________________
मार्गणास्वायुवर्जानां जघन्यस्थितेः ] द्वितीयाधिकारे परिमाणद्वारम्
[२८९ त्ति अनन्ताः । क इत्याह-"सत्तण्हे"त्यादि सुगमम् । भावार्थोऽपि सुगमः, यतः प्रत्येक जघन्यस्थितिबन्धस्वामिनो विशिष्टाः साधारणवनस्पतिकायिकाः, तेषां चानन्तत्वात्प्रकृतबन्धकपरिमाणमप्यनन्तं भवतीति ॥३२२-३२३।।
तिमणुस-सव्वत्थेसुदुपणिंदितसेसु पणमणवयेसु । कायो-रालेसु तह आहारदुगे तिवेएसु॥३२४॥ गयवेअ-कसायचउग-चउणाण-विभंग-संयमेसु च । सामाइअ-छेएसुपरिहारे देस-सुहुमेसु॥३२५॥ णयणा-ऽणयणो-हीसुपसत्थलेसासु भविय-सम्मेसु। खइअम्मि वेअगम्मि य उवसम-सण्णीसु आहारे ॥३२६॥
णायव्वा संखेज्जा अवसेसासु हविरे असंखेज्जा। (प्रे०) “तिमणुसे"त्यादि, अक्षरार्थस्तु प्राग्वत् , नवरम् “तिमणुस” इत्यनेनापर्याप्तमनुष्यभेदवर्जाः शेषा मनुष्यौघ-पर्याप्तमनुष्य-मानुपीलक्षणास्तिस्रो मार्गणा ग्राह्याः, तथा "दुपणिंदितसेसु' इत्यत्रापि द्विशब्दस्य प्रत्येकं योजनादपर्याप्तमेदवर्जावोध-पर्याप्तभेदभिन्नौ द्वौ पञ्चेन्द्रियजातिभेदौ द्वौ च त्रसकायभेदी विवक्षितौ बोद्धव्यौ, तथा “पसत्थलेसासु" इत्यनेन पद्माद्यास्तिस्रः शुभलेश्याश्च सङ्ग्रहीता विज्ञेयाः । इत्येवमाद्यगाथात्रयेण सगृहीतासु मनुष्यगत्योघादिचतुःपञ्चाशन्मार्गणासु प्रत्येकं "णायव्वा संखेज्जा" ति प्रकृतत्वादायुर्वर्जानां सप्तान्यतमानां तत्तन्मनुष्यगत्योधादिमार्गणायां बन्धप्रायोग्यप्रकृतीनांजघन्यस्थितेर्बन्धकाः संख्येया ज्ञातव्याः। कुतः ? उच्यते, मनुष्योधमार्गणायां सप्तानां जघन्यस्थितिबन्धस्य क्षपकश्रेणावनिवृत्तिवादरगुणस्थाने सूक्ष्मसम्परायगुणस्थाने वा यथासम्भवं भावात् , तत्र कस्मिन्नप्येकस्मिन् समय उत्कृष्टतः संख्येयानामेव जीवानां सद्भावाच्चेति । इत्थमेव पर्याप्तमनुष्य-मानुषी-पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रियत्रसकायौघ--पर्याप्तत्रसकाय-पञ्चमनोयोगभेद-पञ्चवचोयोगभेद--काययोगसामान्यौ-दारिककाययोगस्व्यादित्रिवेदा-ऽपगतवेद-क्रोधादिचतुःकवाय-मत्यादिचतुर्ज्ञान-संयमौघ-सामायिक-छेदोपस्थापनसूक्ष्मसम्परायसंयम--चक्षुर्दर्शना-ऽचक्षुर्दर्शना-ऽवधिदर्शन-शक्ललेश्या-भव्य-सम्यक्त्वौघ-क्षायिकसम्यक्त्व-संड्या-ऽऽहारिमार्गणासु प्रत्येकं बोद्धव्यम् । औपशमिकसम्यक्त्वमार्गणायां जघन्यस्थितिबन्धस्योपशमश्रेणौ लाभात् , तथा सर्वार्थसिद्धविमानदेवगतिभेद आहारका-ऽऽहारकमिश्रकाययोगमार्गणयोः परिहारविशुद्धिकसंयममार्गणायां च प्रत्येकं जीवानामेव संख्येयत्वात् तदधिकपरिमाणाऽसम्भवः । विभङ्गज्ञान-देशसंयममार्गणयोस्तु जघन्यस्थितेर्बन्धकाः संयमाभिमुखा मनुष्या एव, ततः संख्येया एव सम्भवन्ति । तेजः-पालेश्या-वेदकसम्यक्त्वमार्गणासु तु जघन्यस्थितेर्बन्धका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org