________________
मार्गणास्वायुषो जघन्येतरस्थित्योः] द्वितीयाधिकारे परिमाणद्वारम्
[ २९१ बन्धकपरिमाणमभिहितं तथा प्रकृतेऽपि सप्तानामजघन्यस्थितेर्बन्धकानां परिमाणमविशेषेण ज्ञातव्यम् । मार्गणागतानां सर्वजीवानामनुत्कृष्टस्थितिबन्धवदजघन्यस्थितिवन्धार्हत्वादितिभावः । विशेषतस्तु प्रतिमार्गणं सप्तानामनुत्कृष्टस्थितेबन्धकपरिमाणवत् स्वयमेव भावनीयमिति ।।३२७।।
___ तदेवमुक्तं सप्तानां जयन्याजवन्यस्थित्योबन्धकपरिमाणमादेशतः साम्प्रतमवशेषस्यायुषस्तत्तन्मार्गणास्थानेषु प्रतिपिपादयिषुलाघवार्थमेकयाऽऽर्यया । सापवादमतिदिशति
हस्सियराण ठिईणं आउस्स अगुरुठिइब्ब हुन्ति परं । हस्साए संखेज्जा तिणाण-ऽवहि-सम्म-वेअगेसु भवे ॥३२८॥ (गीतिः)
(प्रे०) "हस्सियराणे" त्यादि, शेषस्याऽऽयुषः-मौलायुःकर्मणो 'ह्रस्वेतरयोः'-जघन्याऽजधन्ययोः स्थित्योः “अगुरुठिइव्व हुन्ति” त्ति 'आउस्स' इत्यस्यात्रापि योजनादायुषोऽगुरुस्थितिवद् भवन्ति । आयुषोऽनुत्कृणायाः स्थितेरत्रैव द्वारे प्राक'संखेज्जा हुन्ति तिणर-आहारदुग-आणताइदेवेसुं । चरणाण-संयमेसं समइअ-छेअ-परिहारेसुं ।।। देसो-हि-तिसुइलेसा सम्म-वइअ-वेअगेसु सासाणे । आउस्त गुरुठिईए सेसासु असंखिया णेया ॥ पज्जमगुस-मणु सीसुं आहारदुगा-ऽऽणताइदेवेसुं । मणणा-संघम-समइअ-छेअ-परिहार-सुइल-खइएसु।। संखेना अगुरूए ठिईअ आउन्स हुन्ति सेसासुं। सत्तण्ह जत्तिआ खलु अगुरुठिईएऽस्थि तत्तिआ णेया॥' इतिगाथाचतुष्टयेन यावन्तो बन्धकाः प्रतिपादितास्तावन्तो भवन्तीत्यर्थः । अयं हि बहुसाम्यकृतोऽतिदेशः, न पुनः सर्वसाम्यकृतः, अतस्तत्र स्तोकमात्रवैपम्यप्रयुक्ता याऽतिव्याप्तिस्तामुद्ध काम आह“पर” मित्यादि, परमयमत्र विशेषः कोऽसावित्याह-"हस्साए” इत्यादि, प्रकृतस्यायुपो 'ह्रस्वाया:'-जघन्यायाः स्थितेः संख्येयाः, बन्धका इति गम्यते । कासु मार्गणास्वित्याह-"तिणाणे" त्यादि, मत्यादिषु तिसृषु ज्ञानमार्गणासु, तथाऽविदर्शन सम्यक्त्वौघ-वेदकसम्यक्त्वमार्गणास्वित्येतासु पण्मार्गणास्ववेत्यर्थः, न पुनरन्यमार्गणास्वजधन्यस्थितेर्वन्धकपरिमाणविषये वा ।
इदमुक्तं भवति-मतिज्ञानादिषण्मार्गणास्त्रायुगो जघन्यस्थितेर्बन्धकपरिमाणविषयकमपवादं विहाय शेषमार्गणास्वायुषो जघन्यस्थितेर्बन्धकाः, सर्वमार्गणास्वायुषोऽजघन्यस्थितेर्बन्धकाश्च प्रत्येकमौत्सर्गिकवाक्यानुसारेण संख्येया असंख्येया अनन्ताश्च यथासम्भवं बोद्धव्या इति ।
इदमत्र हृदयम्-उत्कृष्टानुत्कृष्टस्थितिकायुर्वन्धकानां परिमाणमिव जघन्याऽजघन्यस्थितिकायुर्वन्धकानां परिमाणमपि तादृशायुनिवर्तनानां जीवानां यदुत्कृष्टं परिमाणं तथा तादृशायुर्वेदकानां जीवानां यदुत्कृष्टं परिमाणं तयो योर्यत्स्तोकं संख्येयमसंख्येयमनन्तं वा तदनुसारेण तादृशस्थितिकायुर्वन्धका अपि संख्येया असंख्येया अनन्ता वोत्कृष्टतः सम्पद्यन्ते । किञ्च येऽनुत्कृष्टस्थितेबन्धकास्ते सर्वेऽजघन्यस्थितेर्बन्धका अपि, तच्छेपास्तु स्तोका एव, अतो निरयगत्योधादितत्तन्मार्गणासु यावन्त आयुषोऽनुत्कृष्टस्थितेर्बन्धकास्तावन्तोऽजघन्यस्थितेर्बन्धका अपि भणिताः । एते चाऽनुत्कृष्टस्थितेर्बन्धका अजघन्यस्थितेर्बन्धकाश्च संख्येयत्वादिरूपेण तुल्या अप्यनुत्कृष्टस्थितेर्बन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org