________________
३०० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानामनुत्कृष्टस्थितेः तिरिये सव्वेगिंदि-णिगोअ-वण-सेससुहमभेएस् । पुहवाइचउसु तेसिं वायर-बायरअपज्जेसु ॥३३३॥ पत्तेअवणम्मि तहा तदपजत्तम्मि कायजोगे य। उरलदुग-कम्मणेसुणपुंसगे चउकसायेसु॥३३४॥ अण्णाणदुगे अयते अचक्खु-अपसत्थलेस-भवियेसु। अभविय-मिच्छत्ते सुअसण्णि-आहारगियरेसु॥३३५॥ होअन्ति बन्धगा खलु ठिईअ अगुरूअ सबलोगम्मि।
देसेणणे लोगे बायरपजत्तवाउम्मि ॥३३६॥ (प्रे०) "तिरिये सव्वेगिंदिये" त्यदि, तिर्यग्गत्योघे, सर्वशब्दस्यकेन्द्रिय-निगोदयोः प्रत्येकं योजनात सर्वेष्वेकेन्द्रियभेदेषु सर्वेषु निगोदभेदेष्वित्यर्थः । तथा वनस्पतिकायोघे "सेससुहुमभेएसु” ति 'सव्वेगिदियणिगोत्र' इत्यनेन गृहीतान् पट सूक्ष्मैकेन्द्रियादिभेदान् विवर्य शेषेषु पृथिव्यप्तेजोवायुकायसत्केषु सूक्ष्मोघ-सूक्ष्मपर्याप्त-सूक्ष्मापर्याप्तभेदभिन्नेषु द्वादशसु सूक्ष्मपृथिवीकायादिभेदेषु, तथा “पुहवाइचउसु"त्ति पृथिव्यादिषु वास्वन्तेषु चतुष्योंघभेदेषु, तथा "तेसिं" ति तेषां पथिव्यादिचतुणों "बायरबायरापजेस" ति चतुर्ष बादरोधभेदेषु, चतुर्ष बादरापर्याप्तभेदेषु चेत्यर्थः । अन्यमार्गगाः संग्रहीतुमार्याद्वयमाह-"पत्तेअवणम्मि" इत्यादि, प्रत्येकवनस्पतिकायोघे तथा “तदपज्जत्तम्मि" ति तस्य प्रत्येकवनस्पतिकायस्या-ऽपर्याप्ते, अपर्याप्तप्रत्येकवनस्पतिकायभेद इत्यर्थः । काययोग पामान्ये । चः समुच्चये । “उरलदुगे" त्यादि, औदारिकौ-दारिकमिश्रकाययोगमार्गणा इयरूप औदारिकद्रिके कार्मणकाययोगे, नपुसकवेदे, क्रोधादिचतुःकरायेषु, मत्यज्ञान-श्रताज्ञान यरूपेऽज्ञानद्रिके, असंयमे, अचक्षुर्दर्शना-ऽप्रशस्तकृष्णादित्रिलेश्या-भव्यमार्गणास, तथाऽभव्य-मिथ्यात्वयोरसंख्या-ऽऽहारिमार्गणयोः, इतरपदेनाऽनाहारकमार्गणायामित्येतास चतु:पष्टिमार्गणास प्रत्येकमित्यर्थः । एतासु प्रत्येक किमित्याह-"होअन्ति बन्धगा खलु” इत्यादि, प्रकृतत्वादायुवेर्जानां सप्तानां मूलकर्मणां "ठिईअ अगुरूअ" ति 'अगुरोः'-अनुत्कृष्टायाः स्थितेर्वन्धकाः खलु “सव्वलोगम्मि” त्ति सर्वलोके भवन्ति, एतेषामनुत्कृष्टस्थितेर्बन्धकानां क्षेत्रं सर्वलोक इति भावः । कुतः ? कासचित् स्वस्थानतः सर्वलोकव्यापिनां सूक्ष्मपथिवीकायादीनां प्रवेशात्, कामचित्पुनस्तेषामप्रवेशेऽपि मारणसमुद्घातेन सर्वलोकव्यापिनां बादरसाधारणवनस्पतिकायानामपर्याप्तवादरपथिवीकायाद्यन्यतमजीवराशेर्वा प्रवेशात , तैः सर्वैः सप्तानामनत्कृष्टस्थितिबन्धस्य निर्वर्तनाच्चेति । अथ वादरपर्याप्तवायुकायमार्गणायां प्रकृतक्षेत्रमाह-“देसेणणे” इत्यादि, देशेनाऽसंख्येयतमैकभागलक्षणेनोने-न्यूने लोके, सप्तकर्मसत्कानुत्कृष्टस्थितेर्वन्धका भवन्तीति प्रक्रमागम्यते । कुत्रेत्याह-"बायरपज्जत्तवाउम्मि" ति सुगमम् , असंख्यलोकप्रदेशराशिमपेक्ष्य स्तोका
Jain Education International
For Private &Personal Use Only
----
www.jainelibrary.org