________________
२९० ]
बंधविहाणे मूलपअडिठिइबंधो [ मार्गणास्वायुर्वर्जनामजघन्यस्थितेः अप्रमतसंयता इति कृत्वा संख्येया एव । इत्येवमुक्तसर्वमार्मणासु भिन्नभिन्नहेतोः संख्येया एव बन्धका लभ्यन्ते, न पुनरसंख्येया अनन्ता वेति ।
अथ शेषमार्गणासु प्रकृतबन्धकपरिमाणमाह-“अवसेसासु हविरे असंखेज्जा" त्ति 'तिरिये सव्वेगिदिये'त्यादिना प्रागुक्ता अष्टाविंशतिमार्गणास्तथा 'तिमणुसे' त्यादिनाऽनन्तरोक्ताचतुःपञ्चाशन्मार्गणाश्च संत्यज्य शेपास निरयगत्योधादिष्वष्टाशीतिमार्गमासु प्रत्येकमसंख्येया भवन्तीत्यर्थः । शेषमार्गणा नामतस्त्विमा:-अष्टौ निरयगतिमार्गणाभेदाः,चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, अपर्याप्तमनुष्यभेदः, सर्वार्थसिद्धविमानभेदवर्जा देवौघभवनपत्यादय एकोनत्रिंशदेवगतिभेदाः, नव विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियभेदः, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिकायसत्काः सर्व इत्येकत्रिंशद्भेदाः, अपर्याप्तत्रसकायभेदः, वैक्रिय-वैक्रियमिश्रकाययोगभेदौ सम्यग्मिथ्यात्वसासादनभेदौ चेति । एतास प्रत्येकमसंख्येया जीवास्ते च स्वस्थानविशद्धाः सन्तः सप्तानां जघन्यस्थितेर्वन्धका भवन्ति, न पुनर्विभङ्गज्ञानादिमार्गणावत् संयमाद्यभिमुखाः सन्त एव, ततश्चैकस्मिन् समय उत्कृष्टतोऽसंख्येया प्राप्यन्त इति तथैवाभिहिता इति । इदन्तु बोडयम्सासादनमार्गणायां 'सासाणे चाइयो निवडतो संयमा व भवे" (गाथा-१२९) इति जघन्यस्थितिबन्धस्वामित्वप्ररूपणोक्तेन चतुर्गतिकानां स्वस्थानविशुद्धानां सासादनसम्यग्दृशां जघन्यस्थिति-- बन्धस्वामित्वाभिप्रायेण प्रकृतबन्धका असंख्येया अभिहिताः । तदन्यमतेन तु ते संख्येया एव भवन्ति, संयमान्सासादनप्राप्तानां संख्येयानामेव सम्भवादिति ।।३२४-३२५-३२६॥
तदेवमभिहितं सप्तानां जघन्यायाः स्थितेर्बन्धकपरिमाणमादेशतः । अथ तेषामेवाऽजघन्यायाः स्थितेभिणिपुरुत्कृष्टस्थितिवन्धकपरिमाणेन सर्वसाम्याल्लाघवार्थमतिदिशन्नाह
सव्वासु अहस्साए ऽणुकोसठिइब्व णायया ॥३२७॥ (प्रे०) “सव्वासु अहस्साए” इत्यादि, निरयगत्योपाद्यनाहारकपर्यन्तासु सप्तत्यधिकशतसंख्याकासु सर्वास्वधिकृतमलोत्तरमार्गणासु “अहस्साए” त्ति प्रकृतत्वादायुर्वर्जसप्तान्यतमानां निरयगत्योपादितत्तन्मार्गणायां बन्धप्रायोग्यानां मूलप्रकृतीनामहस्वायाः-अजघन्यायाः स्थितेबन्धकाः "डणुक्कोसठिइव्व णायव्वा" ति अत्रैव द्वारे प्राक'तिरिये सवेगिदियणिगोअभेस-वणकाय-योगेसु । उरलदुग-कम्मणेसु णपुसगे चउकसायेसु॥ अण्णाणदुगे अयते अचक्खुदंसण-तिअसुइलेसासु । भविये-यर-मिच्छेसु असपिण-आहार-गियरेसु॥ हुन्ति अणुक्कोसाए ईअ सत्तण्ह बंधगाऽणंता । पज्जमणुस-मणुसीसुसव्वत्था-ऽऽहारदुग-अवेएसु॥ मणणाण-संयमेसु समइअ-छेअ-परिहार-सुहुमेसु । णायवा संखेज्जा सेसासु असंखिया तत्थ ॥ बायरसमत्तवज्जिअपुहवाइगचउगसेसभेएसु । पत्तेश्रवणम्मि तहा तदपज्जत्ते असंखलोगसमा।।' इतिगाथापञ्चकेन निरगत्यादितत्तन्मार्गणायामभिहितानामायुर्वर्जानां सप्ताना-'मनुत्कृष्टस्थितिवत्'अनुत्कृष्टस्थितेर्बन्धकानामिव ज्ञातव्याः । यथा मार्गणास्थानेषु प्राक् सप्तानामनुत्कृष्टस्थिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org