________________
२९८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वजीनामुत्कृष्टस्थितेः उड्ढलोए--कप्पेसु, विमाणेसु, विमाणावलियासु, विमाणपत्थडेसु, विमाणछिद्दे सु, विमाणनिक्खुडेसु, तिरियलोए-पाईण-पईण-दाहिण-उदीण(राईण)सव्वेसु चेव लोगागासछिद्दे सु, लोगनिक्खुडेसु य, एत्थ णं बादरवाउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता;उववाएणं लोयस्स असंखेज्जेसु भागेसु,समुग्घाएणं लोयस्स असंखेज्जेसु भागेस. सटाणेणं लोयस्स असंखेज्जेस भागेसा' इति।
पर्याप्तवादरपृथिवीकायादिजीवनिचयाः, नारक-देव-मनुष्यादिजीवनिचयाश्च प्रत्येकं स्वल्पस्वल्पतराद्याः स्वस्थानसमुद्घातादिनाऽपि लोकाऽसंख्येयभागमात्रव्यापिनः; यतो जघन्यतोऽप्यसंख्यलोकाकाशप्रदेशराशिप्रमितजीवानां निचयेनैव समुद्घातादिना एकस्मिन् समये समग्रो लोको व्याप्यते, न पुनस्तदल्पजीवानां निचयेनाऽऽपि । न च केवलिसमुद्घातत एकेनाऽपि जीवेन स्वात्मप्रदेशेरेकस्मिन् समये समग्रलोकः व्याप्यत एव, तद्दष्टमेतदिति वाच्यम् । यतोऽत्र प्रकृतस्थितिबन्धमुद्दिश्य तद्वन्धकजीवाऽपेक्षयैतत् कथितमिति निर्दुष्टमेव, केवलिसमुद्घातमपेक्ष्यैकजीवेन समग्रलोकपूरणसम्भवेऽपि स्थितिबन्धकजीवानपेक्ष्य सम्भवन्मारणान्तिकसमुद्धातादिनाऽसंख्यलोकाकाशप्रदेशराशितो हीनसंख्याकैर्जीव रेकस्मिन् समये लोकपूरणस्यासम्भवादिति ।।
इत्थं हि यस्यां यस्यां मार्गणायामेतेषां सूक्ष्मवादरपर्याप्तापर्याप्त पृथिव्यादितत्तज्जीवनिचयानां समावेशोऽसमावेशो वा तदपेक्षया सर्वलोक-लोकाऽसंख्येयबहुभाग-कमागादिक्षेत्रं लभ्यते ।
तथाहि-तिर्यग्गत्योधै-केन्द्रियोघ-सूक्ष्मैकेन्द्रिय-तत्पर्याप्ता-ऽपर्याप्ता इति चत्वारो मार्गगाभेदास्तथैव पथिवीकायौघ-सूक्ष्मपथिवीकाय-तत्पर्याप्तापर्याप्ता इति चत्वारो मार्गणाभेदास्तथैवाकायसत्काश्चत्वारः, तेजस्कायसत्काश्चत्वारः, वायुकायसत्काश्चत्वारः, साधारणवनस्पतिकायसत्काश्चत्वारश्च; तथा वनस्पतिकायोघः, काययोगसामान्यो-दारिककाययोगो-दारिकमिश्रकाययोग-कामेणकाययोगनपुंसकवेद-क्रोधादिचतुःकपाय--मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शन-कृष्ण--नील-कापोतलेश्याभव्या-ऽभव्य-मिथ्यात्वा-ऽसंड्या-ऽऽहार्य-ऽनाहारिमार्गणाभेदाश्चेत्येतेषु प्रत्येकं सूक्ष्मजीवनिचयस्य प्रवेशात् तदपेक्षया स्वस्थानतः समुद्घातादिना च क्षेत्रं सर्वलोकः । बादरैकेन्द्रिय-तत्पर्याप्ता-ऽपर्याप्तबादरवायुकाय-तदपर्याप्ता इत्येतेषु पञ्चमार्गणास्थानेषु सूक्ष्मजीवनिचयस्याप्रवेशेन पूर्ववदुभयथा न सर्वलोकः, किन्तु स्वस्थानतो लोकासंख्येयवहुभागाः, समुद्घातादितश्च सर्वलोकः । कुतः ? प्रत्येकमपर्याप्तवादरैकेन्द्रिय-साधारणवनस्पत्यन्यतरजीवनिचयस्य समावेशात्, बादरौघ-बादरापर्याप्तपृथिवीकाया-ऽप्काय-तेजस्काया इति षट् , तथा प्रत्येकवनस्पतिकाय-तदपर्याप्त-बादरसाधारणवनस्पतिकायतत्पर्याप्ता-ऽपर्याप्ता इति पञ्चेत्येतेष्वेकादशमार्गणाभेदेषु पुनः प्रत्येकं स्वस्थानतो लोकस्याऽसंख्येयभागः, समुद्घातादितश्च सर्वलोकः । यत एतेषु नास्ति सूक्ष्मजीवनिचयस्य प्रवेशः, न वा विद्यते बादरपर्याप्ता-ऽपर्याप्तन्यतरवायुकायजीवनिचयस्य प्रवेशः, किन्त्वपर्याप्तबादरपथिव्याधन्यतमजीवनिचयस्य प्रवेशात् तदपेक्षया क्षेत्रमपि तथैव प्राप्यते । शेषेषु पुनः पञ्चनवतिमार्गणाभेदेषु तु समुद्घातादिना सर्वलोकव्यापिनोऽपर्याप्तबादरपृथिवीकायाद्यन्यतमस्यापि जीवनिचयस्याप्रविष्टतया शेषाणां पर्याप्तबादरपृथिवीकायादिजीवनिचयानां तु स्वस्थान-समुद्घातादिनाऽपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org