________________
३०२ ]
बंधविहाणो मूलपयडिठिबंधो [ मार्गणास्वायुषोऽनुत्कृष्टस्थितेः असन्तः कुतः सर्वलोकं व्याप्नुयुः ? न कुतश्चिद् , असंख्यलोकप्रदेशराशितः स्तोकजीवानामेकस्मिन् समये सर्वलोकव्याप्तेरदर्शनात् । न च ते लोकबहुभागानपि व्याप्नुवन्ति, असंख्यलोकप्रदेशराश्यपेक्षया स्तोकजीवराशिकेष्वपि पर्याप्तवादरवायुकायानामेव लोकबहुभागव्याप्तेर्दर्शनादिति ।।३३७|| अथाऽऽयुषोऽनुत्कृष्टस्थितेर्वन्धकक्षेत्रमादेशत आह
एगिदिय-पुहवाइ गचउग-णिगोएसु सब्बसुहुमेसु। वण-तिरिय-कायुरलदुग-णपुमेसु चउकसायेसु ॥३३८॥ दुअणाणा-ऽयत-अणयण-असुहतिलेस-भवि-यियर-मिच्छेसु।
अमणे तह आहारे ठिईअ अगुरूअ सबजगे ॥३३९॥ (प्रे०) "एगिदियपुहवाइगे” इत्यादि, एकेन्द्रियोध-पृथिवीकायादिकचतुष्कोष-निगोदौघरूपासु षण्मार्गणासु, तथौघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नासु सूक्ष्मैकेन्द्रिय-सूक्ष्मपृथिव्यप्तेजोवायुसाधारणवनस्पतिकायरूपासु सर्वासु सूक्ष्मजीवमार्गणास, वनस्पतिकायौघ-तिर्यग्गत्योध-काययोगौघौ-दारिकोदारिकमिश्रकाययोगद्वय-नपुसकवेदेषु, चतुर्यु क्रोधादिकपायमार्गणासु तथा "दुअणाणायते" त्यादि, द्वयोमत्यज्ञान-श्रुताज्ञानयोरसंयमा-ऽनयन-कृष्णाद्यशुभत्रिलेश्यामार्गणासु, भव्य-तदितरयोमिथ्यात्वमार्गणायां चेत्यर्थः । तथा "अमणे तह आहारे” ति असंड्या-ऽऽहारिमार्गणयोश्चेत्येतास षट्चत्वारिंशन्मार्गणास प्रत्येकं "ठिईअ अगुरूअ सव्वजगे” त्ति आयुःकर्मणः 'अगुरोः'-अनुत्कृटायाः स्थितेः 'सर्वजगति'-सर्वस्मिँल्लोके, बन्धका इति गम्यते । कुतः ? इति चेत्, प्रत्येकं स्वस्थानतः सर्वलोकव्यापिनां सूक्ष्मैकेन्द्रियादीनां प्रवेशात् । न च वादरैकेन्द्रियादिमार्गणासु सूक्ष्मैकेन्द्रियादीनामप्रवेशेऽप्यनन्तानां बादरसाधारणवनस्पतिकायजीवानां प्रवेशसद्भावेन प्रस्तुतबन्धकानां बाहुल्यात् सप्तकर्मणामनुत्कृष्टस्थितेर्बन्धकक्षेत्रवत् प्रकृतवन्धकक्षेत्रमपि सर्वलोकः प्राप्यतेति वाच्यम् । यतो भवचरमान्तमुहर्ते मारणसमुद्घातप्रयुक्तलोकव्याप्तिमपेक्ष्य हि तालु बादरैकेन्द्रियादिमार्गणास सप्तकर्मणामनुत्कृष्टस्थितेवन्धकक्षेत्रं सर्वलोकः प्राप्यते, तदानीं मारणसमुद्घातकालेऽपि तेषांजीवानां सप्तकर्मसत्कानुत्कृष्टस्थितिबन्धसम्भवात् । न चैतदायुःकर्मण्यपि घटामटाट्यते, तदानीं मारणसमुद्घातकाले आयुर्वन्धस्यैवाभावात् । इदमुक्तं भवति-आयुःकर्मणः स्थितेर्बन्धकक्षेत्रं तबन्धकजीवानां स्वस्थानक्षेत्रमपेक्ष्यैव युज्यते, न पुनरिणसमुद्घातादिप्रयुक्तक्षेत्रमपेक्ष्य, पारभविकायुबन्धं निष्ठाप्य पश्चाद् भवान्तराभिमुखीभूतजीवानामेव मारणसमुद्घातस्य सम्भवात् , तदानीं चायुर्वन्धस्यैवाभावादिति ॥ ३३८-३३९ ।। अथ शेष मार्गणास्वेकयाऽऽर्यया प्रस्तुतक्षेत्रं प्रतिपादयन्नाह
देसूणजगे बायरएगिदियवाउसबभेएसु। लोगस्स असंखयमे भागे सेसासु णायव्वा ॥३४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |