________________
मार्गणास्त्रायुष उत्कृष्टस्थितेः ] द्वितीयाधिकारे क्षेत्रद्वारम्
[ ३०१ नामपि चादरपर्याप्तवायुकायजीवानां स्वस्थानक्षेत्रस्यैव देशोनलोकप्रमाणत्वादिति ॥३३३ तः ३३६॥ ___अथैकयाऽऽर्यया शेषमार्गणासु प्रस्तुतमायुर्वर्जसप्तकर्मणामनुत्कृष्टस्थितेर्बन्धकक्षेत्रं सर्वमार्गणास्वायुष उत्कृष्टस्थितेर्बन्धकक्षेत्रं च प्रदर्शयन्नाह
लोगासंखियभागे सेसासु बंधगाऽत्थि सव्वार।
आउस्स गुरुठिईए लोगस्स असंखभागम्मि ॥३३७॥ (प्रे०) “लोगासंखियभागे'इत्यादि,लोकस्यासंख्येयतमैकभागे “बंधगाऽत्थि" ति प्रकृतत्वात्सप्तकर्मसत्कानुत्कृष्टस्थितेर्बन्धकाः सन्ति । कासु मार्गणास्वित्याह-"सेसासु" ति तिरिये सव्येगिदिये त्यादिगाथात्रयेणाभिहिताश्चतुःपष्टिमार्गगास्तथाऽनन्तरमेवोक्तां बादरपर्याप्तवायुकायमागणां विहाय शेषासु निरयगत्योधादिपञ्चोत्तरशतमार्गणास प्रत्येकमित्यर्थः । ___ताश्च शेषमार्गणा नामत इमा:-अष्ट निरयगतिभेदाः, चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशदेवगतिभेदाः, नव विकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः, बादरपर्याप्तपथिव्यप्तेजः-पर्याप्तप्रत्येकवनस्पतिकायभेदाः त्रयस्त्रसकायभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, क्रिय-वैक्रियमिश्रा-ऽऽहारका-ऽऽहारकमिश्रकाययोगभेदाः, स्त्रीवेद-पुवेदाऽपगतवेद-मति-श्रता-ऽवधि-मनःपर्यवज्ञान-विभङ्गज्ञान-संयमौघ-सामायिक-छेदोपस्थापन-परिहारविशुद्धिक सूक्ष्म सम्पराय-देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन-तेजः-पद्म-शुक्ललेश्या--सम्यक्त्वोध-क्षायिक-क्षायोपशमिको-पशमिक-मिश्र-सासादन-संज्ञिमार्गणाश्चेति । एतास्वन्यतमस्यामपि स्वस्थानेन समुद्धातादितश्चसर्वलोकव्यापिनः सूक्ष्मैकेन्द्रियजीवराशेरनन्तकाथिकजीवराशेर्वादराऽपर्याप्तजीवराशेाऽप्रवेशादधिकृतक्षेत्रमपि सर्वलोकप्रमाणं न प्राप्यते, न वैतास्वन्यतमस्यां बादरपर्याप्तवायुकायजीवानामपि प्रवेशोऽस्ति, येन देशोनलोकमपि प्रस्तुतक्षेत्रं स्यात् । इत्थं हि लोकासंख्येयभागमात्रमेवोक्तम् , उक्तसूक्ष्मैकेन्द्रियाऽनन्तकायिक-वादरपर्याप्ता-ऽपर्याप्तवायुकायजीवराशिवर्जानां शेषाणां सर्वजीवाना. मेकस्मिन् समये स्वस्थानतो मारणसमुद्घातेन वा लोकासंख्यभाग एवावगाहनादिति ।
तदेवं सप्तानामुत्कृष्टानुत्कृष्टस्थित्योर्वन्धकक्षेत्रमभिधायावशेषस्यायुष उत्कृष्टस्थितेर्बन्धकक्षेत्रमार्याशेषेणाह-"सव्वासु"मित्यादि, निरगत्योधादिषु यत्रायुर्वन्धो भवति तासु सर्वमार्गणास्वायुषः "गुरुठिईए" ति उत्कृष्टायाः स्थितेलॊकस्याऽसंख्यभागे, बन्धकाः सन्तीत्यत्रापि युज्यत इत्यक्षरार्थः । भावार्थ पुनरयम्-आयुष उत्कृष्टस्थितेर्बन्धका यास मार्गणास्वसंख्येयाः प्राप्यन्ते तास्वपि ते नाऽसंख्यलोकप्रदेशराशितुल्याः किन्त्वतीव स्तोका एव । कथम् ? उच्यते, चतुर्गतिष्वपि पूर्वकोटयाद्युत्कृष्टस्थितिकजीवानां स्तोकतया यथा पूर्वकोटयाद्युत्कृष्टस्थितिकत्वेनोत्पद्यमाना जीवाः स्तोका एव प्राप्यन्ते, तथा पूर्वकोटयाद्युत्कृष्टस्थितिकत्वेनोत्पित्सवो जीवाः पूर्वकोट्याद्युत्कृष्टस्थितिकायुषो बन्धकजीवाश्च स्तोका एव प्राप्यन्ते । ते च पूर्वकोटयादिस्थितिकजीवराश्यपेक्षयाऽधिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org