________________
मार्गणास्त्रायुर्वर्जानामुत्कृष्स्थितेः] द्वितीयाधिकारे क्षेत्रद्वारम्
[ २९९ लोकासंख्येयभागमात्रव्यापित्वेन च स्वस्थानात् समुद्घातादितश्च लोकासंख्येयभाग एव बोद्धव्यम् ।
उक्तं च जोवसमासे-'सेसा उ असंखभागम्मि' ॥ इत्यादि । __ इत्थं च स्थिते एकेन्द्रियादिषु प्रकृतद्वात्रिंशन्मार्गणासु कासुचिदसंख्यलोकप्रदेशराशितुल्यजीवानां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्य स्वामित्वात्, कासु चिचनन्तानां जीवानां तत्स्वामित्वाच प्रस्तुतबन्धकक्षेत्रमपि सर्वलोकः प्राप्यत इति ॥३३०-३३१।। अथ शेपमार्गणासु प्रकृतक्षेत्रं दिदर्शयिपुरेकामामाह
होअन्ति वाउकाये वायरखाउम्मि तस्स पज्जत्ते ।
हीणजगे सेसासु लोगस्स असंखभागम्मि ॥३३२।। (प्रे०) “होअन्ति वाउकाये” इत्यादि, वायुकायौघे, बादरवायुकाये, तथा "तस्सपज्जत्ते” ति तस्य बादरवायुकायस्य पर्याप्तभेद इत्येतासु तिसृषु मार्गणासु प्रत्येकं “होणजगे" त्ति सप्तानामुत्कृष्टायाः स्थितेर्बन्धका 'हीनजगति'-असंख्यैयतमैकभागेन हीने 'जगति'-लोके भवन्तीति पूर्वेण योग इति । कुतः १ त्रिसृषु प्रत्येकं स्वस्थानतो लोकाऽसंख्येयबहुभागव्यापिनां पर्याप्तबादरवायुकायिकानां सप्तकर्मसत्कोत्कृष्टस्थितिबन्धस्वामित्वात् । न चैते प्रकृतोत्कृष्टस्थितिबन्धस्वामिनः प्रकृतमार्गणात्रयगताः पर्याप्तबादरवायुकायिका मारणान्तिकसमुद्घातं प्राप्ताः सन्तः किश्चित्शेष क्षेत्रमप्यवगाह्य समग्रमपि लोकं व्याप्नुयुरिति वाच्यम् । असंख्यलोकप्रदेशराश्यपेक्षया स्तोकानां तेषां कस्मिन्नप्येकसमये मारणान्तिकसमुद्घातेन समग्रलोकं व्याप्तमसमर्थत्वात् । कुतोऽसामथ्र्यम् ? स्तोकपरिमाणत्वादिति प्रागभिहितमेवेति । "सेसासु” ति प्रागुक्तकेन्द्रियादिद्वात्रिंशन्मार्गणास्तथाऽनन्तरमभिहिता वायुकायौघाद्यास्तिस्रो मार्गणा विवर्य शेषासु पञ्चत्रिंशदभ्यधिकशतमार्गणासु प्रत्येकं "लोगस्स असंखभागम्मि" ति सप्तकमसत्कोत्कृष्टस्थितेर्बन्धकाः कस्मिन्नप्येकसमये उत्कर्षतो लोकस्याऽसंख्येयतमैकभागे, भवन्तीत्यत्रापि युज्यत इति । कुतस्तावन्मात्रम् ? प्रत्येकं सप्तानामुत्कृष्टस्थितिबन्धस्वामिनोऽसंख्यलोकप्रदेशराश्यपेक्षया स्तोकाः सन्ति, स्वस्थानक्षेत्रमपि च तेषां लोकासंख्येयभागमात्रं भवति, इत्येवमुक्ताधिकक्षेत्रस्यासम्भवादिति । शेषमार्गणानामानि त्वेवम्-सप्तचत्वारिंशदपि निरयादिगतिचतुष्कसत्कमूलोत्तरभेदाः, सर्वे द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजातिसत्कभेदाः, ते च द्वादश । ओष-बादरौघपर्याप्तबादरभेदभिन्नाः पृथिव्यप्तेजस्कायानां प्रत्येकं त्रयस्त्रयो भेदाः, ओघ-पर्याप्तभेदभिन्नौ प्रत्येकवनस्पतिकायभेदौ, त्रयस्त्रसकायभेदाः, योगादिमार्गणासत्कास्तु सर्वेऽपि भेदास्ते च द्विषष्टिरित्येवं समुदिताः पञ्चत्रिंशदभ्यधिकं शतमिति ।।३३२॥
तदेवमभिहितं सप्तानामुत्कृष्टायाः स्थितेर्बन्धकक्षेत्रमादेशतः । अथ तेषामेव सप्तानामनुत्कृष्टायाः स्थितेस्तदादेशतो दर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org