________________
मार्गणास्वायुषोऽनुत्कृष्स्थितेः ] द्वितीयाधिकारे परिमाणद्वारम्
[ २८७ मार्गणायां प्रवेश एव नास्ति; किश्च प्रकृतमार्गणागतदेवनारकाः सम्यक्त्वभाक्तया संख्येयराशिकस्य पर्याप्त मनुष्यस्याऽऽयुर्बध्नन्त एकस्मिन् समय आनतकल्पादिभेदवत् संख्येया एव सम्पद्यन्ते, एतेषां समस्तानामपि संख्येयत्व आयुषोऽनुत्कृष्टस्थितेवन्धका अपि संख्येयाधिका न सम्भवन्ति । ____ कषायप्राभृते तु'संखेज्जा च मणुस्सेसु खीणमोहा सहस्ससो णियमा । सेसासु खीणमोहा गदीसु णियमा असंखेज्जा ॥'
___ इत्यनेन क्षीणदर्शनमोहाः क्षायिकसम्यक्त्वभाजस्तियञ्चोऽसंख्येया अभिहिताः, अतस्तन्मते तु प्रकृतपरिमाणमायव्ययतौल्यनियमाद्भावनीयम् । तथाहि-निरयगत्यादिसर्वजीवराशिषु प्रत्येकमेकस्मिन् समये संख्येया असंख्येया अनन्ता वा यावन्तो जीवा उत्कृष्टतो मार्गणान्तरेभ्य आयान्ति, तावन्त एव संख्याता असंख्याता अनन्ता वा जीवा एकस्मिन् समये उत्कृष्टतो वियन्ति, तावतां जीवानां गत्यन्तागमनरूपो व्ययो भवतीति भावः । कुतो ज्ञायत एतद् ? इति चेद्, श्रीप्रज्ञापनादावुपपातोद्वर्तनाधिकारे तु ल्यानां संख्येयानामसंख्येयानामनन्तानां वा जीवानामुपपातोद्वर्तनयो रभिहित्वात् । उक्तश्च श्रीमत्यां प्रज्ञापनायाम्-'नेरइया णं भंते ! एगसमयेणं केवइया उवट्टति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा उबट्टति, एवं जहा उबवाओ भणिओ तहा घट्टणा वि भाणियव्या' । इत्यादि । प्रकृतेऽपि चाऽसंख्येयपरिमाणे क्षायिकसम्यग्दृष्टितिर्यग्जीवराशावेकस्मिन् समय उत्कृष्टतः संख्येया एव जीवा आयान्ति, न पुनरसंख्येयाः, पर्याप्तमनुष्याणामेव तत्रोत्पत्तेः । इत्थं क्षायिकसम्यग्दृष्टितिर्यग्जीवसङ्घाते उत्कृष्ट पदे संख्येयानामेवायः, यावतामायस्तावतामेव व्ययोऽपीति नियमात् क्षायिकसम्यग्दृष्टिजीवनिचयादेकस्मिन् समय उत्कृष्टतोऽपि संख्येया एव वियन्ति; किञ्च कस्यामपि मार्गणायामुत्कृष्टतो यावतामेकस्मिन् समये मरणं सम्भवति, तदधिकानामायुर्वन्धो न भवति। ततश्च क्षायिकसम्यग्दृशां तिरश्चामसंख्येयानां सद्भावेऽप्यायुर्वन्धकास्तु संख्येया एवोत्कृष्टत एकसमये प्राप्यन्ते, तथा च सति श्रीभगवत्यभिप्रायवत् करायप्राभृताभिप्रायेणाऽपि प्रकृतमार्गणायामायुपोऽनुत्कृष्टस्थितेर्वन्धकास्त्वेकसमये संख्येयाधिका नैव प्राप्यन्ते, ततश्च पर्याप्तमनुष्यादिक्षायिकसम्यक्त्वान्तास्वेकोनत्रिंशन्मार्गणासु प्रत्येकमायुषोऽनुत्कृष्टस्थितेर्बन्धका अपि संख्येया एवोक्ता इति ।
अथ शेषमार्गणास्वाह-"सेसासु” इत्यादिना ‘अगुरूए ठिईअ आउस्स हुन्ति' इत्यस्य डमरूकमणिन्यायेनाऽत्रापि योजनात् शेषासु निरयगत्योघादिपत्रिंशदभ्यधिकशतमार्गणासु "तत्ती
आ णेया" ति तावन्तो ज्ञेया इति गाथाप्रान्तेऽन्वयः,यत्तदोनित्यसम्बन्धात्तत्पदवाच्यान् तान् यत्पदेनाभिदधाति-"सत्तण्ह जत्तिआ खलु” इत्यादिना, आयुर्वर्जानां सप्तानामगुरुस्थितेः-अनुत्कृटायाः स्थितेः निरयगत्योघादिमार्गणासु प्राग यावन्तो बन्धका अभिहिताः सन्तीत्यर्थः । इदमुक्त भवति-पर्याप्तमनुष्याद्यनन्तरोक्तैकोनत्रिंशन्मार्गणावर्जासु शेषासु चतुस्त्रिंशदभ्यधिकशतसंख्याकासु निरयगत्योधादिमार्गणासु प्रत्येकमसंख्येयोऽनन्तो वा यो जीवराशिस्तदनुसारेण यथासम्भवमसंख्येया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org