________________
मार्गणास्वायुर्वर्जानामुत्कृष्ठस्थितेः ] द्वितीयाधिकारे क्षेत्रद्वारम्
[२९७ प्रदेशराशिप्रमितत्वात् तदधिकत्वाद् वा । अयम्भावः-भङ्गविचयादिवत् क्षेत्रादिकमपि बन्धकजीवपरिमाणाधीनम् , जीवानां बाहुल्यात् प्रतिसमयं मुमूर्ष जीवानामाधिक्येन मारणान्तिकसमुद्घातादिनिरुद्धक्षेत्रस्याधिकतरलाभात् ।
तथाहि-पर्याप्तापर्याप्तपृथिव्यादिकाः सर्वेऽपि सूक्ष्मजीवराशयः प्रत्येकमतिबहुपरिमाणाः सन्तः समस्तलोकव्यापिनः सन्ति । उक्तं च श्रीप्रज्ञापनासूत्रे द्वितीये स्थानपदे___'कहि णं भंते ! सुहुमपुढवीकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं य ठाणा पन्नत्ता ? गोयमा ! सुहुमपुढवीकाइया जे पज्जत्तगा जे अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावन्नगा पन्नत्ता समणाउसो !' इत्यादि । (सू०३९) । ___अपर्याप्तवादरपृथिवीकायाप्कायतेजस्कायप्रत्येकवनस्पतिकायरूपाश्चत्वारो जीवनिचयाः, पर्यातापर्याप्तवादरसाधारणवनस्पतिकायरूपौ च द्वौ जीवनिचयावित्येते पटजीवनिचया यद्यपि स्वस्थानमपेक्ष्य लोकासंख्येयभागमात्रव्यापिनस्तथापि तत्रापर्याप्तवादरपथिव्यादिजीवनिचयानां प्रत्येकमसंख्यलोकाकाशप्रदेशराशिप्रमितत्वेन द्वयोश्च बादरसाधारणवनस्पतिकायजीवनिचययोरनन्तजीवराशितया प्रतिसमयमुत्पद्यमानानां मुमृषूणां च जीवानां बहुत्वात् तैः प्रतिसमयं मारणान्तिकसमुद्घातादिना सर्यो लोको व्याप्यते । उक्तं च स्थानपदे
'कहि णं भंते ! बादरपुढवीकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? जत्थेव बादरपुढवोकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव बादरपुढवीकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उबवाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सहाणेणं लोयस्स असंखेज्जइभागे।' इति ।
___तथा-'कहि णं भंते ! बादरआउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरआउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव बादरआउकाइयाणं अपज्जत्तगाणं ठाणा पन्नता, उयवाएण सबलोए, समुग्घाएणं सबलोए, सहाणेणं लोयस्स असंखेज्जइभागे।' इति ।
___ इत्थमेव शेषाणामपर्याप्ततेजस्काया-ऽपर्याप्तप्रत्येकवनस्पतिकाय-पर्याप्तापर्याप्तबादरसाधारणवनस्पतिकायानां प्रत्येकं स्थानविषये सूत्रसंवादो द्रष्टव्यः । अपर्याप्तवादरवायुकायिका अपि स्वस्थानमपेक्ष्य न सर्वलोकव्यापिनः, किन्तु लोकस्याऽसंख्यबहुभागेष्वेव; यद्यप्येवं तथाप्यसंख्यलोकाकाशराशितुल्यैस्तैः प्रतिसमयं मारणान्तिकसमुद्घातादिना सर्वोऽपि लोकः पूर्यते । उक्तश्च
_ “कहि णं भंते ! अपज्जबादरवाउकाइयाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेत्र बादरवाउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उबवाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सहाणेणं लोयस्स असंखेज्जेसु भागेसु ।" इति।।
पर्याप्तवादरवायुकायिकास्तु स्वस्थानापेक्षया लोकबहुभागान् पूरयन्तो ऽपि नाऽसंख्यलोकाकाशप्रदेशराशितुल्याः, किन्तु लोकसंख्येयभागमात्रगतनभःप्रदेशराशितुल्या एव, तथा च सत्यल्पतया एकस्मिन् समये मारणान्तिकसमुद्घातादिनापि समग्रलोकं नैव व्याप्नुवन्ति । उक्तञ्च स्थानपदे
'कहि णं भंते ! बादरवाउकाइयाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं सत्तसु घणवाएसु, सत्तसु घणवायवलएसं, सत्तसु तणुवाएसु, सत्तसु तणुवायवलयेसु, अहोलोए-पायालेसु, भवणेसु, भवणपत्थडेसु, भवणछिद्दसु, भवणनिक्खुडेसु, निरएसु, निरयावलियासु, निरयपत्थडेसु, निरयछिद्देसु, निरयनिक्खुडेसु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org