगे" इत्येतत्पदं 'घण्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org