________________
२९४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषो जघन्येतरस्थित्योः कापेक्षयाऽजघन्यस्थितेर्बन्धकाः स्तोका एव । एवं स्तोकाधिक्यभावेऽप्यतिदेशप्रयोगस्त्वभिलापसाम्यादेवावसातव्यः । एवमेवान्यत्राऽप्यतिदेशेऽभिलापसाम्यमेवादाय सर्वमुपपादनीयम् । इत्थं य आयुषो जघन्यस्थितेर्बन्धका अप्यतिदेशेन दर्शितास्तेऽपि अभिलापसाम्यादेव, तदुपपत्तिस्तूऽक्तनीत्यैव कार्या । तथाहि-निरयगत्योघे जघन्यस्थितिकायुर्वन्धार्हानां परिमाणमिव तादृशजघन्यस्थितिकायुर्वेदकजीवपरिमाणमपि लोकेऽसंख्येयं विद्यते, अतस्तत्रानत्कृष्टस्थितेर्बन्धकपरिमाणवजघन्यस्थितेर्बन्धकपरिमाणमप्युत्कृष्टपदेऽसंख्येयं भवति । इत्थमेव शेषनिरयगतिभेदेषु, चतुर्यु तिर्यक्पञ्चेन्द्रियभेदेषु, मनष्यौघा-ऽपर्याप्तमनुष्यभेदयोः, देवोधे, सहस्त्रारान्ते स्वेकादशदेवभेदेषु, तथा नवस्वपि विकलेन्द्रियभेदेषु, त्रिषु पञ्चेन्द्रियभेदेषु, सर्वेषु पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिकायसत्केष्वेकत्रिंशद्भदेषु, त्रिषु त्रसकायभेदेषु, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रियकाययोग-स्त्रीवेदपुवेद-विभङ्गज्ञान-चक्षुर्दर्शन--देशसंयम--तेजः-पबलेश्या--सास्वादन-संज्ञिमार्गणास्वपि बोद्धव्यम् । तिर्यग्गत्योधमार्गणायां त्वायुषोऽनत्कृष्टस्थितिबन्धं निर्वर्तयितुं यथाऽनन्ताः साधारणवनस्पतिकायजीवा अप्यहन्ति, तथा एते जघन्यस्थितिकायुर्वन्धं कमप्यर्हन्ति, तथा तादृशजघन्याऽऽयुर्वेदका अपि लोकेऽनन्ता विद्यन्ते, ततश्च तिर्यग्गत्योधमार्गणायामनुत्कृष्टस्थितेर्बन्धकानामिव जघन्यस्थितेबन्धका अप्यनन्ताः प्राप्यन्ते । एवमेव अनन्तजीवराशिकासु सर्वमार्गणासु विज्ञेयम् ।
___ताश्च मार्गणा इमाः-तिर्यग्गत्योघः, सर्व एकेन्द्रियभेदाः, वनस्पतिकायौघः, सर्वे साधारणवनस्पतिकायभेदाः, ते च सप्त. काययोगोधौ-दारिकौ-दारिकमिश्र-नपुसकवेद-कषायचतुष्क-मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शन-कृष्ण-नील-कापोतलेश्या-भव्या-ऽभव्य-मिथ्यात्वा-ऽसंड्या-हारिमार्गणा इति । शेषमार्गणाभ्य आनतादिदेवभेदेषु पर्याप्तमनुष्यादिमार्गणासु च समग्रा अप्यायुबन्धकाः प्रागुक्तनीत्योत्कृष्टतोऽपि संख्येया एव सम्भवन्ति, अतोऽनुत्कृष्टस्थितेर्वन्धकानामिव जघन्यस्थितिबन्धका अपि संख्येया एव प्राप्यन्ते, अतस्तत्राऽप्यतिदेशेनाभिहिताः । मतिज्ञानादिष्वपवादविषयभृतासु षण्मार्गणासु तु जघन्यस्थितिकमायुः पर्याप्तमनुष्यसत्कमेव बध्यते, देवनारकाणां तत्स्वामित्वात्; अनुत्कृष्टस्थितिकायुस्तु देवसत्कमपि बध्यते, मनुष्यतिर्यक्पञ्चेन्द्रियाणामपि तत्स्वामित्वात्, इत्थं च जयन्यस्थितेर्बन्धकाः संख्येया एवं प्राप्यन्ते, देवानामसंख्येयत्वेऽपि तादृशायुर्वेदकानां पर्याप्तमनुष्याणां संख्येयत्वात्, । अनुत्कृष्टस्थितेर्बन्धकास्त्वसंख्येयाः प्राप्यन्ते, तद्वन्धाहजीवराशेरिव बन्धप्रायोग्यदेवायुपो वेदकानामपि लोकेऽसंख्येयानां सद्भावात् । ततश्चोभयत्र वैषम्यात् तासु षण्मार्गणास्वपोदितमिति ॥३२८॥
तदेवं दर्शितमायुषो जघन्याजघन्यस्थित्योबन्धकपरिमाणमादेशतोऽपि, इत्थं च गतं नवमं परिमाणद्वारम् ।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे नवमं द्रव्यपरिमाणद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org