________________
२८६ ]
बंधविहाणे मूलपडिटिइबंधो [ मार्गणास्वायुषोऽनुकृष्ट थते: णामेवायुष उत्कृष्टस्थितिबन्धस्वामित्वात् तेषां च संख्येयत्वात् प्रस्तुतबन्धकपरिमाणमपि तथैवोक्तम् । आनतकल्पादिदेवगतिमार्गणासु त्वसंख्येयानां देवानां सद्भावेऽपि तेषु कस्मिन्नपि समय आयुर्वन्धकाः पर्याप्त मनुष्यपरिमाणादधिका न सम्भवन्ति, पर्याप्तमनुष्यास्तूत्कृष्टतोऽपि संख्येया एव सन्ति । अत आनतकल्पादि मार्गणास्वेकसमय सव्यपेक्षमायुष उत्कृष्टस्थितेर्वन्धकपरिमाणमप्युत्कृष्टपदे संख्येयमेवाभिहितमिति । "सेसासु असंखिया णेया" ति अनन्तरोक्तस्य 'आउस गुरुठिईए' इत्यस्य काकाक्षिगोलकन्यायेनात्रापि योजनाद् उक्तशेषासु त्रयोविंशत्युत्तरशतमार्गणास्वायुषो गुरुस्थितेरसंख्येया ज्ञेयाः, बन्धका इति गम्यत इति । सुगमम् ; नवरमनन्तजीवराशिका स्वकेन्द्रियादि मार्गणास्वप्युत्कृष्टस्थितिकमायुः पर्याप्तमनुष्यसत्कं पर्याप्ततिर्यक्पञ्चेन्द्रियसत्कं वा निर्वर्त्यते, पर्याप्तमनुष्य- पर्याप्ततिर्यक् पञ्चेन्द्रियाश्च समुदिता अप्यसंख्येया इतिकृत्वा प्रागुक्तनीत्या तदायुषो बन्धका अपि समस्ते जगति कस्मिन्नपि समयविशेषेऽनन्ता न प्राप्यन्ते, किन्त्वसंख्येया एव प्राप्यन्त इति तथैवाभिहिता इति ।। ३२७-३१८।।
अथायुषोऽनुत्कृष्टस्थितेर्बन्धकपरिमाणमादेशतः प्ररूपयन्नाह - पज्जमणुसमणुसीसु आहारदुगा-ऽऽणताइदेवे ं । मणणाण-संयम समइअ - छेअ - परिहार- सुइल- खइएस ॥३१९॥ ( गीतिः) संखेज्जा अगुरूए ठिईअ आउस्स हुन्ति सेसासु । सत्तण्ह जत्तिआ खलु अगुरुटिईएऽत्थि तत्तिआ णेया ॥ ३२० ॥ ( गो०)
(प्रे०) "पज्जमणु से "त्यादि, अक्षरार्थस्तु प्राग्वत् । भावार्थ: पुनरयम्--पर्याप्तमनुष्यादिमार्गणासु प्रत्येकमायुषो बन्धका एकस्मिन् समय उत्कृष्टतः संख्येया एव प्राप्यन्ते, ततथायुपोऽनुत्कृष्टस्थितेर्बन्धका अपि तदधिका न सम्भवन्ति । कुत आयुषो बन्धकाः संख्येया एव प्राप्यन्ते इति चेद्, पर्याप्तमनुष्यादिकतिपयमार्गणासु जीवानामेव संख्येयत्वात् कतिपयासु पुनरानतकल्पादिमार्गणासु जीवानामसंख्येयत्वेऽपि पर्याप्तमनुष्यसत्कस्यैवाऽऽयुप बन्धभावात् प्रागुक्तनीत्याssयुप न्यकाः संख्येया एव प्राप्यन्ते । शुक्ललेश्यायामप्येवमेव, तस्यां तिर्यग्भिरायुर्बन्धस्यैवाकरणात् । क्षायिकसम्यक्त्वमार्गणायां तु युग्मितिर्यग्भिरायुर्वन्धकरणेऽपि श्रोभगवतीसूत्राभिप्रायेण सूपपत्तिकं प्रस्तुतपरिमाणम्, तदभिप्रायेण युग्मितिरश्वामप्यसंख्येयानामभावात् । उक्तञ्चसंख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्भ्यश्च्युतानां संख्येयानामेवासुरकुमारदेवतयोत्पाद व्युत्पादयद्भिर्वादिगजघटा केसरिभिः श्रीमदभयदेवसूरिपादैश्चतुर्विंशतितमशतक द्वितीयोदेशवृत्तौ'संखेज्जा उत्रवज्जंति' त्ति असंख्यातवर्षायुस्तिरश्चामसंख्यातानां कदाचिद्यभावात्' इति । (सूत्रं ६९८ ) तेषां च संख्येयत्वे क्षायिकसम्यक्त्वभाजां तिरश्चामपि संख्येयानामेव सद्भावेन देवायुबघ्नन्तः प्रकृतमार्गणागतास्तिर्यग्युग्मिन: संख्येया एव, युग्मिवर्जतिरथां तु क्षायिकसम्यक्त्व
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org