________________
॥ अथ दशमं क्षेत्रद्वारम् ॥ अथ "खेत्त” इत्यनेनोद्दिष्टस्य दशमस्य क्षेत्रद्वारस्यावसरः, तत्र मूलप्रकृतीनामुत्कृष्टाऽनुत्कृष्टस्थित्यो नाजीवाश्रयं क्षेत्रं प्रतिपिपादयिषुरादौ तावदोघत आह
लोगस्स असंखयमे भागे होअन्ति बंधगाऽ?ण्हं ।
उक्कोसाअ ठिईएऽणुक्कोसाअ पुण सव्वजगे ॥३२९॥ (प्रे०) "लोगस्से" त्यादि, अष्टानां मूलप्रकृतीनामुत्कृष्टस्थितेर्बन्धका लोकस्य चतुर्दशरजवात्मकस्यासंख्यतमे "भागे" ति एकस्मिन् भागे भवन्ति । इह "होअन्ति" इत्यत्र वर्तमानत्वोपादानेन भण्यमानं क्षेत्रं समयमात्रापेक्षमवगन्तव्यम् । किमुक्तं भवति ? भण्यमानक्षेत्रप्ररूपणायां वक्ष्यमाणस्पर्शनाप्ररूपणायां च लोकासंख्येयभागादिलक्षणं तत्तत्स्थितेवन्धकानामुत्कृष्टपदगतं क्षेत्रपरिमाणमेव प्ररूपणीयम् , यद्यप्येवं तथाऽपि क्षेत्रप्ररूपणायां भण्यमानस्य स्पर्शनाद्वारे वक्ष्यमाणस्य च क्षेत्रपरिमाणस्याऽस्ति विशेषः, स चेह कालकृत एव विज्ञेयः । उत्कृष्टादिस्थितेर्बन्धकानामुत्पाद-समुद्घातादिविषयभूतसमस्तक्षेत्रस्य तत्तत्कालापेक्षया हिनाधिकता भवति,समयमात्रकालापेक्षं तद् विलक्षणं प्राप्यते, नानासमयसव्यपेक्षं पुनस्ततोऽपि विलक्षणं लभ्यत इति भावः ।।
तथाहि-एकसमयमपेक्ष्य, अर्थात् एकस्मिन् समय उत्कर्षतो यावति क्षेत्रे विवक्षितोत्कृष्टादिस्थितेर्बन्धकजीवानां सम्भवस्तावत् 'लोगस्स असंखयमे' इत्यादिना भण्यमानं लोकासंख्येयभागादि क्षेत्रपरिमाणं क्षेत्रप्ररूपणाविषयभूतम् । नानासमयापेक्षयोत्कर्षतो यावति क्षेत्रे तादृशबन्धकजीवानां सम्भवस्तावत् 'फुसिआ तेरह भागा' इत्यादिना स्पर्शनाद्वारे वक्ष्यमाणं वसनाड्यास्त्रयोदशादिभागलक्षणं क्षेत्रपरिमाणं पुनः स्पर्शनाप्ररूपणाविषयभूतम् । न चायमसाम्प्रदायिकः कुतो विवक्षितः क्षेत्रस्पर्शनयोर्विशेष इति वाच्यम् । जीवसमासे इत्थमेव विवक्षितत्वात् । उक्तं च तत्र
सट्ठाण-समुग्याएणुववाएणं च जेजहिं भावा ।संपइकाले खेत्तं तु फासणा होइ समईए॥१८०॥इति।
न च तत्र साम्प्रतकालिकं क्षेत्रम् , अतीतकालिकी तु स्पर्शनोक्ता, न तु सामयिक क्षेत्रमित्यादीति वाच्यम् । वर्तमानकालस्य समयमात्रत्वेनातीतकालस्य त्वनन्तसमयात्मकत्वेन च विवक्षाभेदाभावात् । उक्तश्च तत्वार्थभाष्ये वर्तमानादीनां समयाद्यात्मकत्वम्
"तत्रैक एव वर्तमानसमयः, अतीता-ऽनागतयोस्त्वानन्त्यम्” इति ॥५॥३९।।
इत्थं च कदाचित् 'लोगस्स असंखयमे भागे होअन्ति बंधगाऽट्टण्ह'मित्यादिभणनावसरे प्रज्ञापकापेक्षया तत्तत्समयायात्मके वर्तमानकाले सर्वस्मिन् जगति न स्यादेकोऽपि मूलकर्मणामुत्कृष्टस्थितेर्वन्धकस्तदभावे तत्संबन्धिलोकाऽसंख्यभागमात्र क्षेत्रं तथाऽपि न काचित्क्षतिः, अतीतसमयमात्रकालमपेक्ष्याऽपि प्रस्तुतक्षेत्रोपपत्तेः । अत एवाधिकृतबन्धविधानग्रन्थे मूलप्रकृतिबन्धप्रथमाधिकारे क्षेत्र-स्पर्शनयोर्विशेषप्रतिपादनपरायाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org