SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २९६ ] बंधविहाणे मूलपयडिठिइबंधो [ओघादेशत उत्कृष्टेतरस्थित्योः 'कालं उ वट्टमाणं पडुच्च खेत्ते परूवणा णेया। आसिज अईअद्धं परूवणा उण फरिसणाए ।' इति गाथायां वर्तमानकालादेग्रहणं समयादिकाले पर्यवसितं बोद्धव्यमिति । तथा "असंखयमे भागे" इत्यत्राऽऽधारार्थायाः सप्तम्याया विभक्तरुपादानं क्षेत्राभिधानाय, यतः सर्वाधारमाकाशम् , तच्च क्षेत्रमप्युच्यते, जीवादिपदार्थानां तत्र निवसनात् । तदुक्तं श्रीतत्वार्थवृत्तौ-क्षियन्ति-निवसन्ति यत्र जीवादिद्रव्याणि तत्क्षेत्रम्-आकाशम्' इति । ततश्चाष्टानामुत्कृष्टायाः स्थितेर्बन्धका एकस्मिन् समये लोकाकाशस्याऽसंख्येयभागे भवन्ति,तेषां क्षेत्रलोकस्याऽसंख्येयभागमात्रं भवतीत्यर्थः । इत्थमेवोत्तरत्रापि बोद्धव्यम् । ____ अथानुत्कृष्टस्थितेर्बन्धकानां क्षेत्रमाह-"णुकोसाअ पुण सव्वजगे” त्ति लुप्ताकारस्यदर्शनात् प्रकृतत्वाचाष्टानामनत्कृष्टायाः स्थितेः 'सर्वजगति'-सर्वस्मिन्नपि लोके बन्धकाः, भवन्तीत्यनुवर्तते । सुगमं चेदं निविधमपि क्षेत्रम्, पर्याप्तसंज्ञिपञ्चेन्द्रियाणामेवाष्टप्रकृतिसत्कोत्कृष्टस्थितिबन्धस्वामित्वात् , तेषां च स्तोक यादुत्कृष्टस्थितेर्बन्धकक्षेत्रं स्तोकं प्राप्यते । अनुत्कृष्टस्थितेबन्धकास्तु सूक्ष्मापर्याप्तकेन्द्रियपर्यन्ताः सर्वे जीवा भवन्ति, ते चातिबहुकाः सर्वलोकव्यापिन इति कृत्वाऽनुत्कृष्टस्थितेर्बन्धकानां क्षेत्रं सर्वलोकप्रमाणं प्राप्यत इति ।।३२९।।। ___ तदेवमभिहितमोघतोऽष्टानामुत्कृष्टानुत्कृष्टस्थित्योबन्धकक्षेत्रम् । साम्प्रतं तदेवादेशतो व्याजिहिरादौ तावदायुर्वर्जानां सप्तानामाह उक्कोसाअ ठिईए आउगवज्जाण सव्वलोगम्मि। होअन्ति बंधगा खलु एगिदियसव्वभेएसु॥३३०॥ पुहवाईण चउण्हं सव्वसुहुमवायरासमत्तेसु। वण-सव्वणिगोएसु अपज्जपत्तेअवणकाये ॥३३१॥ (प्रे०) "उक्कोसाअ ठिईए” इत्यादि, आयुष्कवर्जानां सप्तानां ज्ञानावरणादीनां प्रत्येकमुत्कृष्टायाः स्थितेः "होअन्ति बंधगा खलु” त्ति 'बन्धकाः' -स्वामिनो 'खलु'-निश्चयेन भवन्ति । कुत्र ? "सव्वलोगम्मि” त्ति सर्वस्मिन्नपि लोके । कासु मार्गणास्वित्याह-"एगिदिये" त्यादि, ओघ-सूक्ष्म-तत्पर्याप्ता--ऽपर्याप्त-बादर-तत्पर्याप्ता--ऽपर्याप्तभेदभिन्नेष्वेकेन्द्रियजातिसत्केषु सर्वभेदेषु, अन्यमार्गणाः संग्रहीतुमाह-"पुहवाइणे" त्यादि, पृथिव्यप्तेजोवायुकायलक्षणानां पृथिव्यादीनां चतुर्णा "सव्वसुहुमबायरासमत्तेसु” ति ये 'सर्वे-'ओघ-पर्याप्ता-ऽपर्याप्तभेदभिनास्त्रयस्त्रयः सूक्ष्मभेदा ये च चादराऽपर्याप्तभेदास्तेषु षोडशमार्गणाभेदेषु तथा “वणसव्वणिगोएसु” ति वनस्पतिकायोघे, सर्वेषु निगोदभेदेषु तथाऽपर्याप्तप्रत्येकवनस्पतिकायभेदे चेत्येतासु द्वात्रिंशन्मार्गणासु प्रत्येकमित्यर्थः । कुतः १ एतासु प्रत्येकं सप्तानामुत्कृष्टस्थितिबन्धकपरिमाणस्यासंख्येयलोक For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy